________________ 182 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अनेन अनुमानेन जलादित्रयोदशभेदाभावो जलादौ अनुमातुं शक्यत इत्यर्थः / तथा च जलादौ जलादित्रयोदशभेदाभावे निश्चिते पृथिवीत्वाभावेचजलादौ निश्चिते व्यतिरेकव्याप्तिग्रहे सतिव्यतिरेक्यनुमानं सम्यगेवेति सुष्यूक्तं सन्देहरूपा साध्यप्रसिद्धिः पृथिव्यामिति प्रघट्टकार्थः / ननु यत्र जलभेदाभावस्तत्र जलादौ त्रयोदशभेदसमुदायाभाव इति विशेषव्याप्तो(प्तौ) दृष्टान्ताभावात् / कथम् ? जलपक्षकानुमानप्रवृत्ति(ते)रित्यत आह - सामान्येति / [88 A] तथा च यद्यपि विशेषव्याप्तिास्ति तथापि सामान्यव्याप्तिर्यत्तच्छब्दाभ्याम्, दृष्टान्तोऽपि घटादिसमुदायाभाववद्भूतलमिति वर्तत एवेति / ननु सामान्यव्याप्तौ दृष्टान्तान्तरसम्भवेऽपि प्रकृतसाध्यहेत्वोः जलादिभेदसमुदायाभाव-जलभेदाभावायोः दृष्टान्ताभावात् कथमनुमानमित्यत आह - न हीति अपेक्षेति पर्यन्तम् / नहीति योजना / यथा चक्षुः पक्षः, रूपवदिति साध्यम्, रूपादिपञ्चसु मध्ये रूपव्यञ्जकेन्द्रियत्वादित्यत्र यत्र यत्र रूपादिपञ्चसु मध्ये रूपव्यञ्जकेन्द्रियत्वं तत्र तत्र रूपवत्त्वमित्यत्र दृष्टान्ताभावः / तथा च सामान्यव्याप्तिरिह यथा रूपादिपञ्चसुमध्ये यदिन्द्रियं यं गुणं गृह्णाति तदिन्द्रियं तद्गुणवत् यथा गन्धग्राहकं गन्धवद् घ्राणमिति / एतदेव दृष्टान्तेन विवृणोति - यथेति / यथा तद्गेहं तदा मैत्राभाववत् तदानीं मैत्रवत्तया अनुपलभ्यमानत्वात् अत्र यत् यत् तस्मिन् काले मैत्रवत्तया अनुपलभ्यमानं तत् तत् तदा मैत्राभाववत् / अत्र गतदिवसे सायंकाले मैत्रानुपलब्धिः स्थिता तस्या अनुपलब्धेरहेतोरद्य ग्रहे सति व्याप्तिग्रहो जायते / गतदिवससायंकालस्य मैत्रानुपलम्भस्य चाद्य व्याप्तिग्रहकालेऽभावात् न विशेषव्याप्तौ दृष्टान्तः किन्तु यद्यत्काले यद्वत्तयाऽनुपलभ्यमानं तत्तत्काले तदभाववत्। यथाएतत्काले घटवत्तया अनुपलभ्यमानं भूतलं घटाभाववत् इति सामान्यव्याप्तिः / एवंविधौ पाकानुमानेऽपि द्रष्टव्यम् / यथा इदानीं पाकः चैत्रकृतिसाध्यः इदानीं मत्कृतिं विना असत्त्वे सति मदिष्टसाधनत्वात्। अत्र इदानीं या मत्कृतिस्तस्या अन्यकाले अन्यपुरुषे असम्भवात् / विशेषव्याप्ती दृष्टान्ताभावात् सामान्यव्याप्तिमूलकमेवानुमानमिति दिक् / यथा दण्डे रक्तत्वसन्देहे रक्तत्वविशिष्टस्य दण्डस्य देवदत्ते वैशिष्ट्याग्रहरूपस्य विशिष्टवैशिष्ट्यबोधस्यासम्भवेऽपि देवदत्ते दण्डो दण्डे रक्तिमा न चेत्येतादृशविशिष्टवैशिष्टयबोधे रक्तप्रकारकत्वस्यानुव्यवसायेन विषयीकरणात् / अत्रापि पृथिव्यां त्रयोदशभेदसन्देहे विद्यमानेऽपि त्रयोदशभेदप्रकारकत्रयोदशभेदाभावविशिष्टबोधो विलक्षणो भविष्यतीत्याह - वस्तुत इति टीका / प्रत्यक्षमेव तत्र प्रमाणमिति / वस्तुत इत्यारभ्य दुर्लभमित्येत्पर्यन्तं फक्किकार्थः / तथा चेदृशं प्रत्यक्षं जले जलादित्रयोदशभेदसमुदायो नास्तीत्याकारकं प्रत्यक्षमेव / यथा घटसत्त्वे घटप्रत्यक्षं प्रमाणं [तथा] जले जलादित्रयोदशभेदाभावग्राहकं प्रत्यक्षमेव प्रमाणम् / उक्तसंशयेति / पृथिवी जलादित्रयोदशभेदवती न वेति संशयानन्तरं त्रयोदशभिन्नत्वं त्रयोदशभिन्नत्वाभावश्चेत्युभयोः प्रतियोगितदभावयोः प्रत्यक्षेरूपनिश्चयविषयत्वमित्यर्थः / ननुघटप्रत्यक्षे घटविषयत्वे घटमहंजानामीत्यनुव्यवसायेन घटप्रकारत्वस्यैव विषयीकरणात् घटप्रत्यक्षे घटो भासताम् प्रकृते तु जले जलादित्रयोदशभेदरूपप्रतियोगिप्रकारकं भेदज्ञानं जायत इत्यत्र प्रमाणं नास्तीत्यत