________________ केवलव्यतिरेक्यनुमाननिरूपणम् 181 निश्चयविरोधित्वं वक्तव्यम्, तच्च नास्ति जले तेजोभेदस्य निश्चितत्वात्। तथा च घटाभावनिश्चयवतिभूतले यथा घटपटोभयसन्देहो नभवतिएकदेशाभावनिश्चयस्य समुदायसंशयस्य विरोधित्वात्, तद्वत्प्रकृतेजले तेजोवाय्वादिभेदस्य निश्चितत्वेन समुदायसंशयस्तु न भवति एकदेशनिश्चयस्य प्रतिबन्धकत्वात् / तथा च पृथिव्यामितरभेदरूपसाध्यसन्देहे विद्यमानेऽपिजले इतरभेदव्यतिरेकनिश्चयो भवत्येवेतिव्यतिरेकव्याप्तिग्रहोभविष्यत्येवेत्यर्थः / अथाभावनिश्चयं प्रति प्रतियोगिनिश्चयस्य कारणत्वमित्याशङ्कते - नन्विति टीका / [87 B] यदा जले तेजोवाय्वादिभेदनिश्चयो वर्तते तदेत्यर्थः / तत्रेति जलादौ इत्यर्थः / तथा चेतरभेदरूपसाध्यनिश्चयः कुत्रापि नास्तियतो जलादिभेद एव नास्तीति कृत्वा कुत्रापि साध्यनिश्चयो नास्तीति कृत्वा व्याप्तिनिश्चयो न भवतीतिभावः / समाधत्ते - लाघवेनेति। तथा च प्रतियोगिज्ञानत्वेन च सामान्यतः कार्यकारणभावे सिद्धे तदभावज्ञानत्वेन तत्प्रतियोगिज्ञानत्वेन च विशेषतः कार्यकारणभावे सिद्धे अभावनिश्चयत्वेन प्रतियोगिनिश्चयत्वेन चावान्तरकार्यकारणभावकल्पने प्रमाणाभावात् इत्यर्थः / ननु प्रतियोगिनि प्रतियोगितावच्छेदकसन्देहे प्रतियोगितावच्छेदकविशिष्टप्रतियोग्यभावबुद्धिर्विलक्षणविशिष्टवैशिष्ट्यावगाहिनी नानुभवसिद्धा। यथा दण्डेरक्तिमासन्देहे रक्तो दण्डो नास्ति इत्यभावनिश्चयो नोत्पद्यते इत्यनुभवसिद्धम् / तद्वत्प्रकृते पृथिवीनिष्ठजलादित्रयोदशभेदसन्देहे जलादित्रयोदशभेदाभावनिश्चयोऽपि नानुभवसिद्ध इत्यतोऽनुभवोऽपि तादृशो नास्ति किन्तु जलादित्रयोदशभेदाभावस्यैव निश्चयो जले इत्याह - पृथिवीति / तथा च जले जलादिप्रतियोगिकत्रयोदशभेदो नास्ति इति जलनिष्ठजलादित्रयोदशभेदाभावस्यैव जले निश्चयस्तथा च पृथिव्यां जलादित्रयोदशभेदसन्देहे विद्यमानेऽपि त्रयोदशभेदाभावस्य निश्चयोऽनुभवसिद्ध इत्यर्थः / ननु जलादौ जलादिप्रतियोगिकत्रयोदशभेदाभावनिश्चयः प्रत्यक्षेण भवितुं नार्हति / कथम् ? भेदांशे त्रयोदशप्रतियोगिकत्वस्य सन्दिग्धत्वात् / तथा च यथा पुरोवर्तिनि स्थाणुत्वसन्देहे विद्यमाने अयं स्थाणुर्गृहे नास्ति इत्यभावप्रत्यक्षानुदयात् प्रमाणान्तरस्यासम्भवात् इत्याशङ्कते - न चेति मानाभाव इत्यन्तं शङ्का / तथा पृथिवीनिष्ठभेदे जलादित्रयोदशप्रतियोगित्वसन्देहे विद्यामाने जलं जलादित्रयोदशभेदाभाववत् इति निश्चयो न जायते इति कृत्वा तद्ग्राहकप्रमाणाभाव इति भावः / समाधत्ते - संशयेति / जलादौ जलादित्रयोदशभेदाभावनिश्चायकं प्रत्यक्षं मास्तु किन्तु अनुमानमेव भविष्यति, तदनुमानं यथा जलमिति / तथा च पृथिव्यां जलादित्रयोदशभेदस्वरूपैव प्रसिद्धिः पूर्वोक्ताचार्यमतनीत्या / तथा च संशयरूपप्रसिद्धौ सत्यां जलं पक्षः, जलादित्रयोदशभेदसमुदायस्याभाववत् इति साध्यम्, हेतुर्यथा तदिति जलादित्रयोदशसमुदायस्य एकदेशो यो जलभेदः तस्यैवाभावात् / यथा घटाभाववतिभूतले घटश्चेत् नास्ति तदा घटपटस्तम्भकुम्भादिसमुदायोऽपि नास्ति समुदायाभावस्यापि एकदेशाभावव्यापकत्वात् / तद्वत् प्रकृते जले जलभेदो यदि नास्ति तदा जलभेदतेजोभेदादीनां यः समुदायः सोऽपि नास्तीति / तथा चेयं व्याप्तिः यत् यत् समुदायैकदेशाभाववत् तत् तत्समुदायाभाववत्, यथाघटादिसमुदायैकदेशघटाभाववतिघटादिसमुदायाभावः /