________________ 180 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका जलभेदाभावस्तत्र पृथिवीत्वाभावो यथा जले इति व्यतिरेकव्याप्तिग्रहो यद्यपि जले [87 AJ भवति तथापि जलभेदस्य तेजसिसपक्षे विद्यमानत्वात् ततः पृथिवीत्वहेत्वो(तो)ावृत्तौ असाधारण्यं स्यादित्यर्थः / एतदुपसंहरति - तथाचेति टीका। यद्यपि जलतेजोभेदरूपं विशेष्यं वर्तते जलतेजःप्रतियोगिकभेदो वा[विशेष्य तिष्ठति तथापि ऐकाधिकरण्यरूपं विशेषणं नास्तीति कृत्वा विशेष(वैशिष्ट्यं) जले नास्ति एकाधिकरणरूपविशेषणाभावात् / देवदत्तवति भूतले दण्डविरहे दण्डविशिष्टाभाववत् / अत्र यद्यपि विशेष्यं जले तेजसि वा तेजोभेदो जलभेदो वा विशेष्यं तिष्ठति तथापिऐकाधिकरण्यरूपं विशेषणं नास्तीति कृत्वा विशेषणाभावप्रयुक्तो विशिष्टाभाव इत्यर्थः / न चैवं पृथिव्यामेव साध्यप्रसिद्धर्व्यतिरेकिवैयर्थ्यम्, साध्यनिश्चयार्थं व्यतिरेकिप्रवृत्तेः। न चासाधारण्यं, समुदितान्योन्याभावानांसाध्यत्वेसपक्षाभावादिति चेत्।न। साध्यनिश्चये हि साध्यव्यतिरेकनिश्चयो भवत्येव साध्यसन्देहे तद्वयतिरेकसंशयस्य वज्रलेपत्वात् तथा च संशयरूपा साध्यसिद्धिरिति शिष्यबन्धनम् / मध्ये शङ्कते - न चैवमिति मूलम् / साध्येति मूलम् / संशयारूपा तु साध्यप्रसिद्धिः, निश्चयरूपा इतरभेदानुमितिः। व्यतिरेक्यनुमितेः सार्थक्यमित्यर्थः / ननु साध्यवति हेतुव्यावृत्तौ असाधारण्यम् / तथा च साध्यवति सपक्षे हेतुर्वर्तते न वा ? यदि हेतुस्तत्र वर्तते तदा अन्वयित्वम्, यदि न वर्तते तदा असाधारण्यमित्याशङ्कार्थः / उत्तरमाह - संवलितेति मूलम्।न हि साध्यवत्त्वज्ञानमात्रेण सपक्षत्वम्, अपितु साध्यनिश्चयवत् एव सपक्षत्वम् / पृथिव्यां तु इतरभेदरूपसाध्यनिश्चयो जातो नास्ति। तथा च पृथिव्याः सपक्षत्वाभावादेव न वां अन्वयित्वं न वा असाधारण्यमित्यर्थः / एतावत्पर्यन्तं व्यतिरेकस्थापनम् आचार्यमताभिप्रायेणोक्तमाशय निराकरोति - साध्यनिश्चयेति मूलम् / अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वे सिद्धे अभावनिश्चये प्रतियोगिनिश्चयः कारणम् अभावसन्देहे चप्रतियोगिसन्देहः कारणमित्यापा]ततः फक्किकार्थः / तथा च यत्रेतरभेदाभावस्तत्र पृथिवीत्वाभाव इत्येतादृशो व्याप्तिनिश्चयो न भवति। कुतः ? इतरभेदाभावनिश्चये इतरभेदनिश्चयस्य कारणत्वात्, स तु जलादौ नास्त्येव जले जलभेदाभावात् पृथिव्यां चेतरभेदस्य सन्दिग्धत्वात् / अतः कुत्रापि साध्यनिश्चयाभावात् साध्यव्यतिरेकनिश्चयो न भवतीत्यर्थः / तथा च सन्देहरूपापि साध्यप्रसिद्धिर्न कुत्रापि उपयुज्यते इत्युक्तं भवतीति / शिष्यबन्धनं वञ्चनम् / एतदेव पुनः शिष्यबन्धनमित्याह टीकाकारः - अत्रेति। त्वयोक्तं साध्यसन्देहे विद्यमाने साध्याभावनिश्चयो न जायते इति तदयुक्तम् / तथा न हि यत्र साध्यसन्देहस्तत्रैव साध्याभावनिश्चय इति मयोच्यते किन्तु अधिकरणान्तरे पृथिव्यां साध्यसन्देहेऽपि जलादौ तद्वयतिरेकनिश्चयो भवत्येव / एतदेवोपपादयति - एकदेशेति / अधिकरणान्तरे साध्यसन्देहोऽधिकरणान्तरे साध्यव्यतिरेकनिश्चयविरोधी न भवत्येव यथा पृथिव्यामितरभेदसन्देहेऽपिजले इतरभेदव्यतिरेकनिश्चयो भवत्येव।जले तु इतराभेदासन्देहस्य इतरभेदव्यतिरेक