________________ केवलव्यतिरेक्यनुमाननिरूपणम् 179 पृथिव्या प्रसिद्धाः तं समुदिताः साध्यन्ते / ननु तावद्भेदानां जलादिषु त्रयोदशनिश्चयैर्निश्चयरूपापि त्रयोदशानां भेदानां प्रसिद्धिरस्त्येव किमर्थं मूलकारस्य संशयपर्यन्तधावनमित्यत आह टीका अत्रेति संशयेष्विति शेषः / तदेवाह - समूहेति।प्रात्यक्षिकरूपावच्छिन्नतावद्भेदकोटिकोऽपिएकः संशयोऽपिस्थाणुत्वपुरुषत्वानेककोटिकसंशयवत् यथा स्थाणुर्न वा अयमेकः संशयो द्वितीयस्तु पुरुषो न वेति समूहालम्बनसंशयः अयं स्थाणुपुरुषो न वेत्यादिरूपः तथा प्रकृतेऽपि जलभिन्ना न वेत्यादिकास्त्रयोदशसंशयाः पृथिवी जलेत्यारभ्य समवायान्तपर्यन्तं न वेत्येतादृशः समूहालम्बनरूपः [86B]संशयो भवत्येव। यदिच त्रयोदशसंशयेष्वेवाग्रहस्तदापिन काऽप्यनुपपत्तिरित्याह - यदि चेति टीका। पूर्वं जलभेदसंशये च जलभेदवैशिष्ट्यावगतौ जलभिन्नतेजोभिन्ना वायुभिन्ना न वेति संशयेन जलभेदतेजोभेदविशिष्टवायुभेदवैशिष्टयमवगम्यते इत्यादि द्वादशसंशयैः पूर्वपूर्वभेदविशिष्टोत्तरोत्तरविशेषपर्यन्तविशेषभेदवैशिष्ट्यावगतौ समवायभेदसंशयेन त्रयोदशेन एकाधिकरणता तावद्भेदविषयीक्रियते इत्यर्थः। एवंचत्रयोदशेनसंशयेन संशयरूपतावद्भेदप्रसिद्धौ सत्यां ततोव्यतिरेक्यादर इत्यर्थः। संशयपर्यन्तानुसरणप्रयोजनमाह - ऐकाधिकरण्येनेति। यद्यपि जलभेदस्तेजसिप्रसिद्धः तेजोभेदो वाजले प्रसिद्धः तथापि एकाधिकरणकास्त्रयोदशभेदाः पृथिवीव्यतिरेकेण न कुत्रापि प्रसिद्धाइत्यर्थः। तथा चपृथिव्यां निश्चयरूपतावद्भेदप्रसिद्धिनास्ति इति कृत्वा संशयरूपतावद्भेदप्रसिद्धौ व्यतिरेक्यादरः तेन च एकाधिकरणताकतावद्भेदनिश्चयः क्रियते इति व्यतिरेकि(की) सार्थकः / पूर्वपूर्वेत्यस्य प्रयोजनमाह - अन्यथेति / यदि जलभेदः पूर्वं प्रसिद्धो नास्ति तदा जलभिन्ना सती तेजोभिन्नान वेत्युत्तर(रः) जलभेदविशिष्टतेजोभिन्ना नवेति संशयः कथं स्यात् विशेषाणाज्ञानाभावादित्यर्थः / एकाधिकरणेत्यस्य प्रयोजनमाह - निश्चयेति / जलादिष्वपि यद्यपि तावद्भेदानां प्रत्येक प्रसिद्धिरस्तितथापिएकाधिकरणकाजलाधकाधिकरणकानास्तिकिन्तु नानाधिकरणकेत्यर्थः / एकाधिकरणकापि प्रसिद्धिः किमर्थमित्यत आह - एकाधिकरणेति / तथा च जलादिकं तु प्रत्येकं तावद्भेदवत् भवत्येव, तत्र च पृथिवीत्वं हेतुर्नास्ति इत्यसाधारण्यं भवत्येव। तथाप्येकाधिकरणं तु तावद्भेदवत् न भवति जले जलभेदाभावात् / किन्तु पृथिवी एव जलादिसमुदितभेदवती तत्(त्र) तु पृथिवीत्वं वर्तते एवेति नासाधारण्यम् / अथ जलादिषु एकाधिकरणकतावद्भेदरूपं(प)साध्याप्रसिद्धौ अन्यदप्यनुकूलमाह- जलादि(दी)ति टीका / जलादि किन्तु तावद्भेदवत् नभवतीति विपक्षो(क्ष)त्वसिद्धौ हेतुव्यावृत्तौ तु तत्र ऐ(ए)काधिकरण्य(ण)कत्रयोदशभेदनिरूपितव्याप्निग्रहः सुकरो भवति। यथा यत्र यत्र एकाधिकरणविशिष्टतावद्भेदाभावस्तत्र तत्र पृथिवीत्वाभावः यथा जले। एवं तावद्भेदाभावो जले निश्चितः पृथिवीत्वाभावोऽपि जले निश्चितः, ततः पृथिव्यां त्रयोदशभेदानुमितिर्जायते। बलादेविपक्षत्वमुपपादयति - अन्यथेति टीका / यद्यपि तेजसि जलादिभेदो वर्ततेऽतस्तेजसि तेजोभेदाभावे विद्यमानेऽपि जलभेदतेजोभेदप्रतियोगिकसमुदितभेदो नास्ति जलभेदस्य विद्यमानत्वात् / ननु तर्हि जले बलभेदाभावो वर्तते तथा जलस्यापि प्रत्येकभेदसाधने विपक्षत्वं घटत एवेत्यत आह - प्रत्येकेति। तथा च यत्र