SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 178 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका दिद्वादशभिन्नान वेतिसंशये तेजोभिन्नत्वविशिष्टजलादिद्वादशभिन्नत्वरूपविशेषणस्याज्ञानादिति। तेजोभिन्ना सती जलादिद्वादशभिन्नोन वेति संशयः स्यात्।अयमर्थः / यद्यपि तेजोभेदमात्रज्ञानं वर्तते तच्च विशेषणस्य तेजोभिन्नत्वविशिष्टजलादिद्वादशभेदरूपस्य एकदेशोऽस्ति। तस्य एकदेशस्य ज्ञानमस्तिनतुसम्पूर्णस्य विशेषणविशिष्टस्य ज्ञानमस्ति। तेजोभेदमात्रस्यैव ज्ञानम् न तु जलादिद्वादशभिन्नेति देशस्य। तथा च विशेषणज्ञानाभावात् यः साध्यप्रसिद्धयर्थं संशयः आनीयते सोऽप्यनुपपन्न इत्यभिप्रायेण शङ्कते टीकाकार: - नन्विति। तेजोभिन्नत्वे सतीत्यादि पृथिव्यादिविशेषणं तत् / उक्तसंशयेन तेजोभिन्ना सती जलादिद्वादशभिन्ना न वेति संशयेनेत्यर्थः / तत्पूर्वमिति टीका / तेजोभिन्ना सती जलादिद्वादशभिन्ना न वेति संशयपूर्वकालीन(ने) पृथिवी तेजोभिन्ना न वेति संशये इत्यर्थः / तथा च पृथिवी तेजोभिन्ना न वेति संशये तेजोभेदमात्रमवगतं यद्यपि द्वादशेत्यादिविशेषणांशो न ज्ञातः, ततश्च किमित्यतआह - तजनकेति। तथा च द्वादशेत्यादिविशेषणज्ञानाभावात् विशिष्टसंशयः कथं स्यादित्यर्थः / एकेति मूलम्।अत्रपृथिवीति विशेष्यं भवत्येव परन्तु तेज इत्यारभ्य द्वादशेति पर्यन्तं नैकं विशेषणं किन्तु देवदत्तो दण्डी कुण्डली इति स्थले [86A] देवदत्तो विशेषणं(ष्यं) दण्डकुण्डले द्वे अपि विशेषणे तद्वत् तेजोभेदो जलभेद इत्यादयस्त्रयोदशभेदाइति त्रयोदशापि पृथिव्याएव विशेषणानि। ननु एकविशेषणवति विशेषणान्तरबुद्धि(द्धे) विशिष्टवैशिष्टयबुद्धिः, अन्यथा आच्छादितदण्डवत्यपि पुरुषे दण्डेन्द्रियसन्निकर्षाभावे दण्ड(ण्डा)विषयक कुण्डलीतिजायमानं ज्ञानमपि दण्डविशिष्टवैशिष्ट्यबोधः स्यादित्यत आह - एकेति टीका। तथा चाच्छादितदण्डस्थले दण्ड उपस्थितः ज्ञानं नास्ति। एकवैशिष्ट्ये अपरवैशिष्ट्यबोधस्तु एकविशेषणविशिष्टतयोपस्थिते विशेष्ये विशेषणान्तरबुद्धेर्विशिष्टबोधादित्यर्थः। तथाचतेजोरूपमेकं विशेषणं जलादिद्वादशभेदाः अन्यानि विशेषणानि, ततः पृथिवी तेजोभिन्नानवेतिसंशयेन तेजोभेदरूपस्य विशेषणस्योपस्थितिः, ततः अनेनसंशयेन तेजोभेदविशिष्टतयोपस्थितायां पृथिव्यां जलादिद्वादशभेदरूपाणि यानि विशेषणान्तराणि तेषां वैशिष्ट्यग्रहरूप(पः) तेजोभिन्ना सतीति जलादिद्वादशभिन्ना न वेत्याकारकः संशयो भवत्येवेत्यर्थः / अयं वाक्यार्थः। सर्वे भेदाः पूर्वं तेजोभिन्ना नवेत्याकारकैस्त्रयोदशसंशयैः प्रसिद्धास्ततः त्रयोदशानामपिविशेषणानांज्ञानेसतिएकविशेषणविशिष्टतयोपस्थिते विशेष्ये जलभेदादिरूपविशेषणवैशिष्ट्यग्रह इत्येको विशिष्टबोधः, अथवा पूर्ववत् त्रयोदशसंशयाः त्रयोदशविशेषणानि प्रसिद्धानि तेषां समप्राधान्येन त्रयोदशानामपि वैशिष्टयग्रहः / तं द्वितीयं पक्षं यद्वेत्यादिना वदति। यद्वेतिमूले।पूर्वपक्षे दण्डविशिष्टे कुण्डलविशिष्टान्वयवत्तेजोभेदविशिष्टायांपृथिव्यां जलादित्रयोदशभेदास्तेषां प्रात्यक्षिकरूपेण विशिष्टान्वयबोधइत्युक्तम्। तथा चयद्यपि तेजोभेदोजलादिषुप्रसिद्धो जलभेदस्तेजसिप्रसिद्धः तथापिऐकाधिकरण्यविशिष्टा नप्रसिद्धाः तथाचएकविशिष्टेअपरवैशिष्ट्यान्वयबोधः।अथवा एकस्मिन् अनेकवैशिष्ट्यान्वयबोधरूपसंशयाभ्यामेकाधिकरणकत्ववद्भेदकूटप्रसिद्धौ सत्यांव्यतिरेकिणासर्वे भेदाः साध्यन्तेऽतस्ते निश्चिताः न वेतिएव मूलम्। अत्र (इति टीका)कारः। द्वितीयपक्षे पृथिवीविशेष्यकस्त्रयोदशसंशय त्रयोदशभेदाः
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy