________________ 177 केवलव्यतिरेक्यनुमाननिरूपणम् भावोऽप्रसिद्ध इत्यत आह टीकायामिति, तस्येति टीका। यथाश्रुते जलभेदस्य तेजसि केनापि प्रमाणेन सिद्धत्वात् [अप्रसिद्धिः] असम्भवा स्यात् इत्यत आह - मिलितेति / यद्यपि केवलजलस्य भेदः सिद्धो वर्तते तथापि जलादिमिलितत्रयोदशभेदान सिद्धाइति तदर्थं व्यतिरेकवादोवक्तव्यः। जलादिप्रतियोगिकत्रयोदशान्योन्याभावस्य प्रसिद्धिर्नास्ति / तथा च साध्याप्रसिद्धौ कथं नानुमानमित्यर्थः। नचजलादिप्रत्येकान्योन्याभावः साध्यः, असाधारण्यप्रसङ्गात्। अथ पृथिवी तेजोभिन्ना न वेति संशयेन तेजोभिन्नत्वेऽवगते पृथिवी तेजोभिन्ना सती जलादिद्वादशभिन्ना न वेति संशये तेजोभिन्नत्वे सति जलादिद्वादशभिन्नत्वं प्रसिद्धं तदेव साध्यम् एकविशेषणविशिष्टे विशेषणान्तरबुद्धेरेव विशिष्टवैशिष्टयज्ञानत्वात्, एवंच संशयप्रसिद्धंसाध्यमादाय व्यतिरेकादिनिरूपणम् / यद्वा पृथिवी जलाभिना न वेत्यादि प्रत्येकं त्रयोदशसंशयविषयाणां त्रयोदशान्योन्याभावानां समुदाय: पृथिव्यामवगतो व्यतिरेकादिनिरूपकः / न चेति मूलम् / पृथिवी जलान्योन्याभाववती पृथिवीत्वात् अत्र जलान्योन्याभावस्तु तेजसि प्रसिद्ध इति तदनन्तरं पुनः [85 B] पृथिवी तेजोऽन्योन्याभाववती पृथिवीत्वात् इत्यनेन तेजोऽन्योन्याभावः पृथिव्यां साध्यते इति न साध्याप्रसिद्धिः।न चतत्रतेजसि साध्यप्रसिद्धावन्वयित्वं स्यादितिवाच्यम्। तत्र पृथिवीत्वहेतोरवृत्तित्वात् हेतुसाध्योः सामानाधिकरण्याभावात् नान्वयित्वंतर्हि साध्यवतिसपक्षे हेतोया॑वृत्तावसाधारण्यमेव स्यात् इत्याह मूले - असाधारण्येति / आचार्येति / यद्यपीदं लीलावत्यामस्ति तथापि कुत्रचिद् उदयनाचार्योक्तमपि भविष्यतीति ज्ञेयम् / अथेति मूलम् / साध्यप्रसिद्धयर्थमाह - अत्र विशिष्टबोधस्य द्वयी गतिः / एका यथा एकविशेषणविशिष्टेऽपरवैशिष्टयग्रहः / यथा दण्डी कुण्डली देवदत्तः इत्यत्र कीदृश उल्लेखः ?, अयं दण्डी अयं कुण्डली।अत्रदण्डस्य विधेयत्वेऽप्युद्देश्यतावच्छेदकेन देवदत्तेन तुएतत्सम्बन्धवत्प्रतिभाति। द्वितीयस्तु उभयोः समप्राधान्ये ग्रहः यथा देवदत्तो दण्डी कुण्डली।अत्रोभयोर्विशेषणयोर्विधेययोः समप्राधान्येन ग्रहः / अयं द्वितीयो विशिष्टबोधः / प्रकृते अथेति मूले पृथिवी तेजोभिन्ना न वेति संशयेन तेजोभिन्नत्वस्य प्रसिद्धिः / ननु पृथिवी उद्देश्या, तत्र चजलभेदः तेजोभेदः इत्यादयस्त्रयोदशभेदा विशेषणीभूताः, तावद्भेदानां मिलितानांतुप्रसिद्धिर्न जातेवेत्यत आह - तेजोभिन्नेति। यद्यपि पूर्वसंशयेन तेजोभिन्ना न वा इत्याकारकेण तेजोभेदमात्रं पृथिव्यां प्रसिद्ध परं त्रयोदशमिलिताः तदान प्रसिद्धाः तथापि तेजोभिन्नानवेतिसंशयोत्तरकालीने] तेजोभिन्नासतीजलादिद्वादशभिन्ना नवेति संशये न त्रयोदशानामपि मिलितभेदानामपि प्रसिद्धिरित्यर्थः / अथेति टीका।अत्र तेजोभिन्ना सती जला१. समवायः इति पाठान्तरम्।