________________ 176 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नास्तीति कथं साध्यसन्देहविषयत्वं पक्षत्वमिति पक्षलक्षणम् ? दूषणान्तरमाह - न वेति मूलम् / लिङ्गज्ञानजन्य यत् साध्यविशिष्टं ज्ञानं तदपिन सम्भवति।कुत इत्याह - तेषामिति मूलम्।साध्यविशिष्टज्ञानानामनुमितिरूपाणां विशेषणरूपं यत् साध्यं तज्ज्ञानजन्यत्वादित्यर्थः / मूले मध्ये शङ्कते - अथेति / नन्विति आरभ्य पूर्वपक्षिणा साध्याप्रसिद्धौ दूषणान्युक्तानि / अथ पूर्वपक्ष्येव साध्वप्नसिद्धावेव दूषणमाह - अथेति मूलम् / अनवगमेति मूलम् / यत्रसाध्यमितरभेदरूपमस्ति तत्रपृथिवीत्वरूपहेतोरनक्रामेऽसाधारण्यं यतोनिश्चितसाध्यवति यद्धत्वभावो ज्ञायमानः सोऽसाधारण इति मूलार्थः / अत्राशङ्कते टीका - नन्विति। वस्तुगत्या सपक्षाद् व्यावृत्तो हेतुरसाधारणो न तु सपक्षेऽज्ञायमानो हेतुरसाधारणः / [85 A] तथा च [स]पक्षाद् व्यावृत्तत्वेन ज्ञायमानो हेतुरसाधारण इत्यर्थः / यदि सपक्षः स्यात् तदा सपक्षाद् व्यावृत्तत्वेन ज्ञानमसाधारण्यं भवति / तच्च नास्तीति कुत्रासाधारण्यमित्यर्थः परा(रि)मा(भा)षार्थः / इतरभेदेति मूलम् / भेदस्त्रिविधः - स्वरूपं 1, वैधर्म्यम् 2, अन्योन्याभावश्च 3 इति / तन्मध्ये स्वरूपभेदं दूषयति - अधिकरणेति / इतरभेदलक्षणस्वरूपं पृथिवीस्वरूपं जलस्वरूपं च / यथा घटे पटभेदो घटस्वरूपं च / तत्रैकः पटः प्रतियोगी, घटोऽधिकरणम् / तद्वत् प्रकृते भेदलक्षणस्वरूपस्य पृथिवी अधिकरणम्, जलं प्रतियोगि / प्रत्यक्षप्रमाणेन जलपृथिव्योः सिद्धत्वात् सिद्धसाधनं स्यात् / वैधर्म्यरूपं भेदमाशङ्कते - नापीति मूलम् / नन्वेकस्मिन् वैधर्म्यरूपे भेदे उक्ते सति किमर्थं जलादिनिष्ठेत्यादि वैधान्तरमुच्यते इत्यत आह - वैधयेति / तथा चेदं वैधर्म्यमिति अस्यैवेदं विशेषणरूपेण विवरणम् जलादीति / जलादिषु निष्ठो योऽत्यन्ताभावः पृथिवीत्वस्य तस्य प्रतियोगिपृथिवीत्वं तदेव वैधयं जलादीनां वैधर्म्यरूपो भेद इत्यर्थः / पृथिवीत्वेति टीका / तथा च पृथिवीत्वं हेतुर्जलादीनां वैधर्म्यम्, स तु सिद्ध एवेत्यर्थः / मध्ये शङ्कते - न चेति मूलम् / यथा अन्धस(स्य) स्पर्शनादिनेन्द्रियेण स्वरूपसङ्घट्टग्रहेऽपि शुक्लत्वादिना रूपेण ग्रहणं न भवति तद्वत् शुद्धपृथिवीत्वस्य पृथिव्यां ग्रहेऽपि जलादिनिष्ठात्यन्ताभावप्रतियोगित्वेन ग्रहो नास्ति / अत एव तज्ज्ञानार्थमेव व्यतिरेक्यनुमानमित्याशङ्कार्थः / जलादाविति मूलम् / तथा च यथा घटात्यन्ताभावग्रहे भूतलादौ घटात्यन्ताभावे गृह्यमाणे समानसंवित्संवेद्यतया भासते / यथा चैत्रपुत्रे मैत्र इति ज्ञानं मैत्रे चैत्रपुत्रत्वेन भासमाने चैत्रे पितृत्वमपि समानसंवित्संवेद्यतयाभासते। अपरभाननैयत्यमिति समानसंवित्संवेद्यता / तद्वत् प्रकृते जलादौ पृथिवीत्वात्यन्ताभावे भासमाने पृथिवीत्वेऽपि जलादिनिष्ठात्यन्ताभावप्रतियोगित्वं भासत एवेति / तथा च पृथिवीत्वेऽपि जलादिनिष्ठात्यन्ताभावप्रतियोगित्वमपि सिद्धमेवेति किमर्थं व्यतिरेक्यनुमाने तत्साधनमित्यर्थः / यद्यपीति मूलम् / अन्योन्याभावरूपो भेदः साध्यं भवति, तस्यानुमानात् पूर्वमसिद्धत्वात् / तथा च पृथिव्यां जलादिप्रतियोगिकत्रयोदशान्योन्याभावस्यासिद्धत्वात् अनेनानुमानेन साध्य इत्यर्थः / ननु अन्योन्याभावग्रहोऽपि वैधर्म्यग्रहव भविष्यतीत्यत आह - वैधयेति / तथा च वैधयं पृथिवीत्वम्, तद्ग्रहात् अन्योन्याभावस्याप्यनुमितियतिरेकिणा भविष्यतीत्यर्थः / तथापीति मूलम् / जलभेदस्य तेजसि प्रसिद्धत्वात् कथं जलान्योन्या