________________ केवलव्यतिरेक्यनुमाननिरूपणम् 175 वैचित्र्यमवश्यं वाच्यमिति व्यापकतावच्छेदकावच्छिन्नेति इतरभेदत्वमेवान्वयव्याप्तौ व्याकतावच्छेदकम् / ततो व्यतिरेक्यनुमितौ इतरभेदाभावाभाववती इयम् इत्यनुमितिः, अन्वय्यनुमितौ तु इतरभेदवती इयम् इति भावः / एतदेवाह-फलेति / व्यतिरेक्यनुमितौ व्याप्यतावच्छेदकावच्छिन्नाभावविषयत्वमित्यत्र संमतिमाह- अत एवेति टीका। जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र यत्र यत्र सात्मकत्वाभावस्तत्र तत्र प्राणादिमत्त्वाभाव इति व्यतिरेकव्याप्तिः, व्यतिरेक्यनुमितिस्तु सात्मकत्वाभावाभाववज्जीवच्छरीरमिति / सात्मकत्वाभाव इत्येतस्य पर्यायो निरात्मकत्वमिति / एतावता सम्मतिव्याजेन व्यतिरेक्यनुमितेाप्यतावच्छेदकावच्छिन्नाभावविषयत्वं सिद्धमिति तदनुरोधेन विशेषसामग्री व्यतिरेकिपरामर्शरूपाऽवश्यं कल्पनीयेति सिद्धम् / अतिप्रसङ्ग इति टीका। पक्षधर्मतेति टीका / ह्रदादिपक्षके वह्निनिरूपितधूमहेतुकव्याप्तिज्ञानादप्यनुमितिः स्याद् यत्र धूम(स्तत्र) वह्निरेवं व्याप्तिज्ञानमस्तीत्यर्थः / अत्रेति टीका। ह्रदादावित्यर्थः / नन्वन्वय(यि)व्यतिरेकिविशेषद्वयसामा योर्मध्ये यद्येको विशेषो नास्ति एका विशेषसामग्री नास्तीति यावत् तदा अपराऽन्वय(यि)विशेषसामग्री भविष्यतीत्याशङ्कयाह मूले-अन्वये(यी)ति / तथा चातिप्रसङ्गस्थलेऽन्वय(यि)विशेषसामर यपिनास्तिव्यतिरेक(कि)विशेषसामा यपि नास्तीत्यर्थः। ननु पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादिति व्यतिरेकिणि साध्यमप्रसिद्ध तथा च न व्यतिरेकिनिरूपणम्, न वा पक्षत्वम्, न वा लिङ्गजन्यसाध्यविशिष्टतज्ज्ञानं तेषांसाध्यज्ञानजन्यत्वात्। अथ साध्यं प्रसिद्धं तदा यत्र प्रसिद्धं तत्र हेतोरवगमेऽन्वयित्वम् अनवगमे असाधारण्यम्। किञ्च इतरभेदो न स्वरूपम् अधिकरण-प्रतियोगिनोः पृथिवीजलाद्योरनुमानात् प्रागेव सिद्धेः / नापि वैधयं जलादिनिष्ठात्यन्ताभावप्रतियोगित्वम्, तद्धि पृथिवीत्वादिकं तच्च सिद्धमेव। न च जलादिनिष्ठात्यन्ताभावप्रतियोगित्वेन पृथिवीत्वं नसिद्धमिति वाच्यम्।जलादौ पृथिवीत्वात्यन्ताभावग्रहदशायांपृथिवीत्वेऽपितत्प्रतियोगित्वग्रहात् / अन्योन्याभावस्तु भेदो यद्यपि साध्यं सम्भवति वैधर्म्यज्ञानसाध्यत्वादन्योन्याभावग्रहस्य तथापि जलादिप्रतियोगिकान्योन्याभावस्याप्रसिद्धिः। ___ शकते - नन्वितिअप्रसिद्धमितिमूलम्।सर्वापृथिवीपक्षीकृता, कुत्रापीतरभेदरूपसाध्यप्रसिद्धिर्नास्तीत्यर्थः / तथा च यदि साध्यमप्रसिद्धं तदा किं दूषणमित्यत आह - तथाचेति मूलम्।अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वात् ततोऽत्रेतरभेदाप्रसिद्धावितरभेदाभाव इतिव्यतिरेकनिरूपणासम्भवात् कथं व्यतिरेकव्याप्तिग्रहः? दूषणान्तरमाह - नवेति।व्याचष्टे टीकायां - सन्देहेति। यदीतरभेदः प्रसिद्धो नास्ति तदा इतरभेदवतीयं न वेति सन्देहोऽपि