SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ केवलव्यतिरेक्यनुमाननिरूपणम् 173 अप्रामाण्याभावरूपं यत् साध्यं तत् प्रसिद्धं नास्ति, तत्र व्यतिरेकिणि प्रतियोगिन एवाप्रसिद्ध्या प्रतियोगिव्यधिकरणेत्याधुक्तरूपाभावेन कथं गमकत्वमिति चिन्त्यार्थः / अथाप्रसिद्धसाध्यकव्यतिरेकिणि उक्तरूपमविकलमस्तीति गमकतां प्रकारान्तरेणाह - यत्त्विति। साध्याभावे एतद्विशेषणं देयम् - प्रतियोगिव्यधिकरणस्वसमानाधिकरणेत्यादि।प्रतियोगिव्यधिकरणः साधनसमानाधिकरण: अप्रसिद्धे(द्ध)साध्यकव्यतिरेकिणि अप्रसिद्धिर्नास्ति। कथम् ? वह्नित्वेनायमनुभवः इत्यत्र प्रतियोगिव्यधिकरणो [83 B] यः साधनसमानाधिकरणोऽत्यन्ताभावः तत्प्रतियोगी घटादिस्तदप्रतियोगिकोऽप्रामाण्याभावाभावो भवत्येव, तद्व्यापकीभूतो दाहेत्यादिको हेत्वभावो वर्तते एवेति कृत्वा एतदुक्तरूपं गमकताप्रयोजकं व्यतिरेकिण्यप्यस्तीति न किञ्चिद् बाधकम् / दूषयति - व्यतिरेकीति / व्यतिरेक्याभासे इदं संयोगि द्रव्यत्वात् इत्यत्र व्यतिरेक्याभासे इत्यत्रापि कदाचिद् व्यतिरेकव्याप्तिज्ञानादनुमितिः जायतेसा नस्यात् उक्तरूपाभावात्। तथाहि प्रतियोगिव्यधिकरण: साधनद्रव्यत्वसमानाधिकरणो योऽभावः एवं चेत् तदा द्रव्यत्वसमानाधिकरणसंयोगस्याप्यभावो भवति, स प्रतियोगिव्यधिकरणो न भवतीति कृत्वा तादृशरूपाभावेन व्यतिरेक्याभासे कथमनुमितिः, तन्मतं दुष्टम् / मध्ये शङ्कते - नचेति। तत्त्वं गमकं नोच्यतेप्रतियोगिव्यधिकरणेत्यादि, परंतज्ज्ञानं गमकताप्रयोजकंतच्चप्रमाभ्रमसाधारणमिति।व्यतिरेक्याभासस्थले यद्यपि तज्ज्ञानं प्रमारूपं न संभवति तथापि भ्रमरूपं भवत्येव / तथा च द्रव्यत्वाभावः संयोगाभावस्य व्यापकः इति भ्रमो भविष्यतीत्यर्थः / तत्त्वेनेति / साध्याभावव्यापकाभावप्रतियोगित्वेन ज्ञानं व्यभिचारज्ञानविरोधिभवति नवा ? यदि भवति तदा व्यतिरेकसहचारमात्रविषयत्वेनैव गमकं भविष्यति, प्रतियोगिव्यधिकरणेत्यादिनियमांशो व्यर्थः स्यात् > तथाचेदंपर्यवसितंसाध्याभावव्यापकाभावप्रतियोगित्वज्ञानंव्यतिरेकिण हेतोः गमकताप्रयोजकम् / इदंकिमर्थम्? किन्तु वस्तगत्या साध्याभावव्यापकाभावप्रतियोगित्वमेव गमकताप्रयोजकम्, गौरवान्न तज्ज्ञानम् / शङ्कते - अथेतिमूलम् ।सा व्यतिरेकव्याप्तिज्ञानजन्याऽनुमितिरेवनभवति।कुतः ?व्याप्तिविशिष्टपक्षधर्मताज्ञानरूपो यो लिङ्गपरामर्शः तस्याभावात् / यथा वह्निव्याप्यधूमवान् इति परामर्शोऽन्वयिनि वर्तते तथा इति ज्ञानं नास्ति। अन्यथेति। यदि लिङ्गपरामर्श विनैव व्यतिरेकव्याप्तिज्ञानमात्रादनुमितिस्तदा अननुगमः। क्वचिद् व्याप्तिज्ञानं कारणं क्वचित् परामर्शः इत्येकमनुमितिकारणं नास्तीतिपरस्परंव्यभिचार इत्याशङ्कार्थः। अनुमितीतिमूलम्।अनुमितिमात्रे व्याप्तिज्ञानं साधारणं कारणं वर्तते एव, तथा चाननुगमो नास्तीति भावः। न चैवमिति। व्याप्तिज्ञानं चेत् अनुमितिकारणं तदाव्याप्तिज्ञानमात्रादेवानुमितिःस्यात्, परामर्शादेरपेक्षानस्यात्।नचैवंपरामर्शव्यतिरेकेणानुमित्यनुत्पत्ते र्व्याप्तिज्ञानमात्रं तत्र कारणम्। ननु विशेषसामग्रीव्यतिरेकेणापि सामान्यसामग्रीमात्रादेवानुमितिरूपकार्योत्पत्तिरस्तु यथा विशेषचैत्रदण्डव्यतिरेकेणापि दण्डत्वावच्छिन्नाद् दण्डाद् घटोत्पत्तिस्तथा प्रकृतेऽपि व्याप्तिज्ञानमात्रादेव सामान्यसामग्रीतोऽनुमितिः स्यात् इत्यत आह - विशेषेति। विशेषसामग्री प्रकृते अन्वयपरामर्शो व्यतिरेकपरामर्शोऽपि स यथा पृथिवी इतरभेदाभावव्याप्यपृथिवीत्वाभाववतीयमिति। [84 A] तथा च यत्र यत्र इतरभेदाभावः
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy