________________ 172 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विभागाभावस्य संयोगाभावागमकत्वमिष्टमेवेत्यर्थः / तथा चान्वयव्याप्त्यस्फूर्तिदशायां विभागाभावेन संयोगाभावा]नुमानं न भवत्येवेत्यर्थः / अत एवेति / यतः प्रतियोगिवैयाधिकरण्यावच्छेदकावच्छिन्नसाध्याभावव्यापकाभावप्रतियोगित्वमिदं विशेषणं व्यतिरेकिगमकताप्रयोजकम् अत एव धूमानुमाने व्यतिरेकदशायां साध्याभावप्रतियोगित्वेन यदा ज्ञानं तदे(दै)व व्यतिरेकिणि धूमस्य गमकत्वं नान्यथेति। यदि तादृशज्ञानं नास्ति तदा धूमस्य व्यतिरेकमुखेन न वह्निगमकत्वमित्यर्थः / अत्र चिन्त्यं करोति / अत्रेति / भवता यदुक्तं प्रतियोगिव्यधिकरणसाध्याभावव्यापकाभावप्रतियोगित्वं व्यतिरेकिणि गमकताप्रयोजकं तन्न संभवति। कथम् ? तत्राह - अप्रसिद्धेति।अप्रसिद्धसाध्यकेव्यतिरेकिणि अप्रामाण्याभावसाध्यकेव्यतिरीकिणि।अप्रामाण्याभावरूपं यत् साध्यं तत् प्रसिद्धं नास्ति। तत्र व्यतिरेकिणि गमकत्वम् [83 A], व्यतिरेकिणि गमकं भवति प्रतियोगीत्यादि / तत्तु प्रकृते न संभवति। कथम् ? प्रतियोगिनः साध्यस्याप्रसिद्धेः, अतो न गमकत्वमिति चिन्त्यम् / अथाप्रसिद्धसाध्यकव्यतिरेकिणि उक्तरूपमविकलमिति प्रकारान्तरेण गमकतामाह - यत्त्विति।साध्याभावे एतादृशं विशेषणं देयम् - प्रतियोगिव्यधिकरणस्वसमानाधिकरणेत्यादि। प्रतियोगिनासमंयोव्यधिकरणः साधना(न)समानाधिकरणो योऽत्यन्ताभावस्तस्यप्रतियोगीघटादिःसअप्रतियोगीयस्य एतादृशो यः साध्याभावः तद्व्यापकीभूतो योऽभावस्तप्रतियोगित्वं हेतोः / एवं च कृते प्रसिद्धि(द्ध)साध्यव्यतिरेकिणि अप्रसिद्धिर्नास्ति / कथम् ? अयं वह्नित्वेन अनुभा(भ)वः इत्यत्र प्रतियोगिव्यधिकरणो यः साधनसमानाधिकरणोऽत्यन्ताभावस्तत्प्रतियोगी घटादिः तदप्रतियोगिएकः] अप्रामाण्याभावाभावः तद्व्यापको दाहेत्यादिको हेत्वभावो वर्तते इति कृत्वा एतदयु(तदु)क्तरूपं गमकताप्रयोजकम् अप्रसिद्धसाध्यव्यतिरेकिण्यप्यस्ति इति न किञ्चिद् बाधकमिति / दूषयति - व्यतिरेकीति / व्यतिरेक्याभासे इत्यत्रापि कदाचिद् व्यतिरेकव्याप्तिज्ञानादनुमितिर्जायते सा न स्यात् उक्तरूपाभावात् / तथाहि प्रतियोगिव्यधिकरणः द्रव्यत्वसमानाधिकरणः संयोगस्यापि अभावो भवति, सप्रतियोगिव्यधिकरणो न भवतीति कृत्वा एतादृशरूपाभावत्वेन व्यतिरेकत्वाभासे कथमनुमितिः, तन्मतं पूर्वोक्तं दुष्टम्।मध्ये शङ्कते - नचेति टीका / तत्त्वंगमक(क) नोच्यतेप्रतियोगिव्यधिकरणेत्यादि, परमुक्तरूपंज्ञानंगमकताप्रयोजकंतच्चप्रमाभ्रमसाधारणमिति / व्यतिरेक्याभासस्थले यद्यपि तद् ज्ञानं प्रमारूपं न संभवति तथापि भ्रमरूपं भविष्यत्येव तथा च द्रव्यत्वाभावः संयोगाभावस्य व्यापकः इति भ्रमो भविष्यतीत्यर्थः / तत्त्वेनेति / साध्याभावव्यापकाभावप्रतियोगित्वेन ज्ञानं व्यभिचारज्ञानविरोधि भवति न वा ? यदि भवति तदा व्यतिरेकसहचारमात्रविषयत्वेन गमकं भविष्यति, प्रतियोगिव्यधिकरणेत्यादिनियमः स व्यर्थः स्यात् / < अत्र चिन्त्यं करोति। अत्रेति टीका / यदुक्तं प्रतियोगिव्यधिकरणसाध्याभावव्यापकाभावप्रतियोगित्वं व्यतिरेकिणि गमकताप्रयोजकमित्युक्तम्, तन्न सम्भवति / कथम् ? तत्राह - अप्रसिद्धति टीका / अप्रसिद्धसाध्यके व्यतिरेकिणि अप्रामाण्याभावसाध्यकव्यतिरेकिणि 1. < > अनयोश्चिह्नयोरन्तर्गतः पाठः पुनरावृत्तः किन्तु तस्मिन् पाठान्तराणि सन्ति /