________________ केवलव्यतिरेक्यनुमाननिरूपणम् 171 टीका / केवलान्वयिसाध्यकहेतोः केवलान्वयित्वेनैव सङ्ग्राह्यत्वम् न तु व्यतिरेकित्वेन येनाव्याप्तिर्दूषणं स्यात् / तेन साध्याभावव्यापकाभावप्रतियोगित्वस्य अन्वयव्यतिरेकिकेवलव्यतिरेकिसाधारणस्य साध्याभावाप्रसिद्धिनिबन्धनादव्याप्तिर्दूषणं न / यतस्तस्य केवलान्वयित्वेनैव सङ्ग्रहः / अन्यथेति / यदि केवलान्वयिनः केवलान्वयित्वेन सङ्ग्राह्यता नोच्यते तदा अनुमानत्रितयबहिर्भावस्तस्य स्यात्, केवलान्वयि तु भवता नोच्यते, व्यतिरेकि तु न भवति साध्याभावाप्रसिद्धेः, अन्वयव्यतिरेकि तु न भवति द्वयोर्लक्षणाभावः / शङ्कते - नन्विति टीका / अयं संयोगव्यक्तिविशेषाभाववान् विभागव्यक्तिविशेषाभावात् इत्यनुमानं न स्यात् / कुतः ? व्यतिरेकिणि गमकताप्रयोजकतारूपाभावात् / कथम् ? यो साध्याभावः संयोगव्यक्तिविशेषाभावः स प्रतियोगिव्यधिकरणो नास्ति प्रतियोगिसामानाधिकरण्यनियमात् संयोगाभावस्येति कृत्वा प्रतियोगिव्यधिकरणसाध्याभावव्यापकीभूतप्रतियोग्यसमानाधिकरणो योऽभावस्तत्प्रतियोगित्वरूपं यद्गमकताप्रयोजक तस्याभावादव्याप्तिरित्याशङ्कार्थः। समाधत्ते - तस्येति / [82 B] विभागव्यक्तिविशेषाभावेन यत् संयोगव्यक्तिविशेषाभावानुमानं तत् केवलान्वयित्वेनैव सङ्ग्राह्यम् / यतः सर्वत्र विभागव्यक्तिविशेषाभावः अथ च संयोगव्यक्तिविशेषाभावः तयोः सत्त्वात् / अतः केवलान्वय्येव सः / ननु व्यतिरेकीवद् गमकताप्रयोजकाभावात् तस्य लक्षा(क्ष्या)भावान्नाव्याप्तिरित्यर्थः / ननु यत्र संयोगव्यक्तिविशेषस्तत्रावश्यं विभागव्यक्तिविशेष इति पूर्वकृतसंयोगाभावानुमानापेक्षया इयं व्यतिरेकव्याप्तिप्रमा भवति / तत्र संयोगाभाव-विभाग(गा)भावयोः कथं साध्यसाधक(न)भावः कुतः ? पूर्वोक्तरीत्या यतस्तत्र साध्याभावव्यापकीभूताभावप्रतियोगित्वम्। अयं संयोगाभाववान् विभागाभावात् इति अत्र नास्ति। कथम् ? प्रतियोग्यसमानाधिकरणाभावात् / न च तस्य विभागाभावेन संयोगाभावानुमानस्य केवलान्वयित्वमेव भविष्यतीति वाच्यम् / अन्वयव्याप्तीति टीका / यदाऽन्वयव्याप्तेः स्फूर्तिर्नास्ति तदा केवलान्वयित्वं न संभवति / तदस्फूर्त्या तस्यागमकत्वात् / चकारस्तूक्तरीत्येत्याद्यपेक्षया दूषणान्तरप्रकाशार्थः / न चेति / तस्य विभागाभावस्य हेतोर्गमकत्वमेव नास्ति इत्याशङ्कार्थः यतो व्यतिरेकव्याप्तिगमकताप्रयोजकाभावात् / अन्वयव्याप्तेश्च स्फुरणमेव नास्ति इत्यतो न विभागव्यक्तिविशेषाभावस्य गमकत्वमिति भावः / एवमिति / यत्र वह्नयभावस्तत्र धूमाभावः इत्यत्र व्यतिरेकव्याप्तिग्रहे धूमस्यापि गमकता स्यात् अन्वयव्याप्त्यस्फुरणात्। अयमर्थः - यत्रा(त्र) विभागाभावेन संयोगा(ग)व्यक्तिविशेषाभावानुमानं क्रियते तंत्रागमकत्वेनेष्टापादनं कृतम्, तदा धूमस्याप्यगमकत्वेन कथमिष्टापादनं न क्रियते इत्ययं प्रश्नार्थः / उत्तरयति - तादृशेति। साध्याभावव्यापकाभावप्रतियोगित्वस्य रूपादिविरुद्धं यत् संयोगादिकं तत्रातिव्याप्तित्वेनानन्यगत्या गुरुभूतस्यापि प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नस्य गमकत्वे तादृशरूपस्य प्रतियोगिव्यधिकरणेत्यादिरूपस्य गमकत्वेन विभागाभावेन संयोगा|भावानुमानेऽसंभवात् / तदेति / अन्वयव्याप्त्यस्फुरणदशायां 1. प्रतौ तु 'रूपादिरूपादिविरुद्धम्' इति पाठः /