________________ 170 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पक्षे पृथिव्याम् इतरभेदाभावाभाव इतरभेदः साध्यते, यतः ययोरभावयोः सहचारः तत्प्रतियोगिनोरेव व्याप्तिः / एतदेवाह - व्यापको यः पृथिवीत्वाभावः तस्य योऽभावः पृथिवीत्वं तेन व्याप्यो योऽभावः इतरभेदाभावः तदभावो यदितरभेदस्तदवश्यंभावात् / तथा चेति टीका / पूर्वोक्तरूपं व्यभिचारविरोधिसहचारत्वं तेन रूपेण व्यतिरेकसहचारस्य यदा इन्द्रियसन्निकर्षादिकं वर्तते तदा व्यतिरेकसहचारस्य अन्वयव्याप्तिज्ञानं प्रति कारणता, यदा च विशेष्येन्द्रियसन्निकर्षादिकं नास्ति तदा व्यतिरेकसहचारस्य व्यतिरेकव्याप्तिज्ञानं प्रत्येव कारणता / पर्वतो वह्निमान् इत्यादिस्थले पर्वतो विशेष्यः / प्रकृते च पृथिवीत्वं पक्षः विशेष्यम्, तेन सह इन्द्रियसन्निकर्षो नास्ति तदा व्यतिरेकसहचारस्य व्यतिरेकव्याप्तिज्ञानं प्रति कारणतेति / तस्य व्यतिरेकसहचारस्य अनियम एवेति / यतो व्यतिरेकसहचारस्य अन्वयव्याप्तिं प्रत्यपि कारणता व्यतिरेकव्याप्तिं प्रत्यपि कारणता इति नियमो नास्ति / नन्विति टीका / यदि नियमः क्रियते व्यतिरेकसहचारस्य व्यतिरेकव्याप्तिं प्रति एव कारणता तदाऽस्वरसो भवति . परं नियमो नास्ति। व्यतिरेकव्याप्तेरिति पञ्चम्यन्तं पदम् / तथा चायमर्थः - व्यतिरेकसहचारस्य अन्वयव्याप्तिज्ञानं प्रत्यपि कारणता, तथा चैवमन्वयः साध्यसाधनयोर्गम्यगमकभावः, कुतः ?, व्यतिरेकव्याप्तेः / एवं च यत्राभावयोर्व्याप्तिः तत्राभावयोर्गम्यगमकभाव इति स्पष्टम् / ननु साध्याभावव्यापकाभावप्रतियोगित्वं व्यतिरेकिणि गमकताप्रयोजकं न भवति / कुतः ? साध्याभावस्य रूपाभावस्य व्यापकीभूतो योऽभावः संयोगाभावः यथा यत्र यत्र [82 A रूपाभावः तत्र तत्र संयोगाभावः संयोगाभावस्य केवलान्वयित्वात् तत्प्रतियोगित्वं संयोगे वर्तते इति कृत्वा संयोगेन रूपानुमानं स्यात् परं यत्र संयोगः तत्र रूपमिति नास्ति आकाशादौ व्यभिचारात् इत्यत आह - अत्रेति / आत्र] व्यापकाभावे प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नत्वमिति विशेषणं ज्ञातव्यम् / तथा चायमर्थः प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नो यो व्यापकाभावस्तत्प्रतियोगित्वमित्यर्थः पर्यवसन्नः / तथा च संयोगात्यन्ताभावः प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नो न भवति संयोगतदभावयोः समानाधिकरणत्वात्। साध्याभावेऽपीदं विशेषणं देयम्, प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नो यो व्याप्यः / तथा अयं संयोगवान् द्रव्यत्वात् इत्यन्वयव्यतिरेकिणि नाव्याप्तिः, साध्याभावव्यापकाभावे यतोऽवसाध्याभावः संयोगाभाव: तस्य व्यापको योऽभावः द्रव्यत्वाभावस्तत्प्रतियोगित्वं द्रव्यत्वे वर्तते, परमयं संयोगाभावस्य व्यापकीभूतो न भवति द्रव्ये व्यभिचारात् / यतो द्रव्ये संयोगात्यन्ताभावो वर्तते परं द्रव्यत्वाभावो नास्तीति साध्याभावे विशेषणं दातव्यम् / तथा चव्यभिचारो नास्ति। प्रतियोगिव्यधिकरणः संयोगाभावो गुणादौ वर्तते तत्रद्रव्यत्वाभावोऽप्यस्ति इति प्रतियोगित्वं द्रव्यत्वे वर्तते इति हेतुरप्यस्ति साध्यमप्यस्तीति न व्यभिचारः / एतदेवाह - अन्यथेति / यदि प्रतियोगिव्यधिकरणेति पदं न दीयते तदा संयोगोना(गेना)पि रूपानुमानं स्यादित्यर्थः / यदि च साध्याभावे प्रतियोगिवैयधिकरण्येति न दीयते तदा द्रव्यत्वेन संयोगानुमानं न स्यात् इत्यर्थः / ननु केवलान्वयिसाध्यके घटोऽभिधेयः प्रमेयत्वात् इत्यत्र अव्याप्तिः साध्याभावस्याप्रसिद्धत्वात् इत्यत आह - केवलान्वयिसाध्यके इति