________________ केवलव्यतिरेक्यनुमाननिरूपणम् सिद्धसाधनं भवति अत एव उदयनाचार्यैः पक्षतावच्छेदकस्य हेतुत्वं नानुमेने, यः पक्षतावच्छेदकः स हेतुर्न भवतीति भावः / इदानीं प्रकारान्तरेण सिद्धसाधनतां निरस्यति - पृथिवीत्वमिति। सिद्धसाधनता उद्देश्यसिद्धौ भवति, प्रकृते चोद्देश्यसिद्धिर्न जाता / यद्यपि पृथिवीत्वामितरभेदव्याप्तमिति सिद्धिर्जाता तथापि सर्वा पृथिवी इतरभिन्ना इतिप्रतीतिर्न जाता। सर्वापृथिवी इतरभिन्ना इति उद्देश्या प्रतीतिः सा तु न जातैव। पृथिवीविशेष्यकेति मूलम् / सर्वा पृथिवी इतरभिन्ना पृथिवीत्वात् इत्यनुमाने व्यतिरेकिणि सर्वपृथिव्यामितरभेदः न सिद्धयति / अत्र पक्षतावच्छेदकं सर्वपृथिवीत्वम् / यद्यपि पृथिवीत्वसामानाधिकरण्येन इतरभेदस्य व्याप्तिग्रहकाले सिद्धिर्जाता तथापि पक्षतावच्छेदकावच्छेदेन इतरभेदेनेतरभेदस्य व्याप्तिग्रहकाले सिद्धिर्न जाता इति कृत्वा उद्देश्यपृथिवीप्र]तीत्यसिद्धेः न सिद्धसाधनत्वम् / [81 B] एवमिति टीका / एवममुना प्रकारेण गन्धवत्त्वावच्छेदेन इतरभेदः साध्यः इति सिद्धसाधनतापरिहारः कृतः, तत्रास्वरसमाह - एवमिति / अन्वयव्याप्तिग्रहे पृथिवीत्वमितरभेदव्याप्तमितिस्वरूपे गन्धवत्त्वादेरुपस्थितिरेव नास्ति। ततस्तदा पक्षतावच्छेदकान्तरं गन्धवत्त्वं नोपस्थितं किन्तु पृथिवीत्वमेवोपस्थितम्, तदा सिद्धसाधनता भविष्यत्येव इत्यस्वरसादाह - पृथिवीत्वमिति / यथा मितीति टीका / यथाऽयं वह्नित्वेनानुभवो वह्नित्वाभावविशेष्यको न हेतुः दाहमापर्थत्वादिनू(स्थ)ले व्यतिरेकित्वाभाववद्विशेष्यका(को) नेत्यत्र वह्नित्वाभाववद्विशेष्यकत्वाभावरूपाप्रामाण्याभावः साध्योऽभावरूपः, तत्र व्यतिरेकिणा अप्रसिद्धमपि साध्यं सिद्धयति यतोऽप्रामाण्याभावस्य कुत्रापि सिद्धिर्नास्ति / अन्वयेति टीका। अन्वयव्याप्तिज्ञानजनकं यद्विशेष्यज्ञानं साध्यज्ञानं तद्विरहेऽपि व्यतिरेकव्याप्तिज्ञानादेवानुमित्यङ्गीकारः तन्मतेन प्रकारान्तरमाहेत्याभासार्थः। __यद्वा व्यतिरेकव्याप्तेरेवान्वयेन गम्य-गमकभावः, साध्याभावव्यापकसाधनाभावाभावेनसाधनेन साध्याभावाभावस्य साध्यस्य साधनात् व्यापकाभावेन व्याप्याभावस्यावश्यम्भावात्। अथैवं न सानुमिति: क्लृप्तहेतुलिङ्गपरामर्शाभावादन्यथाननुगम इति चेत् / न। अनुमितिमात्रे व्याप्तिज्ञानस्य प्रयोजकत्वात् / न चैवमतिप्रसङ्गः, अनुमितिसामान्यसाम यां सत्यामप्यनुमितिविशेषसामग्रीविरहादनुमित्यनुत्पत्तेः विशेषसामग्रीसापेक्षाया एव सामान्यसामग्र या जनकत्वात् अन्वयि-व्यतिरेकिविशेषद्वयसामग्री च नास्त्येव।। यद्वेति मूलम् / व्यतिरेकव्याप्ते (प्ति)र्गमिका अनुमितिर्गम्या।अन्वयो गम्यः। कोऽर्थः ? साध्यानुमितिर्गम्या / तदेव स्पष्टयति - साध्याभावेति।साध्याभाव इतरभेदाभावः, तस्य व्यापको योऽभावः पृथिवीत्वाभावः यथा यत्र यत्र इतरभेदाभावः तत्र तत्र पृथिवीत्वाभावः, तस्य पृथिवीत्वस्याभावाभावेन पृथिवीत्वाभावाभावेन पृथिवीत्वेन