________________ 168 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावः तस्य ज्ञानम्, विशेष्यः सहचारः तेन यदेन्द्रियसन्निकर्षो नास्ति यतो व्यतिरेकसहचारग्रहेऽन्वयसहचारेण सन्निकर्षो नास्ति विशेषणज्ञानं व्यभिचाराभावज्ञानमपि न सम्भवति / यत्र व्यतिरेकसहचारो गृह्यते तत्रान्वयव्यभिचाराभावज्ञानमपि न सम्भवति इति कृत्वाऽन्वयव्यतिरेकसहचारेणान्वयव्याप्तिज्ञानं जन्यते इति यदुच्यते तत् कथमित्याशङ्कार्थः / अन्त्येति / व्यभिचाराभावविशेषणकं सहचारविशेष्यकमन्वयव्याप्तिज्ञानमित्येव पक्षो युक्तः / तत्राह - युक्तिं तस्येति / व्यतिरेकसहचारज्ञानस्य इतरसामा यामन्वयव्याप्तिज्ञानसामा यां विद्यमानायां विशेषणज्ञानं व्यभिचाराभावज्ञानं सहचाररूपो यो विशेष्यः तेन सहेन्द्रियसन्निकर्षः इत्याद्यन्वयव्याप्तिज्ञानसामग्री अस्तीति कृत्वा व्यतिरेकसहचारस्यान्वयव्याप्तिग्राहकत्वम् / एतदेवाह - विशेषणेति। यदा विशेषणज्ञानादिकं वर्तते तदाऽन्वयव्याप्तिज्ञानमपि कारणीभूतं यद् व्याप्तिज्ञानं तस्माद् व्याप्तिग्रहो यथा पृथिव्यामितरभेदव्याप्यमित्येवाभिमतमित्यर्थः / न त्विति। [81 A] तद्वयतिरेक अन्वयव्याप्तिज्ञानसामग्रीव्यतिरेके / अन्वयव्याप्तिज्ञामं व्यतिरेकसहचारज्ञानमात्राजायते इत्यभिमतोऽर्थो नास्तीत्यर्थः। तस्येति।व्यभिचाराभावज्ञानस्य अन्वयसहचारज्ञानस्थानेऽभिषिक्तो(षेको)ऽस्ति / यत्र व्यभिचार(रा)भावज्ञानमस्ति तत्रावश्यमन्वयसहचारज्ञानं वर्तते एव इत्यभिषेकः। तथा चनिष्प्रत्यूह(हः) व्यतिरेकसहचारेणान्वयव्याप्तिग्रह इत्यर्थः / अन्यथेति। यदिअन्वयव्याप्तिग्रहे अन्वयसहचारो नापेक्ष(क्ष्य)ते तदा इतरकारणविरहे विशेषणज्ञानादिविरहे अन्वयसहचारमात्रेण व्याप्तिग्रहो न भवति इति कृत्वाऽन्वयसहचारस्यापि कारणत्वं न स्यात्, वर्तते चान्वयसहचारस्य व्याप्तिग्रहे कारणता / तथा चान्वयव्याप्तिज्ञाने अन्वयसहचारो विशेषणज्ञानमन्वयव्याप्तिज्ञानं विशेषणज्ञानत्वे कारणमागतमेव। अन्वयेति / अन्वयव्यतिरेकवत् इति यदुक्तं तदुभयसहचारेणान्वयव्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते इति यस्य मतं तन्मताभिप्रायेण / यन्मते व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते तेषां मते व्यतिरेकव्याप्तिर्न गृह्यत एवेति तन्मताभिप्रायेणेदमुक्तमित्यर्थः।पृथिवीइतरेभ्योभिद्यतेपृथिवीत्वात्इत्यत्र पक्षतावच्छेदकसाध्यसामानाधिकरण्यमनुमितिफलम्, तच्च पृथिवीइतरभिन्ना इतिव्याप्तिग्रहेणैव जातम्, व्याप्तिश्च हेतुसाध्ययोर्नियतसामानाधिकरण्यम् / तथा च व्यतिरेकीकृतस्य व्याप्तिज्ञानेनैव जातत्वात् व्यतिरेकी(कि) विफलमित्याशङ्कते - नन्विति मूलम् / अत्र पक्षः पृथिवी, पक्षतावच्छेदकं पृथिवीत्वम्, इतरभेदः साध्यः, तयोः सामानाधिकरण्यमनुमितेः फलम्, व्याप्तिग्रहोऽपि पृथिवी इतरभिन्ना इत्येवमाकारकः / यतोऽभावयोः सहचारो भावयोर्व्याप्तिरिति पृथिवीत्वइतरभेदयोः सामानाधिकरण्यं भातमेव, तथा चानुमितेर्वैफल्यमागतमित्याशङ्कार्थः। सत्यमितिमूलम्। पृथिवीत्वावच्छेदेनेतरभेदो व्याप्तिग्रहेणैव सिद्धः / पृथिवी इतरभिन्ना इति व्याप्तिग्रहकाले पृथिवीत्व-इतरभेदसामानाधिकरण्यं सिद्धमेव। गन्धवत्त्वावच्छेदेन इतरभेदः सिद्धो नास्ति यतः पृथिवीत्व-इतरभेदयोरेव सामानाधिकरण्यं सिद्धमस्ति परंगन्धवत्त्व-इतरभेदयोः सामानाधिकरण्यं सिद्धं नास्ति यतो गन्धवती पृथिवी इतरभिन्ना इति व्याप्तिग्रहो न जातः तेन पक्षतावच्छेकं गन्धवत्त्वम् तेन समं सामानाधिकरण्यं न सिद्धमिति साध्यते / अत एवेति मूलम् / यतः