________________ केवलव्यतिरेक्यनुमाननिरूपणम् 167 जातिसङ्करः / पूर्वमुक्तं व्यतिरेकसहचारेणान्वयव्याप्तिर्गृह्यते, तस्मिन्नन्वयव्याप्तिज्ञाने यदि[? जाति]रूपंवैलक्षण्यमङ्गीक्रियते तदा जातिसङ्करः साम्प्रतं तु अन्वयव्यतिरेकसहचारज्ञानजन्यान्वयव्यतिरेकव्याप्तिज्ञानतः व्यतिरेकव्याप्तेर्वैलक्षण्यं चेदङ्गीक्रियते तदा चाक्षुषत्वादिना जातिसङ्कर: स्यात् / यथा पूर्वमुक्तं तथैवात्रापि / मध्ये शङ्कते - न चेति टीका। इदानीं वदति केवलव्यतिरेकिव्याप्तिज्ञाने वैलक्षण्यं नास्ति / व्यतिरेकसहचारज्ञानजन्यव्याप्तिज्ञानापेक्षया जातिरूपंवैलक्षण्यं नास्ति।कुतः? तदाह - व्यभिचारज्ञानविरोधिसहचारज्ञानत्वेनोभयसहचारज्ञानस्य विजातीयत्वाभावात् / तथा चान्वयव्यतिरेकिण्यपि व्यतिरेकसहचारज्ञानजन्यतावच्छेदिका जातिरस्ति केवलव्यतिरेकिण्यपि सैव जातिरस्तीति न वैलक्षण्यमित्याशङ्कार्थः इति न च वाच्यम् / सहचारो वा सहचारज्ञानं वा व्यभिचारज्ञानविरोधि न भवति / कुतः ? सहचारे विद्यमाने तद्ज्ञाने विद्यमानेऽपि धूमादौ व्यभिचारज्ञानं भवति / तथा भ्रमरूपधूमो वह्रिव्यभिचारीति भवत्येव / स्वाधिकरणेति / स्वशब्देन हेतुः, तदधिकरणं महानसादि / तन्निष्ठं च व्यभिचारज्ञानविरोधि यत् सहचारज्ञानं तत् तेन द्वयोरन्वयव्यतिरेकयोः सहचारज्ञानयोः कारणत्वम् / एतदेव स्पष्टयति - यत्रेति / यत्र महानसादौ साध्यसाधनयोः वह्निधूमयोः सहचार: अथवा ह्रदादौ तदभावयोः साध्याभावसाधनाभावयोः सहचारग्रहः तत्राधिकरणे हेतोः साध्याभावेन सह यत् सामानाधिकरण्यं स व्यभिचारः,तस्य ज्ञानं तत्र न भवतीति कृत्वा व्यभिचारज्ञानविरोधिनो(तो)भयसहचारज्ञानस्याप्यस्तीति कृत्वा न जातिवैलक्षण्यं येन जातिसङ्करप्रसङ्गो भवेत् / पुनर्वादी केवलव्यतिरेकिदूषणाय शङ्कते - नन्विति टीका / [80 B] तव मते व्यतिरेकसहचारेणान्वयव्याप्तिज्ञानं जन्यते इति, तत्राशङ्कते - तदन्वयव्याप्तिज्ञानं कीदृशम् ? व्याप्तिविशेषणकं लिङ्गविशेष्यकं - पृथिवीत्वमितरभेदव्याप्यम् अत्र पृथिवीत्वं लिड्गमिति व्याप्तिविशेषणकं लिङ्गविशेष्यकं - एतादृशं ज्ञानं जन्यते?, अथवा व्यभिचाराभावो विशेषणीभूतो यत्र एतादृशं सहचारविशेष्यक यथा पृथिवीत्वमितरभेदाव्यभिचारिसहचरितं चेतिव्यभिचाराभावविशेषणकंसहचारविशेष्यकम् ? तत्पूर्वमिति / यदा व्यतिरेकसहचारेणान्वयव्याप्तिज्ञानं जायते तदा तत्रपृथिवीत्वमितरभेदव्याप्यमित्यापादनीयम्। तद्व्याप्तिज्ञानं न सम्भवति। कुतः ? विशेषणज्ञानं विशिष्टज्ञाने कारणमिति कृत्वा। विशेषणज्ञानं व्याप्तिज्ञानम्। न तु पृथिवीत्वमितरभेदव्याप्यमिति ज्ञानात् पूर्वं व्याप्तिाज्ञानम्। तत्सामा यभावात् - तत्सामग्री व्यभिचारज्ञानसहचाररूपा तदभावात्। कथं तत्र व्यतिरेकसहचारेण व्याप्तिज्ञानमन्वयव्याप्तिज्ञानम् ? तथा चान्वयव्याप्तिज्ञान(नं) कारणीभूतं यद्व्याप्तिज्ञानं तत्पूर्वं नास्तिअन्वयसहचाराभावात्। दूषणान्तरमप्याह - लिङ्गेन्द्रियेति।लिङ्गं पृथिवीत्वादिकम्, तेन सहेन्द्रियस्य सन्निकर्षो नास्ति। कुतः ? यत्रेतरभेदाभावस्तत्र पृथिवीत्वाभाव इति यदा यत्र व्याप्तिर्गृह्यते तदा तत्र पृथिवीत्वेन समं सन्निकर्षो नास्ति / इतरभेदाभावस्तु जलादौ गृह्यते तत्र पृथिवीत्वं नास्ति इति कृत्वाऽन्वयव्याप्तिज्ञानं न सम्भवति इति नाद्यः पक्षः / नान्त्य इति / व्यभिचाराभावाविशेषणं(णकं) सहचारविशेष्यकमन्वयव्याप्तिज्ञानमित्यन्त्यः पक्षो न सम्भवति। कथम् ? विशेषणज्ञानमिति विशेषणं व्यभिचारा