________________ 166 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदनुमितिजनकं भवति इत्यत आह - अन्वयव्याप्तिज्ञानमिति। यतो वादिवाक्यमप्रमाणं परस्येति कृत्वा तस्य मनस्येवान्वयव्याप्तिज्ञानम्, तदनन्तरमनुमितिः, एतदेवाह - नहीति। यद्यपिवादिना शब्देनान्वयव्याप्त्युपन्यासः कृतस्तथापि तच्छाब्दं ज्ञानमनुमितिकारणं न भवति / तत्र हेतुमात्र - वादिवचनस्येति / फलितार्थमाह - तथा चेति। यत्रान्वयसहचार: स्पष्टः स्फुरति तदा तेनैवान्वयव्याप्तिज्ञापनार्थं नियतान्वयसहचाररूपा व्याप्तिरुपदर्श्यते / तदसम्भव इति / यत्रान्वयसहचारो न सम्भवति तदर्थमन्वयसहचारनियतव्यतिरेकसहचारज्ञापनार्थं नियतव्यतिरेकसहचाररूपा व्यतिरेकव्याप्तिर्गृह्यते / अयमर्थः यथा अन्वयव्याप्तिज्ञापनार्थं नियतान्वयसहचाररूपा अन्वयव्याप्तिरुपदर्श्यते तथा व्यतिरेकिण्यपिव्यतिरेकव्याप्तिज्ञापनार्थं (नियताव्यतिरेकसहचाररूपाव्यतिरेकव्याप्तिः प्रदर्श्यते इत्यर्थः / वीप्सेति। यदि नियतव्यतिरेकसहचार एव व्यतिरेकव्याप्तिस्तदा नियमोपन्यासार्थं वीप्सा यो यो धूमवान् इत्यादिका व्यर्था यतः सहचारज्ञानेनैव व्याप्तिज्ञानं जातमिति आशङ्कार्थः / तस्या अपीति टीका। वीप्साया अपीत्यर्थः / वीप्साया अपि व्याप्तिग्रहे उपयोगो वर्तते व्यभिचाराभावप्रदर्शनद्वारा इत्यर्थः / न चैवमिति / यदि व्यतिरेकसहचारोपन्यासो [व्यार्थः [आन्वयव्याप्तिप्रदर्शनं विना तदा [आप्राप्तकालतेत्याशङ्कार्थः / अलिङ्गभावेनेति। व्यतिरेकसहचारोऽन्वयव्याप्तिग्रहे लिङ्गीभूय कारणं न भवति येनाप्राप्तकालता स्यात्। यदि व्यतिरेकसहचारेणान्वयव्याप्तेरनुमानं तदा व्यतिरेकसहचारस्य लिङ्गतयोपन्यासः तदा अप्राप्तकालता भवति। एतदेवोपदर्शयति - लिङ्गतयेति टीका। लिङ्गतया यथा ज्ञापको धूमस्तस्य ज्ञाप्यं वह्यादि, तद्[धूमम्] उपन्यस्य वह्रर्यदि उपन्यासः क्रियते तदाऽप्राप्तकालता भवति यतः पर्वतो वह्निमान् इत्यत्र वह्नः पूर्वमुक्तत्वात्। प्रकृते च व्यतिरेकसहचारस्य लिङ्गतयानोपयोगः येनाप्राप्तकालता स्यात्। अतएवेति टीका पितो ज्ञाप्यमुपन्यस्य ज्ञापकं नोपन्यस्यते अप्राप्तकालभयात् अत एव। सिद्धान्तोऽप्येतादृशः यत उपाधिज्ञानात् मानसमपि व्यभिचारज्ञानं जायते इति कृत्वा ज्ञाप्यो यो व्यभिचारस्तमुपन्यस्य उपाधिरुपन्यस्यते इति [80 A] यतो लिङ्गविधया व्यभिचारज्ञानमुपाधिज्ञानं नोपयोगि किन्तु औचित्यावर्जितं कदाचिदुचितमिति सम्भवति इति कृत्वोपाध्युपन्यासे अप्राप्तकालता नास्ति इति न्यायसिद्धान्तः। शङ्कते - नन्विति। त्वयोक्तंव्यतिरेकसहचारेणान्वयव्याप्तिर्गृह्यते इति, तत्र व्यतिरेकसहचारेण यदि अन्वयमात्रव्याप्तिज्ञानं जन्यते इति मतं तदा यत्र अन्वयमात्रसहचारज्ञानेनान्वयव्याप्तिज्ञानं जन्यते तदपेक्षयाऽन्यवैलक्षण्यं वैजात्यमवश्यं वाच्यं विलक्षणकारणप्रयोज्यत्वात् कार्यवैलक्षण्यस्येति कृत्वा व्यतिरेकसहचारजन्यान्वयव्याप्तिज्ञानेऽवश्यं वैलक्षण्यं वाच्यम् / तच्च वैलक्षण्यं विषयकृतं न भवति, विषयस्तु एक एव साध्यसाधनादिः, तत्कृतं वैलक्षण्यं न संभवति इति कृत्वा जातिरूपं वैलक्षण्यं वाच्यम् / तथा चान्वयव्यतिरेकसहचारजन्यान्वयव्याप्तिज्ञाने काचिद् विलक्षणा जातिरस्ति सा चन सम्भवति।चाक्षुषत्वादिना सङ्करापत्तेरिति टीका। यथा यत्र चाक्षुषत्वं नास्ति स्पार्शनव्याप्तिज्ञाने व्यभिचारस्तदुभयमपि चाक्षुषव्याप्तिज्ञाने वर्तते इति सङ्करः / यदिचेतिटीका।तस्य केवलव्यतिरेकिण: तुल्यविषयतया यदि जातिरूपंवैलक्षण्यमङ्गीक्रियते तदा चाक्षुषतापत्तेर्नैव