________________ केवलव्यतिरेक्यनुमाननिरूपणम् 165 व्यतिरेकव्याप्तिर्भवति / व्यतिरेकव्याप्त्याऽन्वयव्याप्तिरनुमीयते इति कृत्वा अन्वयव्याप्त्यनुकूला व्यतिरेकव्याप्तिर्भवति इत्यत आह - अन्वयव्याप्तीति। यद्यन्वयव्याप्त्यनुकूलत्वेन व्यतिरेकव्याप्तेरुपन्यासः तदा अप्राप्तकालता स्यात् / अनाकाङ्क्षिताभिधानमप्राप्तकालता / प्रकृते वाऽऽकाका अन्वयव्याप्तेस्तस्याः अनभिधानम् अकथनम् इत्यप्राप्तकालतेति / अथ व्यतिरेकव्याप्तिं समर्थयति - उच्यत इति। उच्यते।निरुपाधिव्यतिरेकसहचारेणान्वयव्याप्तिरेवगृह्यते प्रतियोग्यनुयोगिभावस्य नियामकत्वात् अन्वय-व्यतिरेकिवत् / नन्वेवं व्याप्तिग्रह एव पृथिवीतरभिन्नेति भासितं नियतसामानाधिकरण्यरूपत्वाद् व्याप्तेरिति, सत्यम्, गन्धवत्त्वावच्छेदेनेतरभेदस्य साध्यत्वात् / अत एवाचार्यः पक्षतावच्छेदकस्य न हेतुत्वमनुमेने पृथिवीत्वमितरभेदव्याप्यमिति प्रतीतावपि सर्वा पृथिवीतरभिन्नेति पृथिवीविशेष्यकबुद्धेर्व्यतिरेकिसाध्यत्वाच्च। निरुपाधीति मूलम् / निरुपाधिको यो व्यतिरेकसहचारस्तेन व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते / अभावयोः सहचारेण भावयोरेवव्याप्तिर्गृह्यतेप्रतियोग्यनुयोगिभावस्य नियामकत्वादिति।निरुपाधिकेति पदादाने पृथिवी इतरेभ्यो भिद्यते द्रव्यत्वात् इत्यत्रापि व्यतिरेकसहचारो वर्तते, यथा यत्रेतरभेदाभावस्तत्र द्रव्यत्वाभावः, इतिसहचारमात्रेण द्रव्यत्व-इतरभेदयोरपिव्याप्तिग्रहः स्यात् इत्यत उक्तम् - निरुपाधिकेति। तत्र चगुणाभावस्यैवोपाधेर्विद्यमानत्वात्, तथाहि व्यतिरेकि(क)व्याप्तौ यत्र व्यापकः द्रयव्यत्वाभाव: व्याप्यस्तु इतरभेदाभावः तथा च यत्र द्रव्यत्वाभावस्तत्र गुणाभावः इति वर्तते, परं यत्र इतरभेदाभावस्तत्र गुणाभाव इति नास्ति जलादौ व्यभिचारः, ततो निरुपाधिकेति / तथा चोपाधेर्लक्षणम् - व्यापकव्यापकत्वे सति व्याप्याव्यापकत्वमिति / निरुपाधीति मूलस्यार्थमाह - साध्यसाधनेति टीका / साध्यसाधनयोर्यो व्यतिरेको तयोर्यत् सहचारज्ञानं तेन साध्यानुमित्यनुकूला अन्वयव्याप्तिरेव गृह्यते, यथाश्रुते तुव्यतिरेकसहचारोऽन्वयव्याप्तिग्राहको [79B] न भवति किन्तु व्यतिरेकसहचारज्ञानं तद्ग्राहकम्।अथव्यतिरेकसहचारोऽपिकयोरित्यत्र सम्बन्धापेक्षास्यात्, अथवाऽन्वयव्याप्तिस्तेन गृह्यते इति या काचिदपिअन्वयव्याप्तिरपि गृह्यतामिति ह्यसङ्गतं स्यात्, इत्यन्यथा व्याख्यातम्। अन्यसहचारज्ञानेन या अन्यानुमितिः सा अनुकूला न भवतीति भावः / यदि अन्वयव्याप्तिम् उपन्यस्य व्यतिरेकस्योपन्यासेऽर्थान्तरता इत्याशङ्कते - नन्विति टीका। नियतव्यतिरेकसहचाररूपा या व्याप्तिस्तस्या अन्वयव्याप्तिज्ञानार्थमेवोपन्यासः / तथा च अर्थान्तरता न भवति व्यतिरेकव्याप्तिज्ञानस्यान्वयव्याप्तिज्ञाने उपयुक्तत्वात् / प्रकृतानुपयुक्तस्यैवार्थान्तरत्वादिति भावः / ननु प्रतिवादिनोऽन्वयव्याप्तिज्ञानं कथं भविष्यति ? शब्दाद् यद् ज्ञानं