SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 164 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्याप्तस्य हेतोः पक्षधर्मता इत्येकम्, द्वितीयं तु साध्याभावव्यापकाभावप्रतियोगित्वम्। यद्धेतोस्तदनुमितिप्रयोजकं प्राणादिमत्त्वस्य हेतोः व्याप्तस्य पक्षधर्मत्वं जीवच्छरीरधर्मत्व(त्वं) समस्तीति प्रथमम्। द्वितीयं तु साध्याभावस्य व्यापकीभूतो योऽभावः हेत्वभावः, कथम् ?, यत्र साध्याभावस्तत्र हेत्वभावः, तत्प्रतियोगित्वं हेतोरेवेति / न च वाच्यमित्याशयः / अननुगमादिति / एवमनुमितिं प्रति एकमनुगतं कारणं नास्ति / कुत्रचिद् व्याप्तपक्षधर्मत्वम्, कुत्रचित् साध्याभावव्यापकाभावप्रतियोगित्वम् / तथा च परस्परव्यभिचारो यत एकैकविरहेऽप्यनुमितिदर्शनादित्यर्थः / न चेति। अन्यतरत्वमेतदुभयान्यान्यत्वम् कारणतावच्छेदकमिति न च वाच्यम्। एकेति / इन्द्रियं परामर्शः सादृश्यज्ञानं वाक्यार्थज्ञानं वैतेषामप्यन्यतरत्वेनैव तत्तत्पमा प्रति कारणता स्यात् / ननु प्रमाणचतुष्टयं कारणता तु चतुर्णामप्यन्यतरत्वेनैवरूपेण भविष्यति इत्यर्थः / एकजातीयेति टीका। प्रमात्वजात्या चतुर्णामप्येकजातीयत्वादित्यर्थः / शङ्कते - न चेति / यथा तृणारणिमणिस्थले वह्निविशेषे तृणस्य कारणतां अरणेरपि वह्रिविशेषे कारणता एवं मणेरपि वह्निविशेषे कारणता तृणत्वेन अरणित्वेन मणित्वेन तथा प्रकृतेऽपि अनुमितिविशेषे व्याप्तपक्षधर्मत्वं प्रयोजकम् अनुमितिविशेषे च साध्याभावव्यापकाभावप्रतियोगित्वं प्रयोजकम् इति न च वाच्यम् / युक्तिमाह - व्यतिरेकीति / तर्हि व्यतिरेक्यनुमितौ अनुमितित्वं न स्यात् / कथमित्यत आह - उभयेति / उभयवादिसिद्धं यतः क्लृप्तम् अनुमितिसामान्यकारणं व्याप्तिविशिष्टपक्षधर्मताज्ञानम्, तदभावात् सामान्यकारणाभावेऽनुमितित्वावच्छिन्नकार्यमेव नस्यात्।नचेति। अनुमितिसामान्ये साध्याभावव्यापकाभावप्रतियोगित्वमनुमितिसामान्ये कारणमिति[79A]न चवाच्यम्।व्याप्तिविशिष्टपक्षधर्मताज्ञानापेक्षयासा(याऽस्य) गुरुत्वम् अभावद्वयगर्भत्वादित्यर्थः / दूषणान्तरमाह - केवलान्वयिनीति / केवलान्वयिनि साध्याभावाप्रसिद्धिरित्यर्थः। अथेति। केवलव्यतिरेकिणिसाध्यव्याप्यत्वमनुमेयम्।हेतोः (तुना) केन? साध्याभावव्यापकाभावप्रतियोगित्वेन। तथा चहेतुः साध्यव्याप्यः साध्याभावव्यापकाभावप्रतियोगित्वात् अन्वयव्यतिरेकिहेतुवत् / एवमिति। व्यतिरेकव्याप्त्या साध्याभावव्यापकाभावप्रतियोगित्वरूपयाऽन्वयव्याप्तिमनुमाय यत्रानुमितिःसएव व्यतिरेकी / वृत्तिमत्त्वेनेति टीका / यदि साध्याभावव्यापकाभावप्रतियोगित्वेन साध्यव्याप्यत्वमनुमेयं तदा आकाशे व्यभिचारः। कथम् ? साध्याभावस्य व्यापकीभूतोऽभाव आकाशात्यन्ताभावः। यत्र साध्याभावस्तत्राकाशात्यन्ताभाव इति वर्तते / परमाकाशे साध्यव्याप्यत्वं नास्ति। कथम् ?, साध्यव्याप्यत्वं नाम हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यमाकाशस्यावर्ति(वृत्ति)त्वात् सामानाधिकरण्याभावः इत्याशङ्कायां समाधत्ते - वृत्तिमत्त्वेनेति टीका / तथा चावृत्तिमत्त्वे सति साध्याभावव्यापकाभावप्रतियोगित्वमिति हेत्वर्थः / एवमिति टीका। तथा चान्वयव्यतिरेकतो भेदमाह केवलव्यतिरेकिणः इत्यर्थः / दूषयति - अन्वयेति / यद्यन्वयव्याप्तेर्व्यतिरेकिण्यपि गमकतोच्यते तदा व्यतिरेकव्याप्तेरुपन्यासोऽर्थान्तरग्रस्तः / कथम् ? प्रकृते उपयुक्तत्वात् प्रकृतेऽन्वयव्याप्तेरेवोपयुक्तत्वात् / प्रकृतानुापायुक्तस्योक्तिरर्थान्तरम् / ननु अन्वयव्याप्त्यनुकूला
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy