________________ केवलव्यतिरेक्यनुमाननिरूपणम् / केवलव्यतिरेकी त्वसत्सपक्षो यत्र व्यतिरेकसहचारेण व्याप्तिग्रहः / ननु व्यतिरेकी नानुमानं व्याप्तिपक्षधर्मताज्ञानस्य तत्कारणत्वात् अत्र व्यतिरेकसहचारात् तत्र व्याप्तिरन्वयस्य पक्षधर्मता / न च व्याप्तपक्षधर्मत्वं साध्याभावव्यापकाभावप्रतियोगिसत्त्वमुभयमप्यनुमितिप्रयोजकमिति वाच्यम्। अननुगमात् / न चान्यतरत्वं तथा, एकप्रमाणपरिशेषापत्तेः / न च तणारणिमणिन्यायेनानुमितिविशेषे तद्धेतुत्वमिति वाच्यम्। व्यतिरेकिसाध्येऽनुमितित्वासिद्धेः उभयसिद्धक्लृप्ततत्कारणस्याभावात्। न च साध्याभावव्यापकाभावप्रतियागित्वमेवानुमितिप्रयोजकमिति वाच्यम्।गौरवात् केवलान्वयिन्यभावाच्च। अथ साध्याभावव्यापकाभावप्रतियोगित्वेन साध्यव्याप्यत्वमनुमेयम्, एवं व्यतिरेकव्याप्त्यान्वयव्याप्तिमनुमाय यत्रानुमितिः स एव व्यतिरेकीत्युच्यते, तन्न, अन्वयव्याप्तेर्गमकत्वेव्यतिरेकव्याप्त्युपन्यासस्यार्थान्तरतापत्तेः अन्वयव्याप्त्यनुकूलतया च तदुपन्यासे अन्वयव्याप्तिमनुपन्यस्य तदुपन्यासस्याप्राप्तकालत्वमिति। - ।केवलव्यतिरेक्यनुमाननिरूपणम्। ___ केवलव्यतिरेकी असत्सपक्ष इति। न सत्पक्षो यस्य इत्यसत्सपक्षः, यथा जीवच्छरीरं प्राणादिमत्त्वात् इति अत्र जीवातिरिक्तः कोऽपि साध्यवान् निश्चितो नास्ति। सिद्धयसिद्धीति। ननु सपक्षः सिद्धो वाऽसिद्धो वा ? यदि सिद्धस्तदा तस्याभावो न सम्भवति / असिद्धश्चेत् तदा कस्याभावः ? सदसयामभावो निरूप्यते, न त्वेकेनासतेति।प्रतियोग्यप्रसिद्धयाऽभावोन सम्भवतिइत्याशङ्कायामसत्सपक्ष इत्यर्थमाह - व्यतिरेकसहचारमात्रेण व्याप्तिग्रहः, सएव व्यतिरेकीत्यसत्सपक्ष इत्यर्थः / यथाश्रुते अन्वयव्यतिरेकिण्यपिव्यतिरेकसहचारेणापि व्यतिरेकव्याप्तिर्गृह्यत इति कृत्वा तस्यापि केवलव्यतिरेकित्वं स्यात् / अतो मात्रपदम् / ननु दशाविशेषे व्यतिरेकसहचारमात्रेण धूमे व्यतिरेकव्याप्तिर्गृह्यते तदा केवालव्यतिरेकिता] धूमादौ इष्टे (ष्टै)वेति भावः / मूले शङ्कते - नन्विति। केवलव्यतिरेकी नानुमानम्। अत्र युक्तिमाह - व्याप्तिविशिष्टपक्षधर्मताज्ञानस्यानुमितिकारणत्वात् तच्च प्रकृते न सम्भवति। व्यतिरेकव्याप्तिः कोऽर्थः ? साध्याभावहेत्वभावयोर्व्याप्तिः / पक्षधर्मतान्वयस्य हेतोरेवेति। तत्रेति साध्याभावे व्याप्तिः हेतो(तौ) पक्षधर्मता इत्यर्थः। मध्ये शङ्कते-नचेति। उभयमप्यनुमितिप्रयोजकमस्तु /