________________ 162 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिंका तदा कोट्यप्रसिद्धिरिति कृत्वा संशयो न सम्भवति। ननु अनुमानस्य पञ्चाङ्गानि - पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद् व्यावृत्तिः, अबाधितत्वम्, असत्प्रतिपक्षत्वमिति / तथा च केवलान्वयिनि विपक्षव्यावृत्तत्वं न सम्भवति / कुतः ? साध्याभावस्याप्रसिद्ध्या तदभाववतो विपक्षस्य सुतरामे(म)प्रसिद्धेः, कथं केवलान्वयि अनुमानम् इत्याशङ्कते - नन्विति। तत्त्वे इति मूलम् / यदि एकरूपविकलमपि गमकं तदा रूपान्तरविकलस्यापि बाधितसत्प्रतिपक्षादेरपि गमकता। साध्यसाधकताभावान्नैवैवम् / न हि बाधितो वा सत्प्रतिपक्षो वा हेतुः साध्यं साधयितुमिष्टे / तत्र हेतुमाह - विशेषेति। एकरूपविकलस्य विपक्षव्यावृत्तत्वरूपाङ्गविकलस्य केवलान्वयिनः साध्यसाधकत्वम् अबाधितत्वरूपविकलस्य बाधितहेतोर्न साध्यसाधकत्वमित्यत्र नियामकाभावादित्यर्थः / अन्वयेति टीका / पञ्चरूपनिश्चयस्य दर्शनात् गमकत्वम् / तथा केवलान्वयिनि केवलव्यतिरेकिणि च नास्तीति कृत्वा तयोः कथं साध्यसाधकत्वमित्यर्थः / पक्षवृत्तित्वादिति टीका। पक्षवृत्तिरूपं यदङ्गं तद्विकलस्य स्वरूपासिद्धस्येत्यर्थः।समाधत्ते - अन्वयेति।अन्वयव्याप्तिर्व्यतिरेकव्याप्तिर्वा एतदन्यतरनिश्चयेनानुमितिरनुभूयते। तथा च केवलान्वयिनि अन्वयव्याप्तिनिश्चयेन व्यतिरेकिणि व्यतिरेकव्याप्तिनिश्चयेनानुमितिः, न किञ्चिद् बाधकमिति भावः / ननु यत्रोभयव्याप्त्युपस्थितियुगपद् वर्तते तत्रोभयोरपि प्रयोजकत्वे कस्या अङ्गीकार इत्यत आह - युगपदिति / व्यतिरेकोपासनेति / व्यतिरेकव्याप्तेरप्यङ्गीकार इत्यर्थः / व्यतिरेकश्चेति / अन्वयव्याप्तिप्रतीतौ विपक्षव्यावृत्तत्वव्यतिरेका उपयुज्यते / किंद्वारा ? विपक्षवृत्तित्वशङ्कानिरासद्वारा / तथा च केवलान्वयिनि स्वतःसिद्धं विपक्षव्यावृत्तत्व(त्वं) शङ्काविरहात् न विपक्षव्यावृत्तरूपस्यानुमानाङ्गस्योपयोगः / व्यतिरेकव्याप्ती वस्तुगत्या यत्र व्यतिरेकव्याप्तिरेव वर्तते तत्रान्वयव्याप्तेर्ज्ञानं जातं तत्र विपक्षवृत्तित्वशङ्कानिरासद्वारोपयुज्यते / अत्रेति / केवलान्वयिनि विपक्षाभावादेव विपक्षवृत्तित्वशङ्का न भवतीति / न विपक्षव्यावृत्तत्वरूपस्य केवलान्वयिन्युपयोग इत्यर्थः / तत्रैकेति टीका / अन्वयव्यतिरेकिणि एकतरव्याप्तेरन्वयव्याप्तेर्व्यतिरेकर्व्याप्तेर्वा निश्चये सतिअनुमितिदर्शनात् इति विपक्षव्यावृत्तत्वस्य केवलान्वयिनि नोपयोगइत्यर्थः / ननु अन्वयव्यतिरेकिणि यदा अन्वयव्याप्तेः प्रतीतिर्जायते तत्र विपक्षव्यावृत्तत्वं प्रयोजकं दृष्टमस्तीति कृत्वा केवलान्वयिनि अपि विपक्षव्यावृत्तत्वं विनाअन्वयव्याप्तिनिश्चयो नस्यात् इत्याशङ्कते - नन्विति।अन्वयव्याप्तिप्रतीताविति टीका / वस्तुगत्या व्यतिरेकव्याप्तिरस्ति, प्रतीयते चान्वयव्याप्तिः, तत्र विपक्षवृत्तित्वशङ्कानिरासद्वारा विपक्षव्यावृत्तत्वमुपयुज्यते / साक्षादिति / विपक्षव्यावृत्तत्वं [78 B] विपक्षवृत्तित्वशङ्कानिरासद्वारोपयुज्यते, न तु साक्षात् इत्यर्थः / केवलान्वयिग्रन्थः सम्पूर्णः / केवलव्यतिरेकिवाद उच्यते। / इति केवलान्वयिग्रन्थप्रकाशिका।