________________ 161 केवलान्वय्यनुमाननिरूपणम् न च सापि साधक-बाधकप्रमाणाभावः प्रमेयत्वाभावासिद्धौ तत्प्रमाणासिद्धेस्तदभावासिद्धिरिति वाच्यम्।पक्षनिष्ठात्यन्ताभावाप्रतियोगित्वज्ञानस्यैवसाध्यसाधकत्वेन तदभावस्यैव योग्यतात्वात् / प्रमेयत्वमत्यन्ताभावप्रतियोगीति भ्राम्यत: सन्देह इत्यन्ये / नन्वेकरूपविकलमिदं कथं गमकं तत्त्वे वा व्यतिरेकविकलवत् रूपान्तरविकलमपि गमकं स्यादिति चेत् / न / अन्वयव्यतिरेकव्याप्त्योरन्यतरनिश्चयेनानुमित्यनुभवात् युगपदुभयव्याप्त्युपस्थितौ विनिगमकाभावेन उभयोरपि प्रयोजकत्वे व्यतिरेकोपासना व्यतिरेकश्च विपक्षवृत्तित्वशङ्कानिवृत्तिद्वारा व्यतिरेकव्याप्तावुपयुज्यते अत्र तु विपक्षाभावेन शङ्कव नोदेति। ।समाप्तमिदं केवलान्वय्यनुमानम्। शङ्कते - न चेति मूलम् / संशययोग्यता नु साधकबाधकप्रमाणाभावः / साध्यसाधकं यत् प्रमाणं प्रत्यक्षादिप्रमाणं तस्याभावो बाधकं च साध्याभावसाधकं यत् प्रमाणं तस्याभावः संशययोग्यता / तथा च केवलान्वयिस्थले साध्याभावाप्रसिद्धया तत्साध्यकप्रमाणस्याप्रसिद्धेः कथं तदभावेनानुमितिरिति न च वाच्यम् / पक्षनिष्ठेति मूलम् / पक्षनिष्ठो यो घटात्यन्ताभावस्तदप्रतियोगित्वज्ञानं साध्यस्य साधकमिति कृत्वा एतादृशज्ञानाभावे योग्यतासत्त्वं केवलान्वयिस्थले वर्तते एव / कथम् ? घटे पटादीनां योऽत्यन्ताभावस्तदप्रतियोगित्वज्ञानाभावः प्रमेयत्वेऽप्यस्त्येवेतियोग्यतासत्त्वान्न किञ्चिद्बाधकमित्यर्थः / अन्ये इति।केवलान्वयिस्थले अन्येऽप्यनेनैव प्रकारेण साध्याभावसंशयमुपपादयन्ति। तथाहि प्रमेयत्वमत्यन्ताभावप्रतियोगि इति यस्य भ्रमः तस्य घटादावपि प्रमेयत्वाभावसंशयो भवत्येवेत्यर्थः / आशङ्कते - न चेति टीका / एतदज्ञानदशायां पक्षनिष्ठात्यन्ताभावाप्रतियोगित्वाज्ञानदशायामुक्तयोग्यतासाधकप्रमाणाभावोवर्तत इतिकृत्वाऽनुमितिः स्यादित्याशङ्कार्थः / पक्षनिष्ठोभयात्यन्ताभावस्तत्प्रतियोगित्वज्ञानं यत्साध्यस्य तद्विरोधिज्ञानाभावस्यैव योग्यतात्वम्। तथा चपूर्वोक्तस्थले पक्षनिष्ठात्यन्ताभावप्रतियोगित्वज्ञानविरोधिज्ञानमेव वर्तते। तदभावो नास्तीत्यनुमित्यापादनरूपं न बाधकमिति भावः / अस्वरसबीजमिति टीका / अन्ये इत्यत्रेति शेषः / अस्वरसबीजमाह - एवमिति टीका।प्रमेयत्वेऽत्यन्ताभावप्रतियोगित्वप्रसिद्धौभ्राम्यते इतिभ्रमरूपायामपिप्रमेयोनवा इति यः संशयस्तत्कोटिभूतो योऽखण्डप्रमेयत्वाभावः स अप्रसिद्ध एव / प्रमेयत्वे यद्यपि प्रमाणात्यन्ताभावप्रतियोगित्व(त्वं) प्रसिद्ध तथापि प्रमेयो न वेति संशयकोटिभूतो यः प्रमेयत्वाभावः तस्याप्रसिद्धिरेव यतः [78A] प्रमेयत्वस्यात्यन्ताभावप्रतियोगित्वमानीतं परं प्रमेयत्वाभावरूपकोटेरप्रसिद्धिरेवेत्यर्थः / यदीति / यदि तादृशो भ्रमोऽत्यन्ताभावप्रतियोगित्वधर्मोऽस्ति तदा ततएव तादृशभ्रमाभावादेवन केवलान्वयित्वम्।अन्यथेति। यदिभ्रमस्तादृशो नास्ति