________________ 160 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिंका यदनुमानं य(त)दन्वयव्यतिरेक्येव भवति न तु केवलान्वयीति। अनुमान(नं) प्रमेयत्वम् एतद्वृत्तिधर्मत्वात् इत्यत्र व्यतिरेके आकाशदृष्टान्तः तथा च प्रमेयत्वसाध्यके घटः प्रमेयः अभिधेयात् इत्यत्र घटः प्रमेयो न वेति संशयोऽपेक्ष्यते, सच नास्तीति कृत्वा कथमनुमितिरित्याशङ्कार्थः / अथ प्रकारान्तरेण संशयमुपपादयति। अथेति मूलम् / सामान्यतः पक्षः साध्यवान् न वा इत्येकः / पक्षे साध्यमस्ति न वा इति द्वितीयः। तथा च घटः साध्यप्रमेयत्ववान् न वा, [आथ घटे प्रमेयत्वं साध्यमस्ति न वा इति द्वावपि सन्देही समानविषयको एव। अनुमितौ अपि प्रमेयत्वं विषयो भवति / अत्र सन्देहेऽपि प्रमेयत्वं विषयः / किञ्चिदत्र विलोक्यते / वान् इत्यत्र मतुबस्ति तदर्थोऽस्त्यस्य [अस्मिन्] वेति / अत्र प्रमेयत्वं घटेऽस्ति तस्मिन्नर्थे मतुप्प्रत्ययविधानात् / सन्देहो भविष्यतीति / इदमशुद्धम् / विशेषणेति मूलम् / अनुमितौ घटो विशेष्य: प्रमेयत्वं विशेषणम्, सन्देहे तु प्रमेयत्वं विशेष्यं घटो विशेषणम्, इति भिन्नविषयकत्वं सप्तम्यन्तत्वात् अनुमितिसंशययोर्भिन्नविषयकत्वम् / तथा च पूर्वोक्तोऽपि संशयो नानुमानाङ्गं सम्भवति। समानविषयक एव संशय अनुमानाङ्गं भवति इत्यर्थः / तथापीत्यारभ्य एतत्पर्यन्तं पूर्वपक्षः / समाधत्ते - मैवम् इति / साध्यस्य सिद्धिर्विरोधिनी यस्य एतादृशो यः संशयः स एव अनुमानाङ्गं भवति / यथा वह्रिरत्रास्तीति साध्यसिद्धौ वह्निमान् [न] वेति सन्देहो न भवति / तथा प्रकृतेऽपि घटः प्रमेय इति साध्यसिद्धौ जातायांप्रमेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगिनवेति सन्देहः अथवा घट: प्रमेयो न वेति संशयो द्वावपि यदा घट: प्रमेय इति ज्ञानं तदा द्वयोर्मध्ये एकोऽपि न भवत्येवेति कृत्वाऽस्य साध्यसिद्धिर्विरोधिनीति अयं सन्देहोऽनुमानाङ्गमेवत्यर्थः / यद्यपीति। यदुक्तं प्रमेयत्वं प्रमाजातीयविषयकत्वं तत् किमर्थम् ?, प्रमाविषयकत्वमेवानुगतं भविष्यतीतरप्रमामादायेत्याशङ्कार्थः / तथापीति / मीमांसकमते ईश्वराभावादुभयसाधारण्यार्थं तदुक्तम् / ननु भिन्नविषयाकात्वेऽपि किं बाधकमित्यत आह - स चेति / भिन्नविषयकः सन्देहः साध्यसिद्धौ प्रयोजको न भवति। दूषणमाह - अतिप्रसङ्गादिति। यदि भिन्नविषयकोऽनुमानाङ्गं तदा घटसन्देहात् पटानुमितिः स्यात्, ततः समानविषयकत्वमनुमित्यङ्गम् / य एव साध्यसन्देहविषयः स एवानुमितिविषय इत्यर्थः / घटोऽस्तीति प्रमेयत्वं [77 B] घटवृत्ति केवलान्वयिधर्मत्वात् अभिधेयत्ववत् इत्यन्वयित्वमेवेत्यर्थः / तस्यैवेति / घटास्तित्वस्यैव संशयविषयत्वात्। तथा च घटे प्रमेयत्वास्तित्वमेव संशयकोटिरित्यर्थः समानविशेष्यकत्वमित्यर्थः इति टीका / ननु [समानाविषयत्वप्रतिक्षेपः क्रियते, स चायुक्तः, भिन्नविषयसन्देहस्यापि अनुमानाङ्गता स्यात्, इति पूर्वोक्तातिप्रसङ्गादित्यन्यथा व्याचष्टे - समानविशेष्यकेति / समानविषयत्वस्य प्रतिक्षेपो न क्रियते किन्तु समानविशेष्यकत्वस्यप्रतिक्षेपः क्रियते, तथा चन पूर्वोक्तोऽतिप्रसङ्गः। यदि भिन्नविषयकत्वमुच्यते तदाऽतिप्रसङ्गो भवत्येव परं यदि समानविषयकत्वं तदाऽतिप्रसङ्गो न भवत्येवेति / तत्प्रतिक्षेपकरण(णं) युक्तम् / ननु साध्यसंशयस्य नानुमानाङ्गता घनगर्जिते संशयाभावेऽप्यनुमितेर्दर्शनात् इत्यभिप्रायेणाह - यद्वेति मूलम् / ननु साध्यसंशयोऽनुमानाङ्गं नोच्यते किन्तु संशययोग्यता / तथा च धनगर्जितस्थले संशययोग्यताऽस्ति इति कृत्वाऽनुमानं जायते इत्यर्थः / पुनः केवलान्वयिस्थले साध्याभावाप्रसिद्धिः /