________________ केवलान्वय्यनुमाननिरूपणम् 159 न च प्रमेयत्वं प्रमाविषयत्वं तच्च न केवलान्वयि प्रमाविषयत्वस्य चाननुगमादिति वाच्यम् / प्रमात्वमेव हि परम्परासम्बन्धात् घटादौ प्रमेयत्वमनुगतं प्रमाजातीयविषयत्वं वा। तथापि केवलान्वयिनि सन्देहाभावात् कथमनुमितिः, प्रमेयत्वमत्र वर्तते न वेति संशयश्चनप्रमेयपक्षकः किन्तु प्रमेयत्वपक्षकोभिन्नविषयकः, प्रमेयत्वपक्षके चास्तित्वसाध्यस्यान्वय-व्यतिरेकित्वंतथा चघट: प्रमेयोनवेति संशयो मृग्यते सचनास्त्येव।अथ पक्ष: साध्यवान् न वा पक्षे साध्यमस्ति न वेति संशयौ समानविषयकावेव तदस्यास्त्यस्मिन्निति मतुपोविधानादिति चेत्।न। विशेषण-विशेष्यभावभेदेनार्थभेदात्। मैवम् / य एव हि संशय: पक्षे साध्यसिद्धिविरोधी स एवानुमानाङ्गमावश्यकत्वात् लाघवाच्च न तु समानविषयकत्वमपि तत्र तन्त्रं गौरवात् प्रमेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगि न वेति संशयश्च घट प्रमेय इति साध्यसिद्धिविरोधी भवत्येव / यद्वा संशययोग्यतैवानुमानाङ्गं संशयस्य तदानीं विनाशात्। न चेति मूलम् / प्रमाविषयत्वरूपं प्रमेयत्वं केवलान्वयी (यि) न भवति / कुतः ? यद्यपि वृत्तिमदत्यन्ताभावाप्रतियोग्यस्ति तथापि नैतत् केवलान्वयि / तत्र दूषणमाह - प्रमाविषयत्वस्येति / घटप्रमादिरूपेण प्रमा अननुमता।तथा प्रमाविषयत्वमपिघटप्रमाविषयत्वादिनाअननुगतमित्याशङ्कार्थः। प्रमायाविषयस्य चाननुगमेऽपि प्रमाघटितपरम्परासम्बन्धेन प्रमात्वमेव प्रमेयत्वम् / प्रमा-विषययोः विषयविषयिभावलक्षणः सम्बन्धः / तत्र प्रमायां प्रमात्वमनुगतमस्ति / तदेव प्रमाघटितसम्बन्धेन विषयेष्वपि प्रमात्वमस्ति। तदेव प्रमात्वमेव प्रमेयत्वमित्यनुगतमेव। पक्षान्तरमाह - प्रमाजातीयेति।अथवाप्रमा एका विवक्षिता घटादिप्रमा। तज्जातीयविषयि(य)त्वमुपाधिः पटादिप्रमासु वर्तत इति नाननुगमः / शङ्कते - तथापीति मूलम् / केवलान्वयिनि कथमनुमितिः सन्देहाभावादिति हेतोः ? सन्देहश्च न सम्भवति / कोघः प्रसिद्धे प्रमेयत्वाभावरूपायरकोप्रप्रसिद्धे / न च प्रमेयत्वम(त्र) वर्तते / [77 A] न चेति सन्देहो वाच्यमिति। अयं तु सन्देहः प्रमेयत्व-तदभावकोटिको न भवति किन्तु एतद्वृत्तित्व-एतद्वृत्तित्वाभावकोटिक(क:) प्रमेयत्वपक्षक एव भिन्नविषयकश्च / यथा घटः प्रमेय इति * अनुमाने घटः पक्षः प्रमेयत्वं साध्यम्। अत्र साध्यसन्देहो भिन्नविषयक(कः), भिन्नौ एतद्वृत्तित्व-एतद्वृत्तित्वाभावी तावेव साध्यसन्देहविषयौ।साध्यं वाऽनुमाने प्रमेयत्वमित्यतो भिन्नविषयकता। यदि प्रमेयत्वरूपसाध्यस्य विषयौ प्रमेयत्व-प्रमेयत्वाभावौ विषयौ सन्देहस्य भवतः तदा समीचीनं स्यादित्यर्थः / ननु प्रमेयमेतद्वृत्ति इति सन्देहे एतद्वृत्तित्वं विषयोभवति। तदेव साध्यीक्रियताम् इत्यत आह - प्रमेयत्वेति।प्रमेयत्वपक्षकमस्तित्वसाध(ध्य)कं 1. वाक्यमिदमस्पष्टम्।