SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 158 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वृत्तिमान् तदन्यसम्बन्धावच्छिन्नाभावः केवलान्वयी। यथा घटत्वं समवायेन सम्बन्धेन वर्तते तदन्यः सम्बन्धः संयोगः, तेनघटत्वात्यन्ताभावः केवलान्वयी। अव्याप्तीति।यदि मया असिद्धिवारकतोच्येततदाव्यर्थविशेषणत्वशङ्का भवेत्। अव्याप्तिरसिद्धिरेवेति। किन्तु अप्रसिद्धिवारकत्वेन सार्थकं वृत्तिमत्पदम्। वस्तुतइति।इन्द्रियलक्षणं प्रत्यक्षखण्डे यथा शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकरणमनःसंयोगाश्रयत्वात् इति अत्र शब्देतरपदमसिद्धिवारणाय / उद्भूतविशेषगुणानाश्रयत्वं श्रोत्रेन्द्रिये नास्ति / यत उद्भूतविशेषगुणो यः शब्दः तदाश्रयत्वं श्रोत्रेन्द्रियस्य वर्तते / अतः शब्देतरपदमसिद्धिवारकमपि यथा सार्थकं तथा अत्रापि प्रकृते वृत्तिमत्पदमसिद्धिवारकत्वेनापि सार्थकम् इति न दोषः / वयं तु ब्रूमः इति / अन्योन्याभावप्रतियोगिताया योऽनवच्छेदको धर्मः सकेवलान्वयी, यथाप्रमेयत्वम्। इदमन्योन्याभावप्रतियोगितानवच्छेदकं भवतिइदं प्रमेयवद्भिन्नमिति प्रतीत्या। ननु संयोगात्यन्ताभावस्य केवलान्वयित्वं [76 B] न स्यात्, अन्योन्याभावप्रतियोगितानवच्छेदकत्वाभावात्। यतोऽन्योन्याभावप्रतियोगितावच्छेदकत्वमेव / मूले वृक्षः कपिसंयोगवान् नाग्रे इति प्रतीत्या संयोगवदन्योन्याभावोऽपि वृक्षे विद्यते संयोगात्यन्ताभाववदन्योन्याभावोऽपि वृक्षे वर्तते / संयोगवदन्योन्याभावोऽपि वर्तते / तत्प्रतियोगितावच्छेदकत्वं संयोगात्यन्ताभावेऽपि वर्तते इति कृत्वाअव्याप्तिः इत्यस्वरसेनाह - अन्योन्याभावो व्याप्यवृत्तिरेवेति। संयोगवति वृक्षे संयोगवद्भेदो नास्ति संयोगाभाववति भिन्ने संयोगवद्भेदो नास्ति इति कृत्वा संयोगात्यन्ताभावेऽव्याप्तिर्नास्ति इति भावार्थः / ननु अयं प्रमेयो घटत्वात् इति अत्राव्याप्तिः / तत्र घटत्वरूपलिङ्गे केवलान्वयित्वमिति / अन्योन्याभावप्रतियोगितानवच्छेदकधर्मवत्त्वं नास्ति यतो घटो न भवतीति प्रतीत्या अन्योन्याभावप्रतियोगितावच्छेदकत्वमेव वर्तते घटत्वे इति कृत्वा व्याप्तिरित्यत आह - एतच्चेति / अन्योन्याभावप्रतियोगितानवच्छेदकत्वं केवलान्वयिधर्मस्य लक्षणं न तु केवलान्वयिलिङ्गस्य / लिङ्गे पुनः केवलान्वयिधर्मसाध्यकत्वमेव लक्षणम् / तच्च घटत्वेऽप्यस्ति / प्रमेयत्वरूपं यत् साध्यं तद्धर्मकत्वं घटत्वस्याप्यस्तीति / ननु दशाविशेषे कदाचित् धूमस्यापि व्यतिरेकव्याप्त्यस्फुर्तिदशायां केवलान्वयित्वात् तत्र व्याप्तिलक्षणगमनात् अतस्तत्रान्योन्याभावप्रतियोगितावच्छेदकत्वात् इति कृत्वा अव्याप्तिरित्यत आह - सर्वसाधारण इति / सर्वसाधारणो योऽन्वयी सर्वदा योऽन्वयिव्याप्तिमान् तस्यैव लक्ष्यता / तथा च कादाचित्कान्वयिधूमेनाव्याप्तिरित्यर्थः / ननु अयं घटः प्रमेयत्वात् इति अत्र निरुक्तकेवलान्वयिलक्षणासम्भवेनाव्याप्तिः स्यात् इत्यत आह - सदनुमानेति। अयं लिङ्गस्य विभागः सदनुमानस्येव। तथा च अयं घटः प्रमेयत्वात् इतिअनुमानाभासस्य त्रितयबहिर्भावेऽपिन काऽपि क्षतिः। वृत्तिमानिति मूलमिति। घटात्यन्ताभावे एव तादृशस्तदप्रतियोगित्वमाकाशात्यन्ताभावस्येति / तथेति टीका / आदिपदेन दिक्कालयोरप्यत्यन्ताभावः केवलान्वयी। अत्र हेतुमाह - वृत्तिमत इति / घटाद्यत्यन्ताभावादेरप्रतियोगित्वात् इत्यर्थः / 1. व्यभिचारित्वात् / इति प्रणौ टिप्पणी।
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy