________________ केवलान्वय्यनुमाननिरूपणम् 157 भिद्यते ज्ञानात् अत्रेदं व्यतिरेक्यनुमानं न स्यात् / कथमित्यत आह - विषयेति। विषयविषयिभावसम्बन्धेन ज्ञानं सर्वत्र विद्यते इतिकृत्वा ज्ञानाभाव(वा)प्रसिद्धः सर्वत्रापिज्ञानविषयत्वात्, परंसमवायेन ज्ञानाभावः प्रसिद्धोऽस्ति / तथा प्रकृतेऽपि भूतलादौ संयोगसम्बन्धेन वर्तते तथापि समवायेन सम्बन्धेन तदभाव: आकाशात्यन्ताभावः केवलान्वयीभविष्यत्येव।अथाकाशात्यन्ताभावे स्ववृत्तिविरोधिवृत्तेः प्रसिद्धिमानयति - येनेति। येन सम्बन्धेनाकाशाभावः तेनैव सम्बन्धेनाकाशस्य यत् सत्त्वं तत् आकाशात्यन्ताभावविरोधिसंयोगेन सम्बन्धेन आकाश एवास्ति परं तदत्यन्ताभावो नास्ति इति संयोगसम्बन्धेन विरोधः / उपसंहरति - तस्मादिति। व्यधिकरणधर्मः शशीयत्वादिः / सप्रतियोगितावच्छेदको भूत्वाऽभावभेदको न भवति किन्तु व्यधिकरणधर्मोऽप्यारोप्यसम्बन्धो भूत्वा भेदको भवति इति न व्यधिकरणधर्मावच्छिन्नाभावाऽभ्युपगमः / तथा च समवायसम्बन्धावच्छिन्नाकाशात्यन्ताभावः केवलान्वयीत्यर्थः / एवमिति टीका / पूर्वमुक्तं समवायसम्बन्धावच्छिन्नाकाशात्यन्ताभावः केवलान्वयी सर्वत्र विद्यमानत्वात् इति / तथा च [येन] सम्बन्धेन यस्य वृत्तिः तदन्येन सम्बन्धेन तदभावः केवलान्वयी] यथा समवायेन घटत्वं वर्तते इति संयोगसम्बन्धेन घटत्वात्यन्ताभावः केवलान्वयीति। एवं समवायसम्बन्धेन परमाएघ(ण्व)त्यन्ताभावः केवलान्वयी। [76 A] तत्त्वेनेति टीका / समवायसम्बन्धेनेत्यर्थः / आशङ्कते - नन्विति। येनेत्याधुक्तव्याप्त्यङ्गीकारे प्रमेयत्वात्यन्ताभावस्य संयोगेन समवायेन वा केवलान्वयित्वे पूर्वोक्तव्याप्तिलक्षणे अव्यभिचराितात्वरूपे साध्याभावप्रसिद्धिनिबन्धना केवलान्वयिनी(नि) अव्याप्तिर्दत्ता सा न सञ्जाघटीति साध्यात्यन्ताभावस्यानेन क्रमेण प्रसिद्धेरप्रतिबन्धात् इत्याशङ्कार्थः / समाधत्ते - व्याप्तीति।व्याप्तिशरीरे साध्यात्यन्ताभाववदवृत्तित्वरूपसाध्यतावच्छेदाकासम्बन्धावच्छिन्नेत्यपि विशेषणीयम्।अव्यभिचरितत्वरूपव्याप्तिलक्षणे साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यात्यन्ताभाववद्वृत्तित्वम् अव्यभिचरितत्वमिति सम्पूर्ण लक्षणम्। अन्यथा एवं चेन्नोच्यते पर्वतो वह्रिमान् धूमात् इति प्रसिद्धानुमानेऽपि व्यभिचरितत्वं स्यात् / कथम् ? समवायसम्बन्धेन वह्नयभाववति महानसे धूमस्य वृत्तेर्व्यभिचारात् / साध्यतावच्छेदकसम्बन्धावच्छिन्नेत्यादि विशेषणे दत्ते न भवति। यतस्तत्र समवायेन न साध्यता किन्तु संयोगेनैव साध्यता। तथा च तत्र साध्यतावच्छेदकसम्बन्धः संयोगः तेन वह्नयभाववति हृदे धूमस्याप्यवृत्तेः प्रसिद्धानुमाने धूमस्य अव्यभिचरितत्वं निष्प्रत्यूहम् / तथा च प्रकृते केवलान्वयिस्थले पूर्वोक्तं साध्याभावप्रसिद्धिनिबन्धनमव्याप्तिकथनम् उपपद्यते एव / साध्यतावच्छेदकसम्बन्धः केवलान्वयिस्थलेस्वरूपसम्बन्धः, तेन सम्बन्धेनप्रेमयत्वाभावस्याप्रसिद्धत्वात् अव्याप्तिसम्भव एव। एवमिति टीका।ननु वृत्तिमत्पदमप्रसिद्धिवारकत्वात् व्यर्थम् व्याप्तिग्रहोपयिकस्यैव विशेषणस्य सार्थकत्वादित्यत आह - एवमिति। मया वृत्तिमत्पदस्य असिद्धिवारकता नोच्यते येन व्यर्थविशेषणत्वमाशङ्कयेत। किन्तु अप्रसिद्धिवारकमेव वृत्तिमत्पदमुच्यते / यतोऽत्यन्ताभाव(वा)प्रतियोगित्वं कुत्रापि नास्ति सर्वस्यापि केनापि] सम्बन्धेन अत्यन्ताभावप्रतियोगित्वात् इत्यप्रसिद्धिः स्यात् तद्वारणाय वृत्तिमत्पदम् / तथा च येन सम्बन्धेन यो