SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 156 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका समवायसम्बन्धेनाकाशस्य सर्वत्रात्यन्ताभावस्य सत्त्वात् अत आकाशात्यन्ताभावः केवलान्वयी। तं दूषयति - व्यधिकरणेत्वे(णे त्वि)ति / समवेतत्वेन यदि आकाशात्यन्ताभावः केवलान्वयी तदा व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावोऽङ्गीकरणीयः यस्मात् समवेतत्वं व्यधिकरणो धर्मः आकाशे नास्तीति महाशङ्कार्थः / दूषयति - इदानीमिति / भूतले इदानीमाकाश: इत्याधाराधेयताविषयिणी प्रतीतिरेव नास्तीति येनाकाशस्य संयोगेन भूतलादौ वृत्तिः स्यात् / तथा चेति / तदवच्छिन्नाभावः संयोगित्वावच्छिन्नाभावः / . तथा च संयोगित्वेनाकाशात्यन्ताभावः केवलान्वयी। तथा चाकाशस्य संयोगित्वं प्रसिद्धम् / तदवच्छिन्नाभावः समानाधिकरणधर्मावच्छिन्नाभाव एव, न व्यधिकरणधर्मावच्छिन्नाभावः / अत: आकाशसंयोगो भूतलादौ वर्तते परमाकाशो न वर्तते अङ्गुलीद्वयसंयोगवत् / अन्ये तु इति मिश्राः / संयोगेन भूतलादौ वर्तताम् तथाप्याकाशात्यन्ताभावस्य समवायसम्बन्धावच्छिन्नाभावस्य केवलान्वयित्वं भविष्यत्येव। ननु यदि समवाय-. सम्बन्धावच्छिन्नाकाशात्यन्ताभावस्य केवलान्वयित्वमुच्यते तदा व्यधिकरणधर्मावच्छिन्नात्यन्ताभावस्वीकार: स्यात् इत्याशङ्कते - न चैवमिति / समाधत्ते - आकाशत्वावच्छिन्नेति / व्यधिकरणधर्मावच्छिन्नाभावो नाङ्गीक्रियते परं व्यधिकरणसम्बन्धावच्छिन्नाभावः अङ्गीक्रियते / कथमित्याह - समवायसम्बन्धः आरोप्यसम्बन्धकोऽर्थः / समवायेन सम्बन्धेनाकाशं घटादावारोप्य निषेध्यते, यथा इह समवायेनाकाशं नास्ति इति प्रतीतिः। तथा च समवायसम्बन्धावच्छिन्नाकाशात्यन्ताभावः केवलान्वयी। अतो न कापि क्षतिः। यथा घटस्यैव [75B] चत्वारोऽभावाःप्रागभावादयः। तत्रप्रतियोगितावच्छेदकभेदेनाभावभेदोनास्ति, परमारोप्यसम्बन्धभेदात् / आरोप्यसम्बन्धः प्रागभावे उत्तरकालसम्बन्धः / यथा प्रागभावे उत्तरकालसम्बन्धेन घट: आरोग्य निषेध्यते।ध्वंसे पूर्वकालसम्बन्धेन घटः आरोप्य निषेध्यते / अत्यन्ताभावस्थले संयोगसम्बन्धेनारोप्य घटो निषेध्यते / अन्योन्याभावस्थले तादात्म्यसम्बन्धमभेदसम्बन्धमारोप्यनिषेध्यते। एवं चसर्वत्राभावे आरोप्यसम्बन्धभेदेनाभावभेदः / तथाच प्रकृते आकाशात्यन्ताभावेसमवायसम्बन्धेनाकाशमारोप्य निषेध्यते इति कृत्वासमवायसम्बन्धावच्छिन्नाकाशात्यन्ताभावः केवलान्वयी / शङ्कते - न चेति / आकाशसमवाय एवाप्रसिद्धः, ततः तदप्रसिद्धया कथं समवायसम्बन्धेनाकाशस्यारोप: इतिन चवाच्यम्। सर्वत्रेति।सर्वत्रसम्बन्धोऽप्रसिद्ध एवारोप्यते। वैशिष्ट्यपदेन सम्बन्धो ज्ञेयः। तदेवोपदर्शयति - न हीति। भूतले घटो नास्ति इति अत्र भूतलघटसंयोगप्रसिद्धिर्न मृग्यते किन्तु अप्रसिद्ध एव संयोग आरोप्यते। यथेति। आरोप्यं विशेषणम् आरोप्य(प)विषयो विशेष्यम्, भूतलं विशेषणम् घटो विशेष्यः, तत्प्रसिद्धिर्मग्यते। तदुभयविशेषणविशेष्यसम्बन्धः अप्रसिद्ध एवारोप्यते। यथावेति।अन्योन्याभावे तदुभयप्रसिद्धिमात्रेण आरोप्यारोपविषयप्रसिद्धिमात्रेण तदुभयतादात्म्यमप्रसिद्धमेवारोप्यते, यथा घटः पटो न भवतीत्यत्र घटपटयोस्तादात्म्यमप्रसिद्धमेवारोप्यते / तथा चारोप्यारोपविषययोः प्रसिद्धिरेव वाच्या न तु तादात्म्यस्यापीति / यदि चेति / यद्वा(दा) आरोप्यसम्बन्धभेदेनाभावभेदो नाङ्गीक्रियते तदा आत्मा इतरेभ्यो
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy