________________ 155 केवलान्वय्यनुमाननिरूपणम् इत्यर्थः ।दूषणान्तरमप्याह - अव्याप्येति।संयोगात्यन्ताभावेऽव्याप्तिश्चस्यात्।समवायेन वृत्तिमान्योऽत्यन्ताभावः संयोगः तदप्रतियोगित्वं संयोगात्यन्ताभावे नास्ति / इति महाशङ्कार्थः / स्ववृत्तीति टीका / वृत्तिमानित्यत्र स्वशब्देन केवलान्वयित्वेन यदभिमतं तस्य या वृत्तिः तद्विरोधिनी या वृत्तिः तद्वान् योऽत्यन्ताभावः तदप्रतियोगित्वं केवलान्वयिन(त्व)मित्यर्थः / यथाऽऽकाशात्यन्ताभावः स्वशब्देनोच्यते, तस्य वृत्तिः तद्विरोधिनी या वृत्तिः सा आकाशस्य वृत्तिर्न सम्भवति / यतः आकाशात्यन्ताभावोऽपि काले वर्तते आकाशोऽपि वर्तते इति कृत्वा आकाशात्यन्ताभावस्य विरोधी आकाशो न भवतीति कृत्वा लक्षणगमनः (न)प्रकार उच्यते। स्ववृत्तिविरोधिवृत्तिमान् यो यो घटस्तद्वृत्तिविरोधिनी या वृत्तिघटात्यन्ताभावस्य वृत्तिस्तद्वान् अभावः घटात्यन्ताभावो भवति, तदप्रतियोगित्वमाकाशात्यन्ताभावेऽपि वर्तते, इति तत्र लक्षणसम्भवात् नाव्याप्तिरिति स्पष्टो भावः / स्ववृत्तिविरोधित्वं चेति / स्वसमानाधिकरणधीविरोधित्वं स्वशब्देन घटः तत्समानाधिकरणधीविरोधित्वं घटात्यन्ताभावे वर्तते / यत्रं घट: तत्र घटात्यन्ताभावो नास्ति, अत्यन्ताभावप्रतियोगित्वात् घटस्य, इति न पूर्वोक्तकेवलान्वयित्वापादनं घटे इति भावः / तथा च स्वसमानाधिकरणधीविरोधी वृत्तिमान् योऽभावः घटात्यन्ताभावः तद्(द)प्रतियोगित्वं घटे नास्ति। ननु संयोगात्यन्ताभावेऽव्याप्तिः। कथम् ? वृत्तिमान् योऽभावः संयोगात्यन्ताभावात्यन्ताभावस्तस्य संयोगात्यन्ताभावस्य प्रतियोगित्वात् / अतोऽत्यन्ताभावाप्रतियोगित्वं नास्तीति अव्याप्तिः इत्यत आह - संयोगादीति / विवक्षितार्थस्तत्र नास्ति / तथाहि स्वशब्देन संयोगात्यन्ताभावस्तद्वृत्तिविरोधिवृत्तिमान् संयोगरूपो न भवति / यत एकत्र संयोगतदत्यन्याभावयोः प्रतीतिः / तथा च स्ववृत्तिविरोधिवृत्तिमान् [75 A] अभावो घटाभावस्तदप्रतियोगित्वं संयोगात्यन्ताभावे वर्तते एवेति नाव्याप्तिः / शङ्कते - नन्विति / एवमिति / यदि वृत्तिपदेन स्ववृत्तिविरोधिवृत्तिमत्त्वं विवक्षितं तदा संयोगोऽपि केवलान्वयी स्यात् / कथम् ? स्वशब्देन संयोगस्तस्य या वृत्तिवृक्षादौ / शङ्कते - न चेदमिति / ननु प्रमेयत्वं केवलान्वयि न स्यात् / कथम् ? प्रमेयवृत्तेविरोधिनी या वृत्तिः सा वृत्तिरप्रसिद्धा / प्रमेयत्व[वृत्तिविरोधिवृत्ति]मदत्यन्ताभावः प्रसिद्धो भवति, तदेवं प्रमेयत्वं(त्व)वृत्तिविरोधिनी वृत्तिः प्रसिद्धा स्यात्, तथा चाव्याप्तिरिति न च वाच्यम्।स्ववृत्तिविरोधिवृत्तिमदत्यन्ताभावप्रतियोगिनो ये घटादयस्तद्भिन्नत्वं विवक्षितं स्वशब्देन / घटस्तद्वृत्तिविरोधिवृत्तिमान् अत्यन्ताभावो घटात्यन्ताभावस्तत्प्रतियोगिनो घटादयस्तद्भिन्नत्वं प्रमेयत्वस्यास्त्येवेति न तत्राव्याप्तिः / आकाशात्यन्ताभावेऽव्याप्ति। शङ्कते - नन्विति। भूतलादौ आकाश एव वर्तते इति कथं तत्र तदत्यन्ताभावोऽतः कथं तदत्यन्ताभावः केवलान्वयीत्याशङ्कार्थः / मध्ये शङ्कते - नचेति / भूतलादौ आकाशं न वर्तते परम् आकाशसंयोगो वर्तते अङ्गुलीद्वयसंयोगवत् इत्याशङ्कार्थः / एवमिति / यदि संयोगस्य द्रव्यवृत्तितानियामकं नोच्यते तदा घटादेरपि भूतलादौ वृत्तिव्यं न स्यात् किन्तु घटसंयोग एव तत्र वर्तते न घट इत्यपि वक्तव्यं स्यात् / नापीति / समवेतत्वेनाकाशात्यन्ताभावः केवलान्वयी /