________________ 154 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका न गुणनाशः / द्वितीये आह - उत्तरकालमिति। गुणनाशप्रागभावोत्तरकालं गुणनाशप्रागभावो यदा नास्ति तदा आश्रयस्य घटस्यैव नाशात् गुणनाशः कुत्र स्थास्यतीति, तस्मान्नाशवृत्तिर्घटे न सम्भवतीति / तथा च प्रतियोगिप्रागभावदेशे गुणनाशात्यन्ताभावाभावान गुणनाशात्यन्ताभावे केवलान्वयित्वापादनम् / नापीति / यदि अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वं तदा आकाशात्यन्ताभावेऽव्याप्तिः, यतः स केवलान्वयी भवति तत्रात्यन्ताभावाप्रतियोगित्वं नास्ति / कथम् ? आकाशात्यन्ताभावाभावः आकाशं (शः) तत्प्रतियोगित्वमेवाकाशात्यन्ताभावस्येति कृत्वाऽत्यन्ताभावाप्रतियोगित्वं नास्तीत्यतिव्या(त्यव्या)प्तिरिति अर्थः / एतदेवाहअभावेति मूलम् / सुकरमाशङ्कते - अभावेति / अभावस्य योऽत्यन्ताभावः स प्रतियोगिरूपो न सम्भवति / यद्यभावात्यन्ताभावस्य प्रतियोगिरूपता तदाऽन्योन्याभावात्यन्ताभावोऽपि प्रतियोगिरूपः स्यात्। तथा च कपाले घटघटान्योन्याभावयोवृत्तिर्न स्यात्, प्रतियोगितदभावयोर्विरोधात् / कपाले घटोऽपि वर्तते घटान्योन्याभावोऽपि वर्तते इत्याशङ्कार्थः / अत्यन्ताभावेति / मया अभावात्यन्ताभावः प्रतियोगिरूप इति नोच्यते किन्तु अत्यन्ताभावात्यन्ताभावः स एव प्रतियोगी उच्यते / अन्योन्याभावात्यन्ताभावः प्रतियोगी न भवति किन्तु प्रतियोगितावच्छेदको धर्मः / तथा च न किञ्चिद्दूषणम्, घटान्योन्याभावात्यन्ताभावो घटत्वम् घटात्यन्ताभावात्यन्ताभावः घटः इति सिद्धमिति मूलार्थः / प्रतियोग्येवेतीति टीका / नन्वत्यन्ताभावात्यन्ताभाव(वः) प्रतियोग्येवेति असङ्गतम् / कुतः ? प्रतियोगिप्रागभावादिरपि अत्यन्ताभावात्यन्ताभावो भवति, यतोऽत्यन्ताभावात्यन्ताभावस्य त्रितयरूपत्वं प्रतियोगितत्प्रागभावतद्ध्वंसरूपत्वम् तथा चात्यन्ताभावात्यन्ताभावः प्रतियोग्येवेत्यवधारणमसङ्गतमित्याशङ्कार्थः / तस्यापीति टीका / घटाात्यन्ताभावा]त्यन्ताभावस्य त्रितयं प्रतियोगिघटः घटध्वंसो घटप्रागभावश्चेति त्रयाणामपि घटात्यन्ताभावात्यन्ताभावत्वात् / प्रतियोगीति टीका। प्रतियोगितावच्छेदकः घटत्वादिः, सएवान्योन्याभावात्यन्ताभावः। तथाच[74B]घटत्व-घटान्योन्याभावयोरेवेति विरोधः यत्र घटत्वं तत्र घटान्योन्याभावो न भवति, परं घट-घटान्योन्याभावयोः न विरोधः कपाले घटोऽपि वर्तते घटान्योन्याभावोऽप्यस्ति। अथ केवलान्वयिधर्मस्य लक्षणमाह - वृत्तिमदिति मूलम् / वृत्तिमान् इति टीका। वृत्तिमान् योऽत्यन्ताभावः घटात्यन्ताभावः तदप्रतियोगित्वमाकाशात्यन्ताभावेऽस्तीति नाव्याप्तिः / शङ्कते - नन्विति। तथाप्याकाशात्यन्ताभावेऽव्याप्तिः / वृत्तिमदत्यन्ताभावाप्रतियोगित्वं नास्ति। इदानीमिदमाकाशमिति प्रत्ययबलात्वृत्तिमान्योऽत्यन्ताभावः आकाशात्यन्ताभावस्याकाशादौवा विवक्षितः। तथा चइदानीमाकाशमिति प्रत्ययबलात् कालिकसम्बन्धेनाकाशस्य वृत्तित्वं न तु संयोगेन समवायेन वा। तथा च संयोगेन समवायेन वा वृत्तिमान् योऽत्यन्ताभावः घटपटरूपोऽत्यन्ताभावः तदप्रतियोगित्वमेवाकाशात्यन्ताभावस्यातो नाव्याप्तिरिति आशङ्कार्थः / इति न च वाच्यमित्यन्वयः / घटादेरिति टीका / संयोगेन समवायेन वृत्तिमान् योऽत्यन्ताभावः पटस्तद्रूपादिरत्यन्ताभावः तदप्रतियोगित्वमेव घटस्येति कृत्वा घटोऽपि केवलान्वयी स्यात् लक्षणस्य सत्त्वात्