________________ केवलान्वय्यनुमाननिरूपणम् 153 प्रागभावो वर्तते तत्र न तदत्यन्ताभावो वर्तते, तथा च नाशस्य प्रागभावो यत्र नाशप्रतियोगिसमानदेशे वर्तते तत्र कथं नाशात्यन्ताभावो वर्तताम् / तर्हि नाशस्य तत्र वृत्तिः स्यादिति चेत् / न / पूर्वं तत्र नाशप्रागभावस्यैव सत्त्वादुत्तरकाले आश्रयस्यैवाभावात् / नाप्याकाशात्यन्ताभावः केवलान्वयी, तस्यापिप्रतियोगिरूपात्यन्ताभावप्रतियोगित्वात् अभावात्यन्ताभावस्यभावत्वात्।अथ अभावात्यन्ताभावोन प्रतियोगिरूपस्तथा सति अन्योन्याभावात्यन्ताभावः प्रतियोगिरूप इति प्रतियोगिसमानदेशोऽन्योन्याभावो न स्यादिति चेत्।न।अत्यन्ताभावात्यन्ताभावः प्रतियोग्येव अन्योन्याभावात्यन्ताभावस्तु प्रतियोगिवृत्तिरसाधारणोधर्म इति। उच्यते।वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्, आकाशात्यन्ताभावो यद्यपि प्रतियोगिरूपात्यन्ताभावप्रतियोगी तथापिस न वृत्तिमान् इति आकाशात्यन्ताभाव एव केवलान्वयी, तथा प्रमेयत्वाभिधेयत्वादि केवलान्वयि वृत्तिमतोऽत्यन्ताभावस्याप्रतियोगित्वात्। न तावदिति मूलम् / अव्याप्यवृत्त्यत्यन्ताभावः केवलान्वयी न सम्भवति / अव्याप्यवृत्तिर्योऽत्यन्ताभावः सकेवलान्वयी न सम्भवति। तत्र हेतुमाह - प्रतियोगीति मूलम्। यत्र वृक्षादौ संयोगात्यन्ताभावस्तत्र संयोगोऽपि वर्तते तत्संयोगप्रतियोगित्वं संयोगात्यन्ताभावेऽपि वर्तते / तथा संयोगात्यन्ताभावस्य अत्यन्ताभावः तत्प्रतियोगित्वमेव संयोगात्यन्ताभावस्य। त्वयाअत्यन्ताभावाप्रतियोगित्वं केवलान्वयिलक्षणंकृतम्, तदव्याप्तमित्यर्थः / नापीतिमूलम्।आश्रयो घटो गुणादी[नाम]। तस्य घटस्य यो नाशः तज्जन्यो योरूपादिनाशः तस्य योऽत्यन्ताभावः स सर्वत्र वर्तते इति कृत्वा सोऽपि केवलन्वयी [74 A] भवतु, वस्तुगत्या स केवलान्वयी न भवति। तस्य सर्वत्र विद्यमानत्वात् केवलान्वयित्वं प्राप्तम्, तत् खण्ड्यते। यत्र हीति मूलम्। भवता यदुक्तं नाशात्यन्ताभावः सर्वत्र वर्तते तदुच्यते - कथम् ? प्रतीयोगी गुणनाशः गुणादिनाशात्यन्ताभावस्य, तत्समवायि(यी) कोऽर्थः ? गुणनाशसमवायी आश्रयो घटः, तद्देशे गुणनाशात्यन्ताभावो नास्ति / यदा गुणनाशप्रागभावो वर्तते तदा गुणनाशात्यन्ताभावो नास्ति।तथा चात्यन्ताभावस्यप्रतियोगिनेवप्रागभावेनापिसह विरोधात्तत्र नाशात्यन्ताभावः कथं भविष्यतीति कृत्वा न तस्य सार्वत्रिकत्वेन केवलान्वयित्वापादनम् / ननु घटे गुणनाशात्यन्ताभावो यदि नास्ति तदा नाशस्य तत्र घटे वृत्तिः स्यादित्याशङ्कते - तहीति / तत्र घटे गुणनाशो वर्तते अत्यन्ताभावाभावात् इत्याशङ्कार्थः / समाधत्ते - पूर्वमिति मूलम्। त्वया गुणनाशस्य वृत्तिः कदापाद्यते-गुणनाशप्रागभावकाले वा गुणनाशप्रागभावोत्तरकाले ? तत्राद्ये दूषणमाह - तत्रेति मूलम् / तत्र घटे गुणनाशप्रागभावस्यैव विद्यमानत्वात्