________________ 152 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावस्याभावः संयोगः, तत्प्रतियोगित्वमेव संयोगात्यन्ताभावेऽस्ति इति आशङ्कते - यदीदमिति टीका। यदा अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वमिदं लक्षणं क्रियते तदा वक्ष्यमाणो यः संयोगात्यन्ताभावः स केवलान्वयी [73 B] न स्यात् / तथा चानेनैव क्रमेणावतारणीयोऽयं ग्रन्थः / ननु लक्ष्ये कः इत्याकाङ्क्षायां न तत्रेत्यादिको ग्रन्थोऽवतारणीयः / तत्र युक्तिमाह - लक्षणेति। लक्षणस्य चेत् प्रश्नः कृतो नास्ति तदा वृत्तिमदत्यन्तेत्यादिलक्षणप्रणयनं विरुद्धम् / यदि लक्ष्यस्यैव सङ्ग्राह्यप्रश्नस्तदा लक्षणप्रणयनमग्रे निरर्थकं स्यादिति केचिद् वदन्ति। तन्नेति। दूषयति - नाप्याश्रयेति। यद्यनेन प्रकारेण ग्रन्थस्यावतारस्तदाऽयं ग्रन्थोऽसङ्गतः स्यात् / नहि अव्याप्यवृत्तिसंयोगात्यन्ताभाववत् आश्रयनाशजन्यगुणनाशात्यन्ताभावोऽपि केवलान्वयित्वेन सङ्ग्राह्योति(ऽस्ति)। असङ्गतत्वमेवोपपदायति।अव्याप्यवृत्तित्वात्यन्ताभावः संयोगात्यन्ताभावो यथा केवलान्वयित्वेन सङ्गृहीतोऽस्ति य(त)था आश्रयनाशजन्यगुणादिनाशात्यन्ताभावः केवलान्वयित्वेन सङ्ग्राहो नास्ति / तस्य लक्ष्यत्वाभावान्नाव्यप्तिरिति कथं साशङ्कते(यते) इति कृत्वा नाप्याश्रयेत्यादिः असङ्गतः स्यात् / मध्ये शङ्कते न चेति। उक्तलक्षणेऽत्यन्ताभावाप्रतियोगित्वे संयोगात्यन्ताभावेऽव्याप्तिरेव द्रष्टव्या, परम् आश्रयानाशाजन्यगुणादिनाशात्यन्ताभावे ति(तु) (न) भवति इत्यभिप्रायेण नापीति] तस्य ग्रन्थस्यावतारः इत्याशङ्कार्थः / लक्षणं दूषयितुरिति।येनात्यन्ताभावाप्रतियोगित्वं लक्षणं दूष्यते तस्याभिप्रायोहि संयोगात्यन्ताभावेऽव्याप्तिरेव न तु आश्रयनाशजन्यगुणादिनाशात्यन्ताभावेऽतिव्याप्तिरिति ग्रन्थस्य तात्पर्यम् / उक्ते इति मदुक्ते / नैव [इति]। यद्धर्मसाध्यकं लिङ्गं तद्धर्म निरूपयतीत्यर्थः इत्युक्ते नैवेत्यर्थः / ननु यदि धर्म एव निरूपयितुं प्रतिज्ञातस्तदा वृत्तिमदित्यादिसिद्धान्ते लक्षणकरणं विरुद्धमापद्यते इतिशङ्कते - नवेति टीका।वृत्तिमदित्यादि केवलान्वयिलक्षणम्, न तुअत्यन्ताभावाप्रतियोगित्वमात्रम्।कुतः ? संयोगात्यन्ताभावेऽव्याप्तिः स्यात्। तथा च वृत्तिमदित्यादिलक्षणकरणे संयोगात्यन्ताभावः आकाशात्यन्ताभावः केवलान्वय्येव, सर्वत्र वृत्तिमदत्यन्ताभावाप्रतियोगित्वमस्तीति नोक्तदोषो भवेत् संयोगात्यन्ताभावेऽव्याप्तिलक्षणो दोषो न स्यादित्यभिप्रायेण तत्प्रणयनात् वृत्तिमदित्यादिप्रणयनात् / ननु यदि अव्याप्तिवारणार्थं वृत्तिमदित्यादिलक्षणं क्रियते तदा तेनापि संयोगात्यन्ताभावे नाव्याप्तिपरिहारः / संयोगात्यन्ताभावे वृत्तिमदत्यन्ताभावाप्रतियोगित्वं कथम् ?, यतः वृत्तिमान् संयोगात्यन्ताभावः तत्प्रतियोगित्वात् संयोगात्यन्ताभावस्य। तथा चाव्याप्तिस्तदवस्थैवेति। यथेति। वृत्तिमदित्यादिसिद्धान्तलक्षणे न यथा अव्याप्यवृत्त्यत्यन्ताभावसङ्ग्रहस्तथा अग्रे लक्षणं वक्ष्यत इत्यर्थः। तत्रनतावदव्याप्यवृत्त्यत्यन्ताभावः केवलान्वयी, तस्य प्रतियोग्यवच्छिन्नेऽप्यत्यन्ताभावात् अत्यन्ताभावाप्रतियोगिनश्च केवलान्वयित्वात् / नाप्याश्रयनाशजन्यगुणनाशात्यन्ताभावः तस्य नाशस्य सर्वत्रात्यन्ताभावादिति वाच्यम् / यत्र हि प्रतियोगि