________________ 151 केवलान्वय्यनुमाननिरूपणम् शब्दशक्तिविषयत्वं नास्ति तदा कथमनेन विपक्षपदेनाभिधानमिति विरोधः / अभिधेयत्वस्येति टीका / अभिधेयत्वं नामशब्दशक्तिविषयत्वम्, तस्य न विपक्षः। तत्र हेतुमाह - आकाशत्वादेरपि[इति]। [73A]आकाशपदेनाशक्यमपि आकाशत्वादिकं तद्वस्तुपदशक्यं भवत्येव / तथा च यद्यपि आकाशत्वम् आकाशपदशक्यं न भवति तथापि वस्त्वादिपदशक्यं भवत्येव / तथा विपक्षो यस्त्वया वाच्यस्तत्रान्ततो वस्त्वादिपदशक्तिविषयत्वं भविष्यति। तथा च विपक्षत्वं तस्य न सम्भवति, अभिधेयं तु वस्त्ववेत्यर्थः / अभिधानेति। यदि केनचित् पदेन तदुच्यते तदा तस्याभिधेयत्वमेव कथम् ?, तस्यानभिधेयत्वमनभिधान इति / यदि अभिधेयत्वाभाववान् पदशक्तिविषयो न भवति तदा सवस्तुपदेनाप्यभिधातुं न शक्यते अलीकत्वात्शशशृङ्गवत्, अवस्तुत्वादनभिधेय इत्यर्थः / वस्तुपदेनाप्यभिधेयो न स्यात् इति भावः / पदाशक्यते(ता)पीति। यद्यपि विपक्षे पदस्य शक्ति स्ति तथापि पदजन्यज्ञानविषयत्वमस्त्येव, पदेन तु तद्विषयकं ज्ञानं जन्यत एव / तथा च वस्तुत्वं विपक्षमपीदृशाभावविषयत्वं भविष्यतीत्याभासार्थः। अथेतिमूलम्।यद्यप्यभिधेयविपक्षोऽनभिधेयो भवति तथापि विपक्षपदस्य तत्र(त्रा)शक्यभावेऽपि पदजन्यज्ञानविषयत्वं वर्तत एवेत्यर्थः / अभिधेयत्वविपक्षं द्रढयति - अभिधेयत्वमिति मूलम्।उक्तेति टीका। यद्यपि अभिधेयो न भवतिपदाशक्यत्वात् तथापिपदजन्यज्ञानविषयत्वेन विपक्षत्वं भविष्यति इति व्याघातनिरस्ते अनुमानतोऽपि विपक्षत्वं साधयति इत्यर्थः / अन्यथेति टीका। यदि व्याघातमनिरस्यैव विपक्षत्वमनुमानेन साध्यते तदा अनुमानं बाधितं स्यादित्यर्थः / अनुमानं दूषयति - व्यावृत्तत्वस्येति मूलम् / व्यावृत्तत्वं साध्यं कृतं यत् तत् कुतोऽपि व्यावृत्तं न वा ? अत्र द्वितीये न व्यावृत्तं चेत् तदा तदेव केवलान्वयीति, एतदेवाह - धर्मत्वस्येति मूलम् / धर्मत्वं व्यावृत्तत्वे वर्तते, परं व्यावृत्तत्वं नास्ति यतस्ततो व्यावृत्तत्वं व्यावृत्तमित्यर्थः / एवमिति / अभिधेयत्वमत्यन्ताभावप्रतियोगिधर्मत्वात् गोत्ववत् / अत्रापि अत्यन्ताभावप्रतियोगित्वम् अत्यन्ताभावप्रतियोगिभवति वानवा? द्वितीये अत्यन्ताभावप्रतियोगित्वस्यैव केवलान्वयित्वमागतम्, तत्रैव व्यभिचारः न प्रथमः (मे)। अत्यन्तामावप्रतियोगित्वम् अत्यन्ताभावप्रतियोगि चेत् तदा यदृत्ति अत्यन्ताभावप्रतियोग्यत्यन्ताभावप्रतियोगित्वंतत्रधर्मत्वमस्ति, अत्यन्ताभावप्रतियोगित्वंतावद्भिन्नमिति कृत्वा नव्यभिचारः / अनुमानं तु ईदृशम् - व्यावृत्तत्वं कुतोऽपि व्यावृत्तम् धर्मत्वात् इत्यत्र कुतोऽपि व्यावृत्तत्वरूपं यत् तस्याभावः कुत्रापि नास्ति इति कृत्वा तत्र साध्यमपि वर्तते इति न व्यभिचारः इत्याशङ्कार्थः / अनुगतेति। यथा अयं गौरिति प्रतीतिबलेनानुगतगोत्वं सिद्धयति तथा प्रकृतेऽपि व्यावृत्तं व्यावृत्तमित्यनुगतप्रतीतिबलेन व्यावृत्तत्वमप्येकमेवेति व्यभिचारववे(? व्यभिचारवारणाये)त्यर्थः / यद्धर्मेति टीका / केवलान्वयि साध्यं धर्मो यस्य तं धर्म निरूपयति / मतान्तरमुपन्यस्यति - यत्त्विति टीका / उक्तप्रमाणेति / अत्यन्ताभावप्रतियोगित्वस्येत्यादिना अत्यन्ताभावाप्रतियोगित्वं केवलान्वयिधर्मलक्षणं तवाभिमतम्। तथा चाव्याप्तिः संयोगात्यन्ताभावे भवति, संयोगात्यन्ताभावः केवलान्वयी भवति सर्वत्र संयोगात्यन्ताभावस्य विद्यमानत्वात् / संयोगात्यन्ता