________________ | केवलान्वय्यनुमाननिरूपणम्। ... तच्चानुमानं त्रिविधं केवलान्वयि-केवलव्यतिरेकि-अन्वयव्यतिरेकिभेदात् / तत्रासद्विपक्षं केवलान्वयि, तथाहि केवलान्वयिनोऽभिधेयत्वस्य नविपक्ष: अभिधानेऽनभिधाने च विपक्षत्वव्याघातात् / अथ यथा आकाशशब्दाच्छब्दाश्रयत्वमनभिधेयमप्युपतिष्ठते, तथाभिधेत्वविपक्षस्यानभिधेयत्वेऽपिपदादुपस्थिति: स्यात्, एवं चाभिधेयत्वं कुतोऽपिव्यावृत्तं धर्मत्वात्गोत्ववदिति चेत्।न, व्यावृत्तत्वस्याव्यावृत्तत्वेव्यावृत्तत्वमेव केवलान्वयि, व्यावृत्तत्वे यत एव व्यावृत्तं व्यावृत्तत्वं तदेव केवलान्वयीति धर्मत्वस्यानैकान्तिकत्वात्, एवमत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावाप्रतियोगित्वे अत्यन्ताभावप्रतियोगित्वमेव केवलान्वयि, अत्यन्ताभावप्रतियोगित्वे यनिष्ठात्यन्ताभावप्रतियोग्यत्यन्ताभावप्रतियोगित्वंतदेवकेवलान्वयि।नचात्यन्ताभावप्रतियोगित्वं व्यावृत्तत्वं च नानेति वाच्यम् / अनुगतप्रतीतिबलेन गोत्ववत् तयोः सिद्धेः / ।केवलान्वय्यनुमाननिरूपणम्। अथ व्याप्तिविशिष्टपक्षधर्मजन्यं ज्ञानमनुमितिः, तत्करणम् अनुमितिरि(अनुमानमि)ति सिद्धम् / तत्कतिविधमितिप्रसङ्गसङ्गत्याह - तच्चेति। प्रकृते यथाश्रुते वक्ष्यमाणानां ज्ञानभेदानामनुमानेऽसम्भवात् अन्यथा व्याचष्टे - अनुमानविषयीभूतमित्यर्थः। तथा चपरामर्शस्य त्रिविधत्वं न सम्भवति इति कृत्वा अनुमानविषयीभूतं लिङ्गमित्यर्थः। वक्ष्यमाणेति।अयं घटः प्रमेयत्वात् अत्र यद्यपि केवलान्वयिलिङ्गत्वमस्ति तथापिनायं केवलान्वयीतिसाध्याभावः (वे) सत्त्वात् इत्यन्यथा व्याख्यातम् - केवलान्वयिसाधकं लिङ्गं केवलान्वयीति तात्पर्यमिति / असद्विपक्षमिति। अस्यापि केवलान्वयिधर्मसाधकत्वे तात्पर्यम्। यथाश्रुतदूषणमाह - सिद्धीति। विपक्षः सिद्धो वा असिद्धो वा ? यदि सिद्धस्तदा तस्याभावो न सम्भवति। असिद्धः चेत् तदा कस्याभावः प्रतियोग्यनिरूपणात् इति कृत्वा सिद्धयसिद्धिव्याघातभिया यत्र केवलान्वयिधर्मस्य साध्यता तत्रैव केवलान्वयितेति ज्ञेयम् / अथ केवलान्वयिनः अभिधेयस्य विपक्षं शङ्कते - अभिधेयत्वस्येति।अभिधेयत्वस्ययो विपक्षःसअभिधेयोऽनभिधेयो वा ? तथा स विपक्षश्चेत् अभिधेयस्तदा विपक्षत्वं बाधितम्, तत्राप्यभिधेयस्य विद्यमानत्वात् / अनभिधेयश्चेत् तदा विपक्षः सर्वथा न सम्भवति। कथम् ? अलीकत्वात् शशशृङ्गवत् / अयमर्थः - यदि तत्राभिधेयत्वाभाववति