________________ परामर्शनिरूपणम् 149 प्रमाणम्, तत्शङ्कयाऽप्यनुमितिविलम्बो मुहूर्तमानं भवतीति तदपनोदार्थं तर्कादर इति अर्थः / एतदेव विवेचयति - तथा चेति / यथा धूमेन हेतुना वह्रिमता पर्वतेन भवितव्यम्, तथा कुतश्चित् कस्माच्चिदपि पाषाणवत्त्वादितौ(तो) वह्नयभाववताऽपि पर्वतेन भवितव्यम् इति शङ्का उदेत्येव / तथा च परामर्श विद्यमाने तत् किं वह्नयभावसाधकमिति जिज्ञासाऽपि भवति, सा च जिज्ञासा तर्केणोपनीयते इत्यन्वयः। तर्कमाह - यदीति। इति विषये साध्ये तर्केण परिशुद्धे शङ्का नाऽऽस्कन्देत स(इ)ति शङ्काविरहात् अनुमितिः निष्प्रत्यूहा भवतीति / यत्र चेति यत्र स्वभावादेव शङ्का नोदेति तादृशस्थले तर्कस्य नोपयोगः इति तर्को न व्यापार इति सर्वमवदातम् / / इति परामर्शप्रकाशिका।