SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 148 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका करणान्तरेति / करणान्तरासहकृतमेव मनोजन्यत्वमेव मानसत्वे प्रयोजकम् तच्च प्रकृतेऽस्त्येवेति कृत्वाऽनुमितेर्मानसत्वं स्यात् इत्याशङ्कार्थः / अथ अनुमितेर्मानसाध्यक्षताभावमुपपादयति। करणान्तरात्वाम् अनुमितिकरणान्तरत्वं हिप्रमित्यन्तरकरणत्वमेव।अन्यथाऽतिप्रसङ्गः।सुखादिज्ञाने मानसत्वंनस्यात्करणान्तरासहकृतत्वं मनोजन्यत्वं नास्ति तत्राप्यात्मादीनां सहकारित्वात्, अन्यथाऽऽत्मादीनामपि करणान्तरसहकृतत्वमेव मनस इत्यतिप्रसङ्गः / तथा च करणान्तरासहकृतत्वमित्यस्य कोऽर्थः ? प्रमित्यन्तरे यदसाधारणं करणं तदसमवहितं यन्मनः तत्प्रकारकत्वेन न तस्य परामर्शस्य हेतुत्वमिति न व्यभिचारोद्धारः / अयं भावः - विशेष्यः पर्वतः तत्र विशेषणं धूमः तत्र पर्वतवृत्तित्वं विशेषणमिति न्यायेन यत्रैतादृश एव परामर्शो जातः तत्र वहिव्याप्यधूमवान् इति न जातः तत्र व्याप्तिप्रकाराक]पक्षधर्मताज्ञानस्यानुमितित्वे व्यभिचार इति न तस्य तत्त्वेन हेतुत्वम्, तस्मात् मनः करणम् परामर्शो व्यापारः अनुमितिः फलमित्येवायातमित्यर्थः / विषयेति टीका / ननु मूले पूर्वमुक्तं यत्तु व्यापाराभावात् न परामर्शः करणमिति, तत्र तर्क एव व्यापारो भविष्यतीति / अत आह - व्याप्तिग्राहको विषयपरिशोधकश्च तर्कः परामर्शजन्यो न भवति।व्यापारस्तु स एव भवति यज्जनयित्वैव यं जनयति स एव तस्य व्यापार: सन्निकर्षादिवत्। परामर्शस्तु तर्कंजनयित्वैवानुमितिं जनयतीति नियमो नास्ति। तर्कस्यानुमितिकारणता नास्तीति कृत्वा नपरामर्शव्यापारः सः इतिमूले उक्तम्। परामर्शजन्यः तर्को नभवतीति। अनुमितावेवोपयोगाभावात् तदभावेनैव उपयोगाभावेनैव तर्कस्य परामर्शव्यापारत्वाभावः उपपादनीयः इत्याशङ्कते - नन्विति / मध्ये शङ्कते - न चेति। विरोधिनी या शङ्का यथा धूमः क्वचिद् वह्नि विनापि भविष्यतीति रूपा तन्निवृत्तिः तर्कसाध्येति तद्द्वारा अनुमितिं प्रति उपयोगिता [इति] न च वाच्यम् / परामर्शस्यैवेति। वहिव्याप्यधूमवान् इति परामर्श च सति विरोधिनी शङ्कव नोदेति तस्य परामर्शस्यैव] विशेषदर्शनत्वात्, विरोधिशङ्कानिवृत्तिस्तु परामर्शेनैव क्रियते किं तर्केण ? इत्याशङ्कार्थः / तर्कस्यानुमितावुपयोगमानयन्ति। अत्राहुरिति / परामर्श विद्यमाने या स्वारसिका शङ्का [सा न भवति], या शङ्का अन्याहिता [सा] न(तु) भवति। यथा घटस्य विशेषदर्शने घटोऽयमिति ज्ञाने तस्य स्वारसिका घटविषयिणी शङ्का नोदेति, पर अन्याहिता भवति। तथा प्रकृतेऽप्यना(न्या)हिता शङ्का भविष्यति, इदमेव द्रढयति।कथमिति।यदि विशेषदर्शने विद्यमाने अन्याहिताशङ्का नोदेति तदाप्रामाण्यसंशयेनार्थ:(थ)निश्चये जातेऽपि व्यवसायविषयो घटोऽयमिति ज्ञानं तस्य व्यवसायस्य विषयो घटः तस्य संशयो जायते, स न स्यात् / यतस्तत्रार्थ:(थ)निश्चयो व्यवसायेन जातोऽस्ति तथापि प्रामाण्यसंशयेन अर्थः(र्थ)संशयो भवत्येव / प्रकृतेऽपि दृष्टान्तार्थमानयति / तदिहेति / इह परामर्शस्थले परामर्शानन्तरं स्वारसिका या शङ्का वह्नयभाववान् धूमः इति शङ्का निवर्तते एव, परं बाधकप्रमाणं साध्याभावसाधकं यत् प्रमाणं तत्सन्देहनिबन्धनः साध्याभावसन्देहो भविष्यत्येव। तथा चात्रकिञ्चित् साध्याभावसाधकं भविष्यतीति निबन्धना अन्याहिता साध्याभावशङ्का भविष्यतीति तन्निरासार्थं तर्कोपयोग इति सिद्धान्तरहस्यम्। संमतिमाह - तदुक्तमिति। विरोधिप्रमाणं साध्याभावसाधकं
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy