________________ परामर्शनिरूपणम् 147 अत्रेति। पाक्षेसमाधानंस्वमतेनाह - यथा विशेषणविशेषणज्ञानं वैशिष्ट्यज्ञाने कारणं न भवति।यथा दण्डत्वज्ञानं दण्डी पुरुष इति विशिष्टज्ञानोपक्षीणं कारणं न भवति तथा प्रकृते पूर्वानुभवपक्षतावच्छेदकज्ञानव्याप्तिस्मरणादीनां परामर्शोपक्षीणानां परामर्श जनयित्वा अनुमितौ / अन्यथासिद्धत्वेऽपि हेतुत्वमन्वयव्यतिरेकाभ्यां वा अनुमितिकरणत्वं करणान्तरानुपपत्त्या वा कल्पनीयम्। तदभावादिति। यत्र परामर्शोऽस्ति आप्तवाक्यादिनाऽस्ति तत्र व्याप्तिस्मरणादिव्यतिरकेणानुमिति(णान्वय)व्यतिरेको न स्त इति कृत्वा अन्वयव्यतिरेकाभ्यां करणत्वं व्याप्तिज्ञानादीनामसिद्धम् / नान्त्यः / यदि करणान्तरानुपपत्त्या परामर्शजनकत्वेन तेषां करणत्वं तदा परामर्शजनकत्वेनैव किमर्थं (न] कल्पनीयम् ? लाघवात् परामर्शपूर्ववर्तित्वेनैव करणताऽस्तु, परामर्शजनकत्वे अनन्यथासिद्धत्वनियमादिप्रवेशे गौरवम्।यदिपरामर्शपूर्ववर्तित्वेनेष्टापत्तिः ज्ञानादीनां करणत्वे इष्टापत्तिस्तदा दूषणमाहतथा चेति / तेन रूपेणाकाशादीनामपि करणता स्यात् / ननु आकाशादीनामानन्त्यात् न तद्धेतुतापत्तिरित्यत आह - अवच्छेदकेति। यदि कारणतावच्छेदकं परामर्शपूर्ववर्तित्वं तच्चेल्लघु तदा व्यक्तिगौरवं व्यक्त्यानन्त्यं न दोषायेत्यर्थः / दोषत्व इति / यदि व्यक्तिगौरवदोषः तदा परामर्शपूर्ववर्तित्वापेक्षयाऽपि परामर्शप्रागभावत्वेनैव लाघवात् परामर्शप्रागभावो यत्र तत्त्वेनैव हेतुत्वम्, तथा च परामर्शप्रागभाव एव कारणं न त्वाकाशादिरिति सिद्धम् / ननु परामर्शप्रागभावः परामर्शेनान्यथासिद्ध इति न परामर्शप्रागभावः कारणमित्यत आह - तुल्यमिति / तदा व्याप्तिस्मरणादीनां परामर्शजनकत्वेनान्यथासिद्धत्वात् करणत्वं न स्यादिति तुल्यम्। ननु करणान्तरानुपपत्त्या अन्यथासिद्धमपि प्रागभावस्य करणत्वं कल्पनीयम्, तदा व्याप्तिस्मरणादीनां करणान्तरानुपपत्त्या कारणत्वमस्तु इति तुल्यमित्यर्थः / यस्मिन् पक्षे परामर्शजनकत्वेन करणता तन्मते परामर्शजनकीभूतसंस्कारस्य यथा करणत्वं तद्वत् परामर्शप्रागभावस्यापि करणत्वं भवति। तथा च करणान्तरानुपपत्त्यैव परामर्शप्रागाभावास्यैव हेतुत्वमस्तु न तु परामर्शजनकत्वेन गौरवात् इत्यर्थः / एवं चेति। पूर्वानुभवस्य व्याप्त्यनुभवस्य संस्कारव्यवहितस्य करणत्वं पूर्वं यथाकथञ्चिदानीतम् अथ च व्याप्त्यनुभवस्य संस्कारस्य चेदानीं द्वयोरपि करणत्वमुक्तं तदपि न भवति इत्यत आह - अपर इति। यतः परामर्शप्रागभावत्वेन प्रागभावस्य(वः) करणम् परामर्शो व्यापारः अनुमितिः फलमिति लाघवात् तु [द्वायं न भवति इत्यर्थः / वस्तुत इति / अथ परामर्शप्रागभावस्यापि करणता दूष्यते / परामर्श-प्रागभावस्यान्यथासिद्धतया अनुमितिकरणतायां प्रमाणं नास्ति इति कृत्वा स न तत्र हेतुः / यदि करणान्तरं न सम्भवतीति परामर्शप्रागभावः करणमिति चेत् तदा मन एवानुमितिकरणमास्ताम् किं परामर्शप्रागभावेनेत्याशङ्कतेतथापीति। प्रागभावस्य वा [72A करणत्वं मनसो वा करणत्वमित्यत्र किं विनगिमकमित्याशङ्कार्थः / मनस इति / मनसः अनुमितिकरणत्वं क्लृप्तमस्ति / कथम् ? ज्ञानमात्रं प्रति मनसः करणत्वात् / परामर्शप्रागभावस्तु अनुमितिकरणत्वेन क्लृप्तो नास्तीति न परामर्शप्रागभावः करणमित्यर्थः / किञ्च प्रागभावत्वमुपाधिर्मनस्त्वं जातिरिति कृत्वा तस्य करणत्वे लाघवम् / न चैवम् अनुमितेर्मनोजन्यत्वेन मानसत्वं स्यादिति / तत्र हेतुमाह -