________________ 145 परामर्शनिरूपणम् स्यात्। प्रथमतो धूमो वह्निव्याप्य इति ज्ञानम्, तदनन्तरं वह्रिव्याप्यधूमवान् पर्वत इति विशिष्टज्ञानं [70B] जातम्, तत्र व्याप्तिर्विशेषणम्, तदनन्तरं वह्रिव्याप्यवत्पर्वतवान् अयम् इति विशिष्टवैशिष्ट्यात्मकं प्रत्यक्षरूपं जातम्, तत्र विशिष्टज्ञानजनकं यद् विशेषणज्ञानं व्याप्तिज्ञानं तस्यापि करणत्वं स्यात् / न च एवम्, बहुव्याकुली स्यात् / अनुमितौ व्याप्तिज्ञानवत् पक्षतावच्छेदकं पर्वतत्वं तदपि विशेषणं भवत्येव तस्यापिकरणत्वं स्यात्। मध्ये शङ्कते - नचेति टीका। अनुमितौ अन्यत् करणं न सम्भवतीति व्याप्तिज्ञानमेवागतमित्याशङ्कार्थः। मन एव सर्वत्र करणमस्तु, व्याप्त्यपेक्षया मनसो लाघवात् / क्लृप्तकल्पनयोः मध्ये क्लृप्तं बलवदिति न्यायेन मनसः साधारणत्वेन कारणत्वं क्लृप्तमस्ति इति कृत्वा मनसस्तत्रा(त्र) साधारणत्वेन करणता कल्पनीया। स्मृतीति / मनस्येव किं प्रमाणम् ? तत्राह - स्मृत्यनुमितिकरणत्वम्, तत्साधकं मन एव / अत्र वदन्तीत्यारभ्यैतावत्पर्यन्तं पूर्वपक्षः / तदपर इति। व्याप्तिज्ञानं करणं न किन्तु मन एवेति यदुक्तं तद्रूषयति - अनुमिताविति। यदि अनुमितौ मनः कारणं तदा तस्याः अनुमितेः मानसप्रत्यक्षता स्यात् / किंवत् ? औत्प्रेक्षिकज्ञानवत् / यदा कविः उत्प्रेक्षां करोति तदा इन्द्रियान्तरव्यापारो नास्ति, तदा मनस एव औत्प्रेक्षिकं ज्ञानं जायते, तद्वत् अनुमितेरपि मानसप्रत्यक्षता स्यात् / न चेष्टापत्तिः / तत्राह - करणान्तरेति / करणान्तरासहकृतं यन्मनः तज्जन्यत्वमेव मानसत्वे नियामकम्, तत्र परामर्श एव करणान्तरं भविष्यतीति न च वाच्यम् / न चेति तस्मादिति। यत्र परामर्शजनकज्ञानत्वं तत्रानुमितिकरणता, परामर्शजनकज्ञानत्वं तुपक्षतावच्छेदकज्ञानादीनामप्यस्तीति तेषामपिकरणत्वेनेष्टापत्तिरेवेति नाव्याप्तिः कापि, तथा च विशकलितसहचारादिपदार्थस्मृतिस्थले परामर्शजनकं ज्ञानम् तदपि भवत्येवेति। तदपि लक्ष्यमेवेतिनाव्याप्तिः / परामर्शजनकज्ञानत्वेन करणत्वे दृष्टान्तमाह - मननेति। श्रवणादिरूपायाप्रतिपत्तिः ज्ञानं तासां मननव्यापारकश्रवणत्वेन यथा श्रवणादीनां मुक्तिं प्रति करणता। यथा श्रवणस्य मुक्तिं प्रति करणता मननव्यापारकत्वेन, मननस्य तु तत्त्वसाक्षात्कारव्यापारकत्वेन, तत्त्वसाक्षात्कारस्यापि मिथ्याज्ञानध्वंसव्यापारकत्वेन, तथा चप्रकृतेऽपिपरामर्शजनकज्ञानत्वेन व्याप्तिज्ञानादीनां करणत्वम्।मध्ये शङ्कते-नचेति।यथाविशिष्टवैशिष्ट्यावगाहि ज्ञानं प्रति विशेषणविशेषणज्ञानस्यान्यथासिद्धत्वेन न हेतुत्वम्, विशिष्टवैशिष्टयज्ञानं दण्डी पुरुष इति ज्ञानम्, तत्र विशेषणविशेषणज्ञानं दण्डत्वज्ञानम्, तद् यथा अन्यथासिद्धत्वेन न कारणं तथा प्रकृतेऽपि व्याप्तिज्ञानं - अनुमितिहेतुः परामर्शः तद्धेतुतया तत्कारणतयाऽन्यथासिद्धत्वेन - [न] कारणमित्याशङ्कार्थः / येनेति / यद्रूपावच्छिन्नस्यान्यथासिद्धत्वं तदन्यरूपावच्छिन्नस्य कारणतायां बाधकं नास्ति / यथा कुलालपितृत्वेन घटं प्रति अन्यथासिद्धस्यापि कुलालत्वेन नान्यथासिद्धिः तथा प्रकृतेऽपिआनयति। तदिह प्रकृते व्याप्तिज्ञानस्थले व्याप्तिज्ञानादीनामनुमितिहेतुपरामर्शहेतुत्वेनान्यथासिद्धावपि उक्तरूपेण परामर्शजनकज्ञानत्वेन नान्यथासिद्धिरित्यर्थः / मध्ये शङ्कते - न चेति। कुलालपितृस्थले कुलालपितुः कारणताग्राहको अन्वयव्यतिरेकौ स्तः प्रकृते तु न स्तः इत्याशङ्कार्थः / तदिति / यद्यपि तत्रान्वयव्यतिरेकौ न स्तः तथापि या क्रिया साऽवश्यं [71 A] करणजन्या इति