________________ 144 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका न द्वितीय इत्याह - कर्मादावपीति। कर्मादावपि सहकारसमावाधाने करणत्वं स्यादित्यर्थः। अत्र वदन्ति इति / सिद्धान्तितं परामर्शद्वारा व्याप्तिज्ञानस्य करणत्वम्, तत् खण्डयति / यत्रेति टीका / व्याप्तिशरीरं प्रविष्टाः ये सहचारादिपदार्थाः तेषां यदा विशकलितत्वेन[70A] स्मरणं जातं तत्र विशेष्ये विशेषणं तत्र चविशेषणान्तरमिति न्यायेन विशिष्टवैशिष्ट्यावगाहिपरामर्शो जातः यथापर्वतवृत्तिधूमो वह्निव्याप्योधूमवांश्चायमितिज्ञानाद्य(द)नुमितिः तत्र परामर्शद्वारा व्याप्तिज्ञानस्य कारणता न सम्भवति। कथमिति चेत्, यतः परामर्शपूर्वं व्याप्तिज्ञानस्य असत्त्वात् विशिष्टवैशिष्ट्यावगाहिज्ञानात्पूर्वव्याप्तिज्ञानस्य असिद्धेः / ननु विशकलितव्याप्तिघटकपदार्थस्मरणमेव व्याप्तिज्ञानं भविष्यतीति चेत्, न, व्याप्ति म साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यरूपा तत्र च घटकपदार्थज्ञानं विशिष्टव्याप्तिज्ञानं न भवति तथा च तादृशस्थले परामर्शद्वारा व्याप्तिज्ञानस्य कारणत्वं न सम्भवतीत्यर्थः अयमत्र प्रघट्टकार्थः / साधनसमानाधिकरणप्रतियोगिताऽवच्छेदकात्यन्ताभाव(वा)प्रतियोगीत्यादिपदार्थानां विशकलिततया स्मरणेन कृत्वा विशिष्टवैशिष्ट्यावगाहिज्ञानं परामर्शरूपम्, तेन चानुमितिर्जायते। तत्र च व्याप्तिज्ञानस्य कारणता न सम्भवति तद्घटकानां विशकलितस्मरणादेव विशिष्टवैशिष्टयस्य जातत्वात् / दूषणान्तरमाह - किञ्चेति। यत्रेति।सपर्वतो वह्निव्याप्यधूमवान् इति परामर्शादनुमितिः जायते, तत्र व्याप्तिज्ञानकारणता न सम्भवति / न चेति / स्मृतिकारणीभूतो योऽनुभवः पूर्वानुभवः स एव व्याप्तिज्ञानं भविष्यतीति आशङ्कार्थः / तस्येति / अनुभवेन संस्कारो जन्यते, तेन संस्कारेण च व्याप्तिस्मरणमिति व्यवहितं तत् / ननु व्याप्तिज्ञानस्य कुत्रापि अनुमितिकारणता न स्यात्, परामर्शेन व्यवधनात् इत्यत आह - व्यापारमात्रस्येति / यावान् व्यापारः तस्य करणव्यवधायकत्वायोगात्, तथा च तेन का(क)रणं न व्यवधीयते, करणेन क्रियायां जनयितव्यायां व्यापारो व्यवधायको न भवति, अन्यथा यागस्यापि स्वर्गं प्रति जनकता न स्यात् अपूर्वव्यापारसिद्धयर्था स्वर्गजनकत्वकल्पना भज्येत अपूर्वेण व्यवधानात्। ततो न व्यापारः कुत्रापि व्यवधायक इति सिद्धम् / अनुमित्यन्तर इति / व्याप्तिज्ञानं करणं न भवति यत्रानुमित्यन्तरे व्यभिचारात्, यत्र शाब्दपरामर्शो जातस्तत्र व्याप्तिज्ञानं नास्ति अतस्तदभावेऽप्यनुमितिः / आप्तवाक्याद् वह्निव्याप्यधूमवान् अयम् इतिरूपात् यत्रानुमितिस्त(र्य)त्र च प्रत्यक्षोऽपि परामर्शस्तत्रापि व्याप्तिज्ञानाभावेऽप्यनुमितिरिति व्यभिचारः / अथ व्याप्तिज्ञानस्यान्यथासिद्धत्वमानयति। वस्तुत इति।व्याप्तिज्ञानमन्यथासिद्धम् यत्र स्मृतिरूपपरामर्शो जायते यथा स पर्वतो वह्रिव्याप्यधूमवान् इति, यत्र पूर्वानुभवः परामर्श प्रत्युपक्षीणं(णः) / अन्यत्र क्लृप्तेत्यादिका अन्यथासिद्धिर्व्याप्तिज्ञानस्थलादन्यत्र विशकलितस्थले आप्तवाक्यादिस्थले क्लृप्तनियतपूर्ववर्ती परामर्शः, तेनैवानुमितिसम्भवे तत्सहभूतत्वं परामर्शसहभूतत्वं व्याप्तिज्ञानस्यान्यथासिद्धात्वामिति / अन्यथेति / यदि अन्यथासिद्धत्वं नोच्यते तदा स्मृतिजन्ये प्रत्यभिज्ञानादौ आदिशब्दात् स्मृतिध्वंसस्य पूर्वानुभवस्यापि कारणता स्यात् / पूर्वानुभवेन स्मृतिर्जन्यते तथा च प्रत्यभिज्ञानम्, तत्र पूर्वानुभवोऽन्यथासिद्धः सोऽपि प्रत्यभिज्ञाने कारणं