________________ परामर्शनिरूपणम् 143 किञ्चेति मूलम् / लिङ्गमनुमितिसामान्य प्रति कारणं नोच्यते, धूमभ्रमेण धूलीपटलात् लिङ्गव्यतिरेकेणापि अनुमितिर्जायते इति। न च तदेव लिङ्गमस्तु इति वाच्यम्, तस्य परामर्शाविषयत्वात्। नापीति। लिङ्गं प्रमानुमिति प्रति कारणम्, सा तु भ्रमानुमितिः, इति नोक्तदोषः / परामर्शस्त्वनुमितित्वावच्छेदेन कारणमित्यपि न वाच्यम्, दूषणमाह - तद्विशेषेति / परामर्शविशेषप्रमात्वेनानुमितेः प्रमात्वम् परामर्शविशेषाप्रमात्वेनाप्रमात्वमिति / [69B] यत्सामान्ये यत्सामान्य प्रयोजकं तद्विशेषेतद्विशेषस्य प्रयोजकत्वादितिमूलम्। तथानुमितिसामान्ये परामर्शसामान्य प्रयोजकमिति।[तद्]विशेषेति।अनुमितिविशेषे परामर्शविशेषः कारणम्।तथा चानुमितिप्रमायां परामर्शप्रमा कारणम्, अनुमितिभ्रमं प्रति परामर्शभ्रमस्य कारणत्वम्। तथा च परामर्श एव कारणम्, लिङ्ग(ङ्ग) नेत्यर्थः / पुनर्लिङ्गकरणतावादीशङ्कते - अथेति।प्रमापरामर्शः प्रमानुमितिं प्रति कारणमित्युक्तम्। तत्र परामर्शस्य प्रमात्वं नाम विद्यमानलिङ्गविषयत्वम् / तथा च विद्यमानलिङ्गविषयकपरामर्शस्य कारणत्वमागतम् / ततो विशेषणत्वेन लिङ्गस्यैवलाघवात् कारणत्वमित्याशङ्कार्थः। उत्तरयति - भाविनेति। विद्यमानलिङ्गविषयत्वमात्रं नास्ति। मूलतः भाविनेति। यत्र भावि लिङ्गं यत्र धूमो भावी वर्तते तेनापि लिङ्गेन परामर्शस्य प्रमात्वं सम्भवति, परन्तु अनुमितिपूर्वसमये परामर्शस्य प्रमात्वानुरोधेन लिङ्गस्य विद्यमानत्वं करणत्वं वा न सम्भवति, कथम् ?, अतीतलिङ्गेनापि परामर्शस्य प्रमात्वसिद्धेः / ननु तर्हि यदि लिङ्गस्य विद्यमानत्वमप्यपेक्ष्यते तदा धूमकालीनवह्नयनुमानं कथं स्यादित्यत आह - धूमकालीनेति / यदा यत्र धूमस्तदा तत्र वह्निरिति व्याप्तिज्ञानादेव धूमकालीनवह्नयनुमानं भविष्यति। तथा च लिङ्गस्य विद्यमानता नापेक्ष्यते इति न लिङ्गस्य कारणत्वम्। धूमकालीनवह्रिसिद्धौ प्रकारान्तरमाह - अथवेति।धूमकालंपक्षतावच्छेदकीकृत्य पक्षतावच्छेदकधर्मसामानाधिकरण्यरूपं साध्यं पक्षधर्मताबालात् सिद्धयतीति कृत्वा धूमकालीनो वह्निः सेत्स्यति।धूमकालीनः पर्वतो वह्निमान् धूमात् इत्यत्रधूमकालः पक्षतावच्छेदकः, तेन सह वहेर्यत् सामानाधिकरण्यं तद् अनुमितेः फलम्। तथा चधूमकालीनो वह्निः सिद्धयति / यत्त्विति / केचित् परामर्शस्य कारणतां खण्डयति / परामर्शस्य संस्कारद्वारा करणत्वमाह - चरमकारणत्वेति / अनुभव एव प्रमाणमिति भावः / न च तर्कोऽपि परामर्शस्य व्यापारः इति वाच्यम् / तर्को द्विविधः - एको व्याप्तिग्राहकः अन्यस्तु विषयपरिशोधकः / आद्यस्तु यदि निर्वह्निः स्यात् तदा निधूमः स्यात् / द्वितीयस्तु धूमो यदि वहिँ विना स्यात् तदाऽनुत्पन्नः स्यात् / तथा च एतन्मध्ये परामर्शेण एकोऽपि जनयितुं न शक्यते / तथा च सिद्धं व्याप्तिज्ञानं कारणम्, परामर्शो व्यापारः, अनुमितिः फलमिति। _ यथेतिटीका।धूमकालं पक्षतावच्छेदकीकृत्य पक्षतावच्छेदकधर्मसाध्यसामानाधिकरण्यमनुमितिः फलमिति बाधग्रन्थे वक्ष्यामः / क्रिययेति टीका / यस्य क्रियया सहायोगः असम्बन्धो नास्ति तथा च यस्मिन् सति अवश्यं क्रिया भवति इत्यर्थः / कारकत्वस्येति टीका / कारकमध्ये व्यापारवत्त्वमागतम्। क्रियायोगव्यवच्छेदः कारणमित्युक्तंतत् सर्वदाकदापि वा? नाद्यः इत्यत आह - चक्षुरादीति। चक्षुरादेः सर्वदा क्रियायोगव्यवच्छेदाभावात् /