________________ 142 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अपरम् अतीतभाविस्थले धूमध्वंसप्रागभावयोः सत्त्वात् इत्याशङ्कार्थः / व्यर्थेति। प्रागभावाद्यन्यतमत्वात् इत्यत्र प्रत्येकं प्रागभावादेरेव हेतुत्वेऽन्यतमपदंव्यर्थम्।एवं धूमात्यन्ताभावाभाववत्त्वमित्यत्राप्यत्यन्ताभावाभावपदस्यापि व्यर्थत्वम्। दूषणान्तरमाह - अन्यतमत्वेति मूलम्। अन्यतमत्वादिकमज्ञात्वापि केवलं धूमादिज्ञानेनैवानुमितिः भवति इति न तेषां लिङ्गत्वमित्यर्थः / किञ्चेत्यत्राभासदानायाह - नन्विति। पूर्वधूमप्रागभावे विद्यमानाया व्याप्तेः धूमविशेषणं विना ज्ञानसम्भवात्।यनिष्ठा यन्निरूपिता व्याप्तिः येन विशेषणेन विना ग्रहीतुं न शक्यते तद् विशेषणं सार्थकम् इति न्यायात् / तथा च धूमप्रागभावनिष्ठा व्याप्तिः धूमविशेषणं विना ग्रहीतुं न शक्यते इति कृत्वा तद् विशेषणं धूमविशेषणं सार्थकम् / एवं च धूमप्रागभावस्य गुरुभूतस्यापि अधिकसङ्ग्राहकत्वेन व्यर्थविशेषणत्वं कथम् ? यत्र धूमो नास्ति तत्रापि धूमप्रागभावोऽस्ति इति व्यर्थविशेषणता च तत्र भवति, यत्र गुरुभूतं सङ्कोचकं विशेषणं भवति यथा नीलधूमात् इति अत्र नीलपदं सङ्कोचकं विशेषणं नीलमित्युक्ते धूममात्रं नायाति तद्वत् / धूमात्यन्ताभावाभावेऽपिनव्यर्थविशेषणता, यनिष्ठेतिन्यायात्। धूमात्यन्ताभावाभावनिष्ठाव्याप्तिर्येनधूमविशेषणेन विना ग्रहीतुं न शक्यते एवेात्यार्थः। किञ्च लिङ्गनानुमितिमात्रे हेतुः लिङ्गंविनापिधूलीपटलात् लिङ्गभ्रमेणानुमित्युत्पत्तेः / नापि लिङ्गं प्रमानुमितौ, परामर्शोऽनुमितिमात्रे हेतुः तद्विशेषप्रमात्वाप्रमात्वाभ्यामेवानुमितितथात्वात्, यत्सामान्ये यत्सामान्यं प्रयोजकं तद्विशेषे तद्विशेषस्य प्रयोजकत्वात् / अथ परामर्शस्य प्रमात्वं विद्यमानलिङ्गविषयत्वम्, तथा चायातं लिङ्गस्य प्रमानुमितिहेतुत्वमिति चेत् / न / भाविना भूतेन वा यदाकदाचित् विद्यमानेनापि लिङ्गेन परामर्शप्रमात्वसम्भवान्नानुमितिपूर्वसमये तत्प्रमात्वानुरोधेन लिङ्गस्य सत्त्वं कारणत्वंवा, धूमकालीनवह्नयनुमानं च यदा यत्र धूमस्तदा तत्र वह्निरिति व्याप्तिज्ञानादेव। अथवा धूमकाल: पक्षतावच्छेदकः पक्षतावच्छेदकधर्मसमानाधिकरणं च पक्षधर्मताबलात् साध्यं सिद्धयतीति धूमकालीनवह्निसिद्धिः / यत्तु व्यापाराभावान्न परामर्शः कारणमिति, तत्तथैव, किन्तु व्याप्तिज्ञानं करणम्परामर्शो व्यापारः।नचपरामर्शस्यसंस्कारोव्यापारः, परामर्शस्य च चरमकारणत्वेन संस्कारोत्पादनसमयेऽनुमित्युत्पादनात् / नापि तर्कः, व्याप्तिग्राहकस्य विषयपरिशोधकस्य वा तस्य तदजन्यत्वादिति। // तत्त्वचिन्तामणौ सम्पूर्णोऽयं परामर्शः॥