________________ 141 परामर्शनिरूपणम् धूमध्वंसयोर्लिङ्गत्वं न सम्भवति तयोः सन्देहात्, धूमोऽपि लिङ्गं न सम्भवति तस्यासत्त्वात् / तथा च तादृशस्थले एकस्यापि लिङ्गत्वं न सम्भवतीति न तयोर्लिङ्गत्वम्। यत्त्विति / अतीतदिनवृत्तित्वेन निश्चितो यो धूमस्तस्य वर्तमानदिनेऽतीतदिनवृत्तित्वं यद् विशेषणं तद्वशेन अतीतदिनवृत्तिधूमध्वंसो निर्णेतुं शक्यते / तथा च तस्यैव लिङ्गत्वं भविष्यति / अयं वह्निमान् विशिष्टध्वंसात् इत्यनुमानं स्यात् इत्यर्थः / परिहरति - तन्नेति / विशिष्टध्वंसः शक्तिवादे ग्रन्थकृतैव निरस्तोऽस्ति / ततो यदि विशेषणध्वंसेन विशिष्टध्वंसोऽङ्गीक्रियते तदा घटादेः क्षणिकता स्यात्। रूपादिनाशेन घटस्य नाशः स्यात् / ततो घटादेः क्षणिकत्वापत्तिः / तथा च प्रकृतेऽतीतदिनवृत्तित्वरूपविशेषणध्वंसेन धूमध्वंसो न निश्चितः / अतो न स हेतुः / शङ्कते - नचेति। घटादिस्थले विशेषणध्वंसेन घटादौ क्षणिकता न स्यात् घटादीनां सत्त्वात्। प्रकृते धूमो नास्ति इति कृत्वा विशेषणध्वंसेन विशिष्टध्वंसः सम्भवति।सविशेषणे विधिनिषेधौ विशेषणमुपक्रामतो विशेष्ये बाधके सति इति न्यायात् / घटादेर्विशेष्यस्य विद्यमानत्वरूपप्रत्यक्षबाधकसत्त्वात् विशेषणस्यैव ध्वंसः न तु घटस्य ध्वंस इति न च वाच्यमित्यन्वयः / एवमपीति टीका / तथापि धूमध्वंसस्य हेतुत्वं न स्यात् वर्तमानदिनधूमसंन्देहेन विशिष्टधूमध्वंसस्याधि(पि) सन्दिग्धत्वात् / ननु विशिष्टध्वंसस्य निश्चय एव कुतो न भवति इत्यत आह - नहीति टीका / विशेष्ये विद्यमानेऽपि विशेषणध्वंसप्रयुक्तो विशिष्टध्वंसो नाङ्गीक्रियते प्रत्यभिज्ञाया बाधकत्वात् यथा [विशिष्ट(ष्टः) पुरुषो न नष्टा(ष्टः) पुरुषो न नष्ट इति बाधकप्रत्ययात्। नन्विति / तद्दिने मध्यष(?)दिने धूमप्रागभावस्य सन्देहेऽपि धूमस्य सन्देहो न भवति / कुतः ? धूमसत्ता आप्तवाक्यादिना निर्णीता इति कृत्वा धूमस्य वर्तमानत्वम् अथ च वर्तमानत्वेन निर्णयोऽप्यस्तीति न व्यभिचारः / पूर्वं यदुक्तं [69 A] यत्र धूमप्रागभावध्वंसादेः सन्देहोऽस्ति तत्रापि धूमसत्तैव नास्तीति पुनारात्र कस्य लिङ्गत्वमिति [तेन यो] व्यभिचारो दत्तोऽभूत् स निरस्तो यतस्तत्र धूमस्यैव हेतुत्वं भविष्यति। धूमसत्त्वेनैव पर्वतनिर्णयो वर्तते इति न व्यभिचारि(र:) इति टीकार्थः / अयमुत्तरग्रन्थभाषार्थः / किञ्चेति। यत्र पर्वते पूर्वधूम इति ज्ञानं जातं - कीदृशं ज्ञानम् ?, भूतभाविवर्तमानत्वाविषयकमेव जातं - तत्रानुमितिर्न स्यात् / कथम् ? यतोऽनुमितिप्राक्काले पूर्वं धूम आसीत् तत्र वर्तमानत्वेन धूमनिर्णयो नास्ति कथमनुमितिरतीतत्वेन धूमविषयकमेव निर्णयात् / तथा च तादृशस्थले धूमसत्ता निर्णीता नास्ति, कथं लिङ्गं कारणमिति मूलार्थः / वस्तुत इति टीका। पर्वते धूमज्ञानं कीदृशं विवक्षितम् ?, वस्तुतोऽतीतधूमविषयत्वमिति व्याख्येयम्। यथाश्रुतेधूमसत्त्वेऽनुमितौ बाधकंनास्तिइत्यसङ्गतिः स्यादितिभावः। मीमांसकः शकते - सर्वत्रेति मूलम्।सर्वत्र यत्र वह्नयनुमानंतत्रधूमप्रागभावधूमध्वंसान्यान्यत्वं लिङ्गं भवतु अथवाधूमात्यन्ताभावाभावत्वम्। तथा च यत्रधूमोऽस्ति तत्रधूमात्यन्ताभावो नास्ति, यत्रधूमप्राग भावः तत्र धूमात्यन्ताभावो नास्ति], यत्र धूमध्वंसस्तत्रापिधूमात्यन्ताभावो नास्ति। अत्यन्ताभावस्यैतत्त्रितय. विरोधित्वात् / तथा चातीतस्थले भाविस्थले च एतत्त्रितयान्यतमत्वं वर्तत एवेति कृत्वा लिङ्गं सर्वत्र कारणम्