________________ 140 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सम्भवति इति कृत्वाऽनुमितिर्न स्यात् / अथवा यत्र एकव्यक्तिकमेव लिङ्गं यथा अयम् एतद्रूपवान् एतद्वयक्तेः अत्रापि लिङ्गान्तरं नास्तीति कृत्वाऽनुमितिर्न स्यात् / भाविनीति टीका / ननु त्वयोक्तं भाविनि पक्षे लिङ्गान्तरं न सम्भवतीति, तदशुद्धम् भाविनि वृष्ट्यादौ विद्यमानं लिङ्गं द्रव्यत्वादि वर्तते एवेति कृत्वा तस्यैव लिङ्गत्वम्, भाविनी वृष्टिर्विशिष्टा भवितुमर्हति इति विशिष्टमेघोन्नतेरिति अत्र विद्यमानद्रव्यत्वादिकमेव लिङ्गं वर्तते / तथापीति टीका। तस्य द्रव्यत्वादेः स्वरूपेण लिङ्गत्वं नास्ति किन्तु पक्षवृत्तितया द्रव्यत्वादेः लिङ्गत्वम् / पक्षस्य तदानीं भाविपक्षस्थलेऽभावात्, तत्र पक्षाभावात् पक्षवृत्तित्वं लिङ्गस्य न सम्भवतीत्यर्थः / नन्विति / व्यक्त्यैक्यमेवेत्यात्र] सम्भवति / यत्र एकव्यक्तिकमेव लिङ्गं तत्र विद्यमानलिङ्गान्तराभावात् इत्युक्तं तदशुद्धम्, एतद्व्यक्तिरिति स्थाने एतद्वयक्तिसमनियतयत्तद्ज्ञानविशेषत्वं तस्यैव लिङ्गत्वं सम्भवतीति यथा यदा यदा साध्यं व्यक्तिः तदा तदा ज्ञानविशेष्य(ष) इति अस्यैव लिङ्गत्वसम्भवात्, तथा च लिङ्गान्तरं नास्तीत्यशुद्धम् / मध्ये. ' शङ्कते - न चेति / अयम् एतदतिरिक्तयावद्धर्माः तद्धर्मवान् एतद्व्यक्तित्वात् इत्यत्र ज्ञानविशेष्य(ष)त्वादेरपि लिङ्गत्वं न सम्भवति / साध्ये एतत्पदेन किञ्चिद्रूपादिकं धर्मस्तदतिरिक्तयावन्तो धर्माः सर्वे एतस्य धर्माः तद्वत्त्वं साध्यते तथा चात्र ज्ञानविशेषत्वादिकमपि तत्र हेतुर्न सम्भवति साध्यमध्ये एतस्याप्यन्तर्गतत्वात् यावद्धर्ममध्ये तस्याप्यागतत्वात् इत्याशङ्कार्थः / इति न च वाच्याम्]। प्रकारभेदेनेति टीका / केनचिद् रूपेण ज्ञानविशेषस्य साध्यता, केनचिद् रूपेण हेतुता / तथा च धर्मत्वेन साध्यता, ज्ञानविशेषत्वेन हेतुता, इति भिन्नप्रकारकत्वम् / अत एवेति टीका / [68 B] इदं तोयं पिपासोपशमनसमर्थत्वात् इत्यादौ यदेव तोयं तदेव पिपासोपशमनसमर्थम् इति तोयपिपासोपशमनसमर्थयोरभेदेन हेतुतत्साध्ययोरभेदेऽपि प्रकारभेदेन भेदः, यथा तोयत्वेन साध्यता पिपासोपशमनसमर्थतावच्छेदकरूपवत्त्वेन हेतुता। तद्वत् प्रकृतेऽपीत्यर्थः। यदि चेति मूलम् / भाविनि पक्षे एकव्यक्तिके च हेतौ विद्यमानं लिङ्गान्तरं यदि वर्तते तदा विद्यमानवह्वेरनुमानं स्यात्। वस्तुगत्या नास्ति। अयं वर्तमानवह्निमान् इत्यनुमानं स्यात्, तदसम्भवम् न सम्भवतीत्यर्थः / अथेति मूलम् / भावि भूतं च धूमादि लिङ्गं नोच्यते किन्तु धूमप्रागभावो भाविस्थले ध्वंसश्च भूतस्थले, यथाऽयं वह्निमान् धूमप्रागभावात् धूमध्वंसात् वा / तयोरपीति मूलम् / ननु वह्निसामानाधिकरण्याभावात् कथं तयोलिङ्गत्वमित्यत आह - तयोरपीति / यत्र देशे धूमप्रागभावो ध्वंसो वा तत्रावश्यं वह्रिवर्तत एवेति भावः / अतीतभाविदिनेति मूलम् / अतीतदिनवृत्तित्वेन धूमो निश्चितोऽथ वाक्यादिना भाविदिनवृत्तित्वेनापि धूमो निश्चितोऽथ च वर्तमानत्वेन सन्दिग्धो यो धूमस्तस्मादनुमितौ धूमप्रागभावध्वंसौ न लिङ्गे यतो गतदिवसे धूमः स्थितोऽभूत् श्वो भविष्यति इत्यतीतदिनवृत्तित्वेनाथ च भाविदिनवृत्तित्वेन निश्चयो वर्तते / वस्तुगत्या च वर्तमाने नास्ति तदा धूमप्रागभाव