________________ 139 परामर्शनिरूपणम् वह्निसमानदेशत्वनियमादिति चेत्।न।अतीतभाविदिनवृत्तितया निश्चितात् वर्तमानतया सन्दिग्धात् धूमादनुमितौ हि न प्रागभावध्वंसौ लिने तयोः सन्दिग्धत्वात् / नापि धूमः, तस्यावर्तमानत्वात् / किञ्च भूत-भावि-वर्तमानत्वाविषयात् पर्वते धूम इति ज्ञानात् यत्रानुमानं तत्र का गतिः, सर्वत्र प्रागभावाद्यन्यतमत्वं धूमाद्यत्यन्ताभावाभावत्वं वा लिङ्गमिति चेत्, न, व्यर्थविशेषणत्वेन तेषामलिङ्गत्वात् अन्यतमत्वाद्यज्ञानेऽपि धूमज्ञानादनुमितिसत्त्वाच्च।अपिचनधूमप्रागभावादिलिङ्गं, नवातद्धीरनुमितिकारणम्, प्रागभावादीनां व्यर्थत्वात् आवश्यकधूमज्ञानादेवानुमितिसम्भवाच्च। ___ अतीतेति / अतीतादिस्थले लिङ्गं नास्ति परमनुमितिर्जायते, यथाऽतीतलिङ्गेन यत्रानुमितिर्जायते यथा रामोऽभूत् दशरथपुत्रत्वात्। शङ्कते - नन्विति। तथा च विद्यमानं यत्र लिङ्गं तादृशी याऽनुमितिस्तत्त्वावच्छेदेन लिङ्गप्रागभावस्य कारणताऽस्तु / यत्र धूमो वर्तते तत्रापि धूमप्रागभावोऽस्त्येव कस्यचित् धूमस्य प्रागभावो वर्तते एव, अनागतादिस्थले सुतरां प्रागभावोऽस्ति। [68A]अतीतादिस्थले तस्य परामर्शःसकारणमित्याशङ्कार्थः। अतीतेति।अतीतलिङ्गकानुमितौ क्लृप्ता सामग्री परामर्शरूपा यैव वर्तमानानागतस्थलेऽनुमित्युत्पत्तौ / विशेषेति। लिङ्गप्रागभावरूपा सामग्री न कल्पनीया गौरवात् / लिङ्गस्यानुमितिकारणत्वे अन्वयव्यतिरेकाभ्यां व्यभिचारमाह - अयोग्येति। यत्र लिङ्गमतीन्द्रियमस्ति तेन लिङ्गेनानुमितिर्जायते तत्र व्यभिचारः / कथम् ? तत्र लिङ्गस्य करणत्वं भवति परामर्शरूपव्यवहार(रा)सम्भवात् / परामर्शस्तु प्रत्यक्ष एवोचितः / शब्दादीति।वहिव्याप्यधूमवान् इति शब्देन यदा अनुमितिर्जायते तत्र लिङ्गस्य कारणता न सम्भवति, तत्र लिङ्गस्य कारणता नास्ति तेन विनापि तत्सम्भवात् इति कृत्वा निर्व्यापारस्य परामर्शस्य कारणत्वम्, तदा सर्वत्रावश्यकत्वात् तेनैवानुमित्युत्पत्तौ (त्तिः) कारणान्तरं यल्लिङ्गं तस्य कल्पनायां प्रमाणाभावः / ___नचेति मूलम्। अतीतानागतस्थलयोर्विद्यमानो धूमः स एव कारणमस्तीत्याशङ्कार्थः / तदेति मूलम्। अनुमितिप्राक्काले विद्यमानलिङ्गान्तरस्य परामर्शभावात् विद्यमानं लिङ्गं न हेतुः। परामर्शेति मूलम् / अतीतादिस्थले यः परामर्शो जायते तत्र लिङ्गस्य परामर्शविषयता वर्तते, परं तस्य कारणता नास्ति, अतीतत्वादेव परामर्शो लिङ्गेन न जन्यते किन्तु व्याप्त्येति भावः / परामर्शेति टीका / यदा परामर्शो न जातः तदा परामर्शरूपद्वाराभावात् लिङ्गस्य कारणता न भवतीत्यर्थः / भाविनीति मूलम् / यदि विद्यमानलिङ्गान्तरमनुमितौ कारणं तदा यत्र भावी पक्षः तत्रापि विद्यमानं लिङ्गान्तरं न