________________ 138 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पदम्। यत्र धूमवान् वह्निमान् इति शाब्दज्ञानं वर्तते तत्र विशेषणसमानकालतया विशेष्यविषयविशिष्टज्ञानत्वं वर्तते। तत्र ज्ञायमानविशेषणजन्यत्वं नास्ति यतस्तत्र विषयस्य कारणता नास्ति। ततोऽशाब्देति पदम्। वर्तमानेति टीका। वर्तमानं यद्विशेष्यतावच्छेदकं तद्विशिष्टे वर्तमानं यद्विशेषणान्तरं तद्वैशिष्ट्यावगाहि यत्शाब्दविशिष्टज्ञानं तत्त्वात् / यथाश्रुते यत्र धूमो वर्तमानो नास्ति तत्र विशि(शे)ष्यविषयाशाब्दविशिष्टज्ञानत्वं वर्तते / ज्ञायमानविशेषणजन्यत्वं नास्तीति कृत्वा व्यभिचारः स्यात्, तद्वारणाय वर्तमानविशेष्यतावच्छेदकविशिष्टेति पदम्। तत्र चधूमस्य वर्तमानना(ता)स्तिइति कृत्वा न व्यभिचारः। ननु तथापीश्वरज्ञाने व्यभिचार इत्यतो विवक्षान्तरं करोति विशिष्टज्ञानपदमिति / तथा च जन्यविशिष्टज्ञानत्वात् / स्मरणे चेति।सधूमवान् वह्रिमान् इति स्मरणं विशिष्टज्ञाने वर्तते परं विशेषणजन्यं तन्नास्ति अनुभवजन्यत्वात् तस्येति भावः / निर्विकल्पकस्येति टीका / विशिष्टपदेनैव वारणादित्यर्थः / न रू(उ)पमितौ व्यभिचार: यतस्तत्र विशेषणसमानकालतया विशेष्यविषयाशाब्दविशिष्टज्ञानत्वं वर्तते विशेष: . णजन्यत्वं तत्र नास्ति यतस्तत्र विशेषणज्ञानजन्यत्वं न किन्तु सादृश्यज्ञानजन्यत्वमित्यत आह - उपमितेरिति सपक्षत्वमिति। यदि तत्र ज्ञायमानविशेषणजन्यत्वं तदा तदन्यत्वमपि विशेषणं देयम् / अत एवेति। यतो धूमवान् वह्रिमान् इत्यनुमितिर्जायतेऽतो ज्ञायमानं य विशेषणं धूमादिस्तजन्यत्वेन विशेषणकालवृत्तितया विशेष्यं भासते। धूमसमानाकाल] एव वह्निर्भासते इत्यर्थः / इति टीका। अतो धूमजन्यत्वं सिद्धमनुमितेरितिभावः। अन्यथेति टीका। यदि धूमसमानकालीने(नो) वह्निर्न सिद्धयति तदा तत्तद्धूमसमानकालवृत्तिवढ्यनुमानं न स्यात् / भवति च : वह्नयनुमानं यदाधूमवान् तदा वह्निमान् इति। अन्यथेति टीका। तथा चेति ज्ञायमानं य विशेषणं धूमस्तजन्यत्वमेव धूमकालीनवह्रिसिद्धौ नियामकम्।कुतः ? समयविशेषेति। यदा सदान्तर्भावेन यदिव्याप्तिग्रहो नास्ति तदाधूमकालवृत्तिवन्यनुमानं न स्यात्। वर्तते च धूमकालवृत्तिवह्नयनुमानम्, तस्मात् धूमकालीनो वह्निः सिद्धयति, तदा धूमस्यापि कारणताऽनुमिता वाऽवगता। किञ्चेति मूलम् / येषां मते लिङ्गं कारणम्, लिङ्गस्य परामर्शो व्यापारः, परामर्शस्य तु व्यापारान्तरं नास्ति चरमकारणत्वात् / तत् करणमिति / तदिति लिङ्गं करणमित्यर्थः / उभयोरिति लिङ्गपरामर्शयोरित्यर्थः / अत्रोच्यते। अतीतानागतधूमादिज्ञानेऽप्यनुमितिदर्शनान्न लिङ्गं तद्धेतुः व्यापारपूर्ववर्तितयोरभावात्।नच विद्यमानं लिङ्गान्तरमेव तद्धेतुः, तदा तस्यापरामर्शात् परामर्शाविषयस्य कारणताग्राहकाभावात्, भाविनि पक्षे व्यक्त्यैक्यमेव वा यत्र लिङ्गं तत्र लिङ्गान्तराभावाच्च / यदि च वर्तमानमेव तत्र लिङ्गं तदा वर्तमानवह्नयनुमानोपपत्तिः। अथ भाविभूतं वा धूमादि न लिङ्गं किन्तु तत्प्रागभावस्तद्ध्वंसश्च वर्तमान एव तयोरपि