________________ परामर्शनिरूपणम् 137 तेनैव प्रमाणेन विशेषणस्यापि कारणता गृह्यते यतो विशिष्टस्य कारणतायां वाच्यायां विशेषणस्यापि कारणता आयाति यथा इन्द्रियविशिष्टसन्निकर्षस्य कारणतायां [वाच्यायां विशेषणस्येन्द्रियस्यापि कारणता आयाति। मध्ये शङ्कते-नचेति। लिङ्गं परामर्शपरिचायकत्वेन व्यावर्तकत्वेनान्यथासिद्धमितिन[आनुमितौ करणमित्याशङ्कार्थः / परिचेये इति मूलम्। परामर्श विशेषाणान्तरं व्यावर्तकं नास्तीति लिङ्गमेव विशेषकं व्यावर्तकम्। तथा चा[नान्यथासिद्धत्वात् लिङ्गमपि अनुमितौ कारणम् / अन्यथेति मूलम् / यद्येवं परिचायकत्वेनान्यथासिद्धिरुच्यते तदा इन्द्रियमपि स्वसन्निकर्षपरिचायकमस्तीत्यन्यथासिद्धं स्यादित्यर्थः / बाधकं विनेति टीका / दण्डत्वे व्यभिचारवारणार्थं बाधकं विनेत्युक्तम्, यथा दण्डत्वमन्यथासिद्धं घटे इति विशिष्टकारणताग्राहकप्रमाणा(णे)नान्वयव्यतिरेकसहकृतप्रत्यक्षेण विशिष्टस्य दण्डस्य कारणत्वे गृहीतेऽपि विशेषणस्य दण्डत्वस्य न कारणत्वमिति बाधकं विनेत्युक्तम्, तत्रान्यथासिद्धरूपस्य बाधकस्य सत्त्वात् / अन्यथासिद्धिश्च येन सहैवेत्यादिका। अत्रापीति टीका / अन्यथासिद्धत्वं येन सहैवेत्यादिरेवान्यथासिद्धिरिति भावः / लिङ्गस्य कारणत्वसाधकयुक्त्यन्तरमाह - धूमवानिति / धूमसमानकालीनो यो वह्निस्तद्विषयिका धूमविशेषणिकाऽनुमितिः धूमवान् वह्निमान् इत्याकारिका अनुमितिः पक्षः। ज्ञायमानविशेषणजन्येति साध्यम्। ज्ञायमानं यत् विशेषणं धूमस्तजन्या भवितुमर्हति / हेतुर्यथा विशेषणेति / विशेषणं धूमस्तत्समानकालतया विशेष्यविषयक विशेष्यः पर्वतस्तद्विषयक(क) शाब्दविशिष्टज्ञानत्वात् स दण्डी पुरुष इति प्रत्यक्षवत्। यथा दण्डी पुरुष इति प्रत्यक्षे विशेषणं दण्डस्तत्समानकालतयाविशेष्यः पुरुषस्तद्विषयं शाब्दविशिष्टं ज्ञानं भवति।अथ चज्ञायामानं यत् विशेषणं दण्डस्तजन्यत्वमप्यस्ति / तथा चानेनानुमानेन धूमस्याप्यनुमितौ जनकत्वं सिद्धम् / वर्तमानेति टीका / यथाश्रुते अंशतो बाधः / अतीतो यो धूमस्तजन्यता धूमविशेषणिकानुमितौ नास्ति धूमस्यातीतत्वात्, धूमरूपविशेषणजन्यत्वाभावात् अंशतो बाधः इति अन्यथा व्याचष्टे - वर्तमानेति।सतु अतीतो धूम इति न बाध इत्यर्थः / यथाश्रुतेधूमवान् वह्निमान् इति अनुमितिः, ज्ञायमानं यत् विशेषणं वह्रिरूपम्; न, जन्यतयाऽर्थान्तरता स्यात्। प्रकृते वह्रिजन्यत्वमनुमितौ नास्ति, परं तदेव सेत्स्यतीत्यन्यथा व्याचष्टे - ज्ञायमानविशेषणतावच्छेदकजन्या धूमवान् वह्निमान् पर्वत इत्यनुमितिः पक्षः इत्यत्र विशेष्यतावच्छेदको धूमः / कथम् ? विशेष्यः पर्वतः, विशेषणं वह्निः, विशेष्यतावच्छेदको धूमः, तज्जन्यत्वं साध्यम्, वह्निस्तु विशेषणम्, अतीतादिस्थले विशेषणतावच्छेदकजन्यत्वं नास्तीति बाधवारणाय ज्ञायमानपदम् / यतो विशेष्यतावच्छेदेन धूमवत्त्वावच्छेदेनेति, धूमोऽवच्छेदक(क:) विशेषणसमानकालतयेति / एवं यत्र धूमासमानकालीनवह्रिविषयिण्यनुमितिर्जायते धूमात् तत्र विशेष्यविषयाशाब्दविशिष्टज्ञानत्वंवर्तते।तत्रज्ञायमानविशेषाणाजन्यत्वंनास्ति[67 B]धूमस्यासत्त्वात्। ततो विशेषणसमानकालतयेति विशेषणम् / तत्र विशेषणसमानकालतया विशेष्यविषयाशाब्दविशिष्टज्ञानत्वं नास्ति। अशाब्देति