________________ 136 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका रनुमितिहेतुत्वेन ग्रन्थकारस्याभिमतत्वात्। तथाचान्योन्याभावगर्भ यद्व्यापकत्वंतत्रप्रतियोग्यसमानाधिकरणपदं नप्रविशत्येव ।तेनेति लाघवम्।अत्यन्ताभावगर्भव्यापकत्वेऽपिआकाशेऽतिव्याप्तिवारणार्थं साधिकरणत्वमात्रं विशेषणमस्तु / हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाधिकरणं तत्त्वं व्यापकत्वमिति पर्यवसन्नम् / तथा च पूर्वोक्तमस्वरसबीजं नानुपपन्नम्। स्वाभिमतमस्वरसबीजमुपपादयति - तस्मादिति। यदि पर्वतवृत्तिधूमव्यापको वह्निरिति ज्ञानमनुमितिहेतुः तदा शब्दादिना आदिशब्दादनुमानेन व्यापकत्वं निश्चितम् / अवसरसङ्गत्या लिङ्गपरामर्शस्य कारणतां व्यवस्थापयति। __ एवं लिङ्गपरामर्श एव कारणं न तु परामृष्यमाणं लिङ्गम् / अथ परामर्शमात्रं न हेतुरपि तु लिङ्गपरामर्शः, तथा च लिङ्गमपि हेतुः विशिष्टकारणताग्राहकमानेन बाधकं विना विशेषणस्यापि हेतुत्वग्रहात् / न च लिङ्गं परामर्शपरिचायकत्वेनान्यथासिद्धम्, परिचेये विशेषणान्तराभावेन लिङ्गमेव विशेषकं तथा चानन्यथासिद्धत्वात् तदपि हेतुः अन्यथा परिचायकतयासंयोगेनान्यथासिद्धमिन्द्रियमपि कारणं नस्यात्।अपि चधूमवान् वह्निमानिति धूमसमानकालवह्निविषया धूमविशेषणिकानुमितिः ज्ञायमानविशेषणजन्या विशेषणसमानकालतया विशेष्यविषयेऽशाब्दविशिष्टज्ञानत्वात् दण्डी पुरुषइति प्रत्ययवत् / अत एव ज्ञायमानविशेषणजन्यत्वेन विशेषणकालवृत्तितया विशेष्यभाननैयत्यं यथा दण्डी पुरुष इति प्रत्यक्षे, तेनधूमसमानकालीनवह्निसिद्धिः, अन्यथातत्तद्भूमकालवृत्तिवन्यनुमानं न स्यात् समयविशेषमन्तर्भाव्य व्याप्त्यग्रहात् / किञ्च लिङ्गकरणत्वपक्षे परामर्श एव तद्व्यापारः परामर्शस्य तु नव्यापारान्तरमस्ति चरमकारणत्वादिति न तत् करणम्। एवमिति। लिङ्गस्य तृतीयं ज्ञानं वहिव्याप्यधूमवान् इत्याकारकं कारणम्। न त्विति। परामृश्यमाणं ज्ञायमानं लिङ्गं कारणं न भवति / अतीतानागतस्थले यत्र अतीतलिङ्गेन अनागतलिङ्गेन वा अनुमितिर्न भवति तत्र ज्ञायमानलिङ्गं नास्तिलिङ्गस्यासत्त्वादिति।लिङ्गकरणतावादी शङ्कते - अथेति। परामर्शमात्रमनुमितिहेतुर्न भवति, तथा चकारणत्वं केन रूपेण? - परामर्शत्वेन वा लिङ्गपरामर्शत्वेन वा? नाद्यः साध्यस्य परामर्शमात्रेणानुमितिर्न भवति किन्तु लिङ्गपरामर्शत्वेन साधनपरामर्शत्वेन / तथा च विशिष्टपरामर्शस्य लिङ्गपरामर्शस्य कारणताग्राहकप्रमाणेन बाधकं विना लिङ्गस्यापि हेतुत्वं गृह्यते। अयमर्थः - येन येन प्रमाणेन परामर्शस्य[67 A] विशिष्टस्य कारणता गृह्यते