________________ 135 परामर्शनिरूपणम् प्रमेयत्वसमानाधिकरणो योऽत्यन्ताभाव आकाशस्यापि तत्रप्रतियोग्यसमानाधिकरणत्वम्कोऽर्थः / प्रतियोग्यधिकरणाधिकरणभिन्नत्वंवर्ततेएव।प्रतियागीआकाशात्यन्ताभावस्यआकाशः, तस्य यदधिकरणं तदधिकरणभिन्नत्वमाकशस्यात्यन्ताभावेऽस्त्येवेति तदप्रतियोगी आकाशो न भवतीति कृत्वा पूर्वोक्तं व्यापकत्वमाकाशे नायातीति।आकाशस्य व्यापकत्वापत्तिरितिदूषणोद्धार: इत्याशङ्कार्थः। प्रतियोग्यधिकरणेति।आकाशात्यन्ताभावस्य प्रतियोगी आकाशः, तस्याधिकरणमेवाप्रसिद्धमितिकृत्वा प्रतियोग्यधिकरणाधिकरणभिन्नोऽभावो घटापटादेरेव कथमित्यत आह - विशिष्टेति / प्रतियोग्यधिकरणाधिकरणा(ण)भिन्नो योऽभावः, तथा च विशेषणं प्रतियोग्यधिकरणाधिकरणभिन्नत्वम्, तद्विशिष्टोऽभावो घटपटाभावादिः, तदप्रतियोगित्वमाकाशेऽस्त्येवेति आकाशस्यापि व्यापकता स्यात् / तस्मादिति टीका / आकाशस्य व्यापकतावारणाय साधनसमानाधिकरणत्वं विशेषणं व्यापकसमध्ये देयम् / तथा च साधनसमानाधिकरणात्यन्ताभावाप्रतियोगि यत् साध्यं तत् कीदृशम् ?, साधनसमानाधिकरणम्।आकाशस्य सामानाधिकरण्यं नास्ति, तदधिकरणाप्रसिद्ध्या आकाशे नातिव्याप्तिरित्यर्थः / एवं चेत् व्यापकत्वेऽपि लाघवं नास्ति, साधनसा(स)मानाधिकरणस्य व्यापकत्वेऽपि प्रवेशात् / व्यापकत्वेऽपि व्याप्यत्वापेक्षया लाघवं नास्ति इति। अस्वरसबीजमिति। मिश्रमतं दूषयति। तत्राद्यमस्वरसबीजं न सम्भवति / कुत इत्यत आह - विशेष्ये इति। विशेष्ये विशेषणम्, तत्र च विशेषणान्तरमिति न्यायेन / अस्यार्थः / विशेष्ये धूमे पर्वतवृत्तित्वं विशेषणम्, तत्र च पर्वतवृत्तित्वविशिष्टो यो धूमः स वह्रौ विशेषणं भासते, यथा पर्वतवृत्तिधूमव्यापको वह्निरिति / अत्र एवं प्रकारेण पर्वतवृत्तिर्यो धूमः [66 B] तद्व्यापकत्वस्य वह्रावुपपत्तौ जातायाम् / नान्यत्रापीति अन्यत्र प्रमेयत्वादौ वह्निव्यापकत्वग्रहापेक्षैव नास्तीति / यतो धूमव्यापकत्वं च वह्नौ एव पुरा गृहीतुं(तम्) इति समूहालम्बनरूपानुमितिप्रसङ्ग एव नास्तीत्यर्थः / न द्वितीयमिति। अस्वरसबीजमिति शेषः / यत् त्वयोक्तम् आकाशस्य व्यापकतावारणार्थं साधनसमानाधिकरणं साध्ये विशेषणं दत्तं तन्नसम्भवतीत्यत आह - प्रतियोग्येति / यथाश्रुतेनैवोपपत्तेः / कथम् ? यतः प्रतियोग्यधिकरणाधिकरणाः संयोगाभावादयः प्रसिद्धाः, संयोगाभावस्य प्रतियोगी संयोगः, तदधिकरणाधिकरणत्वमेव संयोगाभावे वर्तते संयोगाभावस्याव्याप्यवृत्तित्वात् / तथा च तद्भिन्नत्वमाकाशात्यन्ताभावे वर्तते / तथा च प्रतियोग्यधिकरणाधिकरणो(ण)भिन्नोऽभावः आकाशात्यन्ताभावः तत्प्रतियोगित्वमेव वर्तते / आकाशस्येति / आकाशाव्यापकता]वारणं प्रतियोगित्वेनैव सिद्धम् किमर्थं साधनसमानाधिकरणेति विशेषणं देयम् ? स्वोक्तं दृष्टान्तेन द्रढयति - एवमिति। स्वोपादानेति / स्वशब्देन क्षित्यादिकम्, तज्जन्या या कृतिरस्मदादिकृतिः तदजन्यत्वं क्षित्यादावस्ति। अत्र जन्यकृतिपदेनाजन्या कृतिरिणीया।अजन्या कृतिरप्रसिद्धेति चेत्तद्वारणार्थः(र्थ)मर्थस्य विवक्षा यथास्वोपादानगोचरजन्यकृतिजन्या घटपटादयस्तद्भिन्नत्वं क्षित्यादौ प्रसिद्धम् / एवं यथाश्रुतेनेति / प्रतियोग्यधिकरणाधिकरणाः संयोगाभावादयः प्रसिद्धाः तद्भिन्नत्वमाकाशाभावे वर्तत एवेति न विवक्षान्तरं कर्तव्यम् / किञ्चेति / अन्योन्याभा]वगर्भव्याप्ते