________________ 134 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रतियोगित्वमात्रमिति, न तत्र सामानाधिकरण्यप्रवेशइति कृत्वा व्यापकताज्ञानस्य हेतुता, तदा साध्यासमानाधिकरणात्यन्ताभावकत्वमित्येव व्याप्यत्वमस्तु व्याप्तेरस्तु इति यावत् / तथा च व्यापकत्वघटकाः ये पदार्थाः अत्यन्ताभावसामानाधिकरण्यादयः तेषाम् अत्रापि व्याप्यत्वे प्रवेशेन तदपेक्षया व्यापकत्वापेक्षया गौरवाभावात् व्याप्यत्वज्ञानमेव कारणमस्तु इत्यर्थः / एतावतापीति।व्याप्तिज्ञाने कारणतायां नियामकं किञ्चिन्नोक्तम् / ननु तत्र लाघवमेव विनिगमकमित्यत आह - किञ्चेति / उक्ते साध्यासमानाधिकरणात्यन्ताभावकत्वं व्याप्यत्वमिति व्याप्यत्वापेक्षया व्यापकत्वमेव लघु / कथम् ? व्यापकत्वं तु हेतुसमानाधिकरणात्यन्ताभावप्रतियोगित्वसामान्याभावः, भवतां व्याप्यत्वं तु साध्यासा(स)मानाधिकरणयावदत्यन्ताभावगर्भम्, अन्यथा व्यभिचारि साधारण्यं स्यात् / यदि व्याप्यत्वलक्षणे यावत्पदं न दीयते तदा धूमवान् वह्रिरित्यत्रातिव्याप्तिः स्यात् / कथम् ? अत्रापि साध्यं धूमस्तेन सहासमानाधिकरणो महानसीयवह्नयत्यन्ताभावो भवति तत्कत्वं च हेतौ वर्तते इति तन्निरासाय यावदिति / तथा च यावन्मध्ये वह्निना सहायोगोलकीयवह्निना सहासमानाधिकरणोऽत्यन्ताभावो भवति। किन्तुसमानाधिकरण एव। एतदपेक्षया व्यापकत्वं लघु।स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वसामान्याभाव इति / स्वं धूमादिस्तत्समानाधिकरणात्यन्ताभावो घटपटादीनां तत्प्रतियोगित्वसामान्याभावो वर्तते यतो घटादीनां वह्निरप्रतियोगी भवति, तथा चात्र यावत्पदं न प्रविष्टमिति लाघवम् / अन्ये इति पक्षधरमिश्राः / भवतां व्यापकतावादिनां मते पर्वतवृत्तिधूमव्यापकत्वं वह्नौ ग्राह्यम्, तच्च स्मृतमुपनीयते। तथा च यथा अन्यत्र प्रमेयादौ धूमव्याकता गृहीता न वा ? यदि गृहीता, तदा प्रमेयत्वस्याप्यनुमितिसामग्री वर्तते इति कृत्वा प्रमेयत्व-वन्योः समूहालम्बनत्वात् उभयोरेवानुमितिः स्यात् / अतो ह्यत्रैका अनुमितिर्न स्यात् / यदि धूमव्यापकत्वं प्रमेयत्वादौ न गृहीतं तदा अप्रतीतस्य व्यापकत्वस्य पर्वते कथमुपनयः ? यत उपनयेति। उपनेयं यस्योपनेयः क्रियते। एतादृशं व्यापकत्वम्, तस्याप्रतीतौ उपनयो न सिद्धयति। तथा च व्यापकत्वज्ञानमुभयथापि कारणं न भवति इत्यर्थः / अन्यदपि पक्षधरोक्तमस्वरसबीजं दर्शयति - वस्तुत: [66 A] इति टीका।व्यापकताज्ञानस्य कारणतायां लाघवमेव नास्ति। कथमिति। तथाहि हेतुनाऽधिकरणात्यन्ताभावे प्रतियोग्यसमानाधिकरणत्वं विशेषणमवश्यं वाच्यम् / अन्यथाऽयमेतत्संयोगीत्यादावव्याप्तिः स्यात् तदर्थं प्रतियोग्यसमानाधिकरणेति देयम् / तदर्थश्चेति / प्रतियोग्यसमानाधिकरणत्वं प्रतियोगिनो घटादेः यदधिकरणं तदधिाकरणभिन्नत्वं प्रतियोगिसमानाधिकरणाभावत्वं वा / उभयथापीति प्रतियोग्यधिकरणानधिकरणत्वम् प्रतियोगिनो घटादेः यदधिकरणं भूतलादि तदनधिकरणं यस्यात्यन्ताभावस्येत्यर्थः / तथा चाकाशादेरपि प्रमेयत्वव्यापकता स्यात् / तथाहि अयमाकाशवान् प्रमेयत्वात् इत्यत्र प्रमेयत्वसमानाधिकरणाः प्रतियोग्यधिकरणभिन्ना ये घटाभावादयः तत्प्रतियोगित्वाभाव आकाशे वर्तते इति प्रमेयत्वस्यापि आकाश(शं) व्यापकं स्यात् / वस्तुगत्याऽऽकाशं व्यापकं व्याप्यं च न भवतीत्याकाशस्यावृत्तित्वात् / यथा आकाशे व्यापकत्वं नायाति तथा शङ्कते - नन्विति /