________________ परामर्शनिरूपणम् __ अर्थतन्मतदूषणं टीकाकार आह - अत्रेदमिति टीका / व्यापकतापरामर्शे दूषणोद्भावनं क्रियते इत्यर्थः / जनकज्ञानस्येति टीका। कारणीभूतं यत् ज्ञानं तस्य यावद्विषयत्वेन जनकत्वम्, तथा च कारणीभूतज्ञाने यावन्तो विषयाः तावन्मध्ये यत् जनकीभूतज्ञाने प्राधान्येन भासते तावन्मध्ये फलीभूतबोधेऽपि तदेवप्राधान्येन भासते इति नियमो विवक्षितः, तथा च दण्डी पुरुष इति ज्ञाने फलीभूते पुरुषस्य दण्ड इति ज्ञानस्य दण्डमात्रविषयत्वेनैव कारणत्वमस्तिपरं यावद्विषयत्वेन कारणता नास्ति। दण्डी पुरुष इति विशिष्टज्ञाने फलीभूते दण्डमात्रविषयत्वेनैव कारणता यतो विशेषणज्ञानमात्रं कारणम् न तु विशेष्यज्ञानम् विशेष्यसन्निकर्षस्यैव कारणत्वात् इति कृत्वा दण्डी पुरुष इति ज्ञाने व्यभिचारो नास्ति। तथा च त्वया दण्डी पुरुष इति ज्ञाने नियमस्य व्यभिचारो दत्तः स न भवति / अत्र एतादृशोक्तस्य नियमस्य विवक्षितत्वादिति भावः इति। केचिदनभिमतबीजं वदन्ति तन्न इत्यन्येन दूषयति / भूतले इति टीका। यत्र प्रथमतो भूतले घटो नास्तीति ज्ञानं जातम्, तदनन्तरं घटाभाववद्भूतलमिति ज्ञानं जायते, तत्र व्यभिचारः / यतो जनकज्ञानं भूतले घटो नास्तीति रूपम्, जन्यं [घटाभावावद्भूतलमिति ज्ञानम्, तत्र सर्वं विशेषणत्वेन जनकमिति।भूतले घटो नास्तीति जनकज्ञानस्य यावद्विषयत्वेन जनकत्वं तावन्मध्ये प्राधान्येन घटो भासते यतो घटस्यैव विशेष्यत्वम् / फलीभूतबोधो घटाभाववद्भूतलमिति, तत्र प्राधान्येन [घटो] न भासते, भूतलमेव यतो विशेष्यत्वेन भासते, घटस्तु अप्राधान्येन भासते यतो भूतलस्य विशेषणमभावस्तस्य विशेषणं घट इत्यप्रधानः / एतदिति। भूतले घटो नास्तीति ज्ञानस्य भूतलविषयत्वेनापि जनकता वर्तते, यतो हि सद्भयाम् अधिकरण-प्रतियोगिभ्याम् अभावो निरूप्यते न तु एकेन सता इति भूतलस्यापि विषयता। तथा चात्र व्यभिचार: सम्पन्नः इति भावः / मध्ये शङ्कते - न चेति / अभावाविशेष्यकं यत् प्रत्यक्षं तत्रैवाधिकरणज्ञानस्य कारणता, नान्यत्र / तथा च भूतलज्ञानं कारणं न भवति इति यावद्विषयकत्वेन जनकता नास्तीति न व्यभिचार इति न च वाच्यमित्यर्थः / लाघवेनेति / लाघवादभावप्रत्यक्षत्वावच्छिन्नं यत् ज्ञानं तत्रैवाधिकरणज्ञानं कारणम्, न तु अभावविशेष्यकप्रत्यक्षत्वावच्छेदेनाधिकरणज्ञानं कारणम् गौरवात् / लाघवादभावप्रत्यक्षत्वावच्छेदेनेति भावः / यदपीति / अयोगव्यवच्छेदेनेति टीका / यो यो धूमवान् स सोऽग्निमान् इति वीप्सया साध्यायोगव्यवच्छेदे(दो) धूमवतिवढेरयोगव्यवच्छेदः, तेन वढेापकता दर्श्यते। तस्याएव परामर्शइति मूले यदुक्तं तदपि नेत्याह - केवलान्वयिनीति। केवलान्वयिनि साध्य(ध्या)योगो हेतुना सह प्रसिद्ध एव नास्तीति [65 B] कथं तदवच्छेदः ? दूषयति - तदपीति। एवमपीति व्यापकताज्ञानस्य कारणतायां दोषः त्वया नोक्तः स्यात् / तथा च मया व्यापकता केवलान्वयी साधारणी स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वमात्रम्, एतच्च केवलान्वयिन्यप्यस्ति इति न तद् दूषणमिति भावः / यत् त्विति। स्वंसमानाधिकरणात्यन्ताभावाप्रतियोगित्वमिति हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यरूपा व्याप्तिः, एवं गौरवम् / तदप्रवेशादिति सामानाधिकरण्याप्रवेशादिति / सामानाधिकरण्याप्रवेशात् व्यापकत्वं तु हेतुसमानाधिकरणात्यन्ताभावा