________________ 132 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अथ जनकज्ञाने उपसर्जनतया भातस्य पक्षस्य पर्वतादेरनुमितौ प्राधान्येन भानं न स्यात् / न हि जनकज्ञाने उपसर्जनतया अवगतं जन्यज्ञाने प्राधान्येन भासते, तथादर्शनात् / न चानुमितेस्तथात्वमसिद्धम्, पर्वतोऽयं वह्निमान् इत्यनुमितेर्लोकसिद्धत्वात् इति चेत्।न।पुरुषस्य दण्ड इति ज्ञानानन्तरंदण्डी पुरुष इति ज्ञानजन्यज्ञानदर्शनात्, अन्यथा तवापि कथं पक्षविशेष्यकत्वनियमः, न हि कारणीभूतज्ञाने यद्विशेष्यतया भासते तत्कार्याभूतेऽपि तथा, इह भूतले घटो नास्ति इति ज्ञानजन्ये घटाभाववद्भूतलम् इति ज्ञाने तत्र च व्यभिचारात् / तस्मात् पक्षवृत्तिलिङ्गपरामर्शस्यायं स्वभावो यत् स्वाश्रयविशेष्यिकामनुमितिं जनयति नातथाभूताम् एवं ममापि तुल्यमिति। नैयायिकः शङ्कते - अथेति मूलम् / यदि पर्वतवृत्ति (धू)मव्यापको वह्निरिति परामर्शः तदा अनुमितौ पर्वतादेः प्राधान्येन भानं न स्यात् / अत्र युक्तिमाह - तथेति मूलम् / न चेति मूलम् / फलभूते वह्नयनुमित्यादौ प्राधान्येन पर्वतादेर्भानं नास्त्येव इतिन चवाच्यम्। पर्वतोऽयमितिमूलम्। तथा च वस्तुगत्या पर्वतस्य मुख्यतया विशेष्यतयैवभानं वर्तते। तन्नस्यादित्याशङ्कार्थः / समाधत्ते पुरुषस्येति।प्रथमतः पुरुषस्य दण्ड इति[दण्डज्ञानम्, ततः] दण्डज्ञानजन्यं दण्डी पुरुषः इति] ज्ञानं जायते। तत्र जनकज्ञाने दण्डज्ञाने उपसर्जनतया भातस्य पुरुषस्य दण्डी पुरुष इति ज्ञाने प्राधान्यं न स्यात् / जनकज्ञानेति व्याप्तेर्भङ्ग इत्यर्थः / अन्यथेति / यदि एतद्व्याप्तिरप्रयोजिकेति नोच्यते तदा तवापि नैयायिकस्यापि पक्षविशेष्यकत्वनियमः [कथम् ?] यदि पर्वत(ते) वहिरिति प्रथमतो ज्ञानं भवति तदनन्तरं पर्वतो वह्निमान् इति ज्ञानं भवति तदा [प्राथमज्ञाने पर्वते वह्रिरितिरूपे पर्वतस्य प्रकारत्वेनभानात् उपसर्जने(र्जनत्वे) पर्वतो वह्निमान् इत्यनुमितौ कथं विशेष्यतया भानम् ? न तु कारणीभूतज्ञाने यत् विशेष्यतया भासते तत् कार्याभूतज्ञानेऽपि विशेष्यतया भासते इति नियम इत्यत आह - न हीति। इह भूतल इति / इह भूतले घटो नास्तीति ज्ञानजन्ये घटाभाववद्भूतलमिति ज्ञाने व्यभिचारः / जनकज्ञानं यथा भूतले घटो नास्तीति ज्ञानम्, अत्र घटो विशेष्यतया भासते, स घटः घटाभाववद्भूतलम् इत्यत्र विशेष्यतया न भासते, इति व्यभिचारः / जनकं तु भवत्येव / उत्तरं विशिष्टज्ञानम्, तत्र विशेषणज्ञानत्वेन भूतले घटो नास्तीति ज्ञानस्य कारणताऽस्ति यत उत्तरत्र घटाभावज्ञानं विशेषणज्ञानमेव। उपसंहरति - तस्मादिति मूलम् / पर्वतवृत्तिः यो धूमस्तस्य यः परामर्शः तस्यायं स्वभावः यत् साधनाश्रयविशेष्यकामनुमितिं जनयति यथा पर्वतो वह्निमान् इति रूपाम्, न तु पर्वते वह्निः इत्यादिकाम्, एवं ममापि मते पर्वतविशेष्यका एवानुमितिः ज्ञा(जा)यते [65 A] यथा पर्वतो वह्निमान् इतीति तुल्यमित्यत [आह / अन्ये इत्यारभ्याहुः इत्यन्तेन व्यापकतापरामर्शवादिनो वदन्ति स्मेत्यर्थः।।