________________ परामर्शनिरूपणम् 131 स्येन्द्रियासन्निर्षादिति वाच्यम्। इष्टापत्तिः, असन्निकृष्टधूमादाविवमानस एव हि सर्वत्र परामर्शः, चक्षुरन्वयव्यतिरेकानुविधानं च पक्षवृत्तिधूमोपनयोपक्षीणम्। मध्ये नैयायिकः शङ्कते - अथेति / यदि तव मते पर्वतवृत्तिधूमव्यापको वह्रिरिति परामर्शस्तदा पर्वतधूमं प्रति वर्या व्यापकता सापर्वतीयधूमसामानाधिकरण्यनियता भवति। तथा चपर्वतीयो यो वह्निः सोऽपि परामर्शविषयो जात इति किमनुमेयम्, अनुमितिः निष्फलास्यात्, पर्वतीयवह्निः परामर्शसाध्य एव भानादित्याशङ्कार्थः / तहीति मूलम् / एवं चेत् तदा पर्वतीयधूमे नियतसाध्यसामानाधिकरण्यरूपं यत् व्याप्यत्वं तस्य भानमपि साध्यसामानाधिकरण्यभाननियतमिति कृत्वा येषां मते व्याप्यतापरामर्शः तेषां मतेऽपि पर्वतीयवह्नि() नाम] इति अनुमितिर्निष्फलास्यादिति तुल्यम् इत्यर्थः / यदिचेति मूलम्। स्मृता महानसादौ पूर्वं प्रत्यक्षीकृता पर्वते स्मृता, तदनन्तरं साधूमेऽवगम्यते स्मर्यते इति, तथा चस्मृता व्यापकता वह्नौ अवगन्तव्या, एवं चानुमितेर्वैफल्यं नास्ति / यतः पूर्वं पर्वतीयवह्वेरभानात् परामर्शकाले वढेापकतायाः स्मरणमेव, तदनन्तरमनुमितिरनुभवरूपा, इति कृत्वाऽनुमितेर्वैफल्यं नास्तीत्यर्थः / अथ टीकामव्याख्यदिति। अनेन यो य इत्यनेन वाक्येन धूमाधिकरणे वक़्यत्यन्ताभावव्यवच्छेदः क्रियते, तेन धूमसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं वह्वेस्तेन वाक्येन प्रतिपाद्यते / वह्निमान् एव धूमवान् इत्यनेन वन्यभाववान् न धूमवान् इति वह्नयभाववद्(द)वृत्तित्वं धूमे प्रतिपाद्यते / इदमेवास्य व्याप्यत्वम् / तथा च एतद्बोधस्य व्याप्यत्वबोधस्य अनुमितिहेतुत्वेऽन्ययोगव्यवच्छेदेन वह्निमान् एवधूमवान् इत्युदाहरणशरीरं स्यात्, न तु यो यो धूमवान् इति रूपम् / व्यापकतापरामर्शवादी [64 B] व्यापकताज्ञानस्यैव हेतुत्वं द्रढयति। वस्तुत इति मूलम् / तद्वन्निष्ठो धूमवन्निष्ठो योऽत्यन्ताभावः तदप्रतियोगित्वं वह्वेर्व्यापकत्वम्, न तु धूमसामानाधिकरण्यघटितं व्यापकत्वम् सामानाधिकरण्यपदप्रवेशेन गौरवात्, लाघवात् तद्विशिष्टेत्यादिकमेव। भवतां मते च वह्निसामानाधिकरण्यविशेष्य इति तवैव मतेऽनुमितेर्वैयर्थ्यम् व्याप्यतापरामर्शकाल एव पर्वतीयवहे नात् इत्यर्थः / न चैवमिति मूलम् / यदि पर्वतवृत्तिधूमव्यापको वह्निरिति भवतां मते परामर्शस्तदा परामर्शस्य चाक्षुषत्वं न स्यात् वह्निविशेष्यकपरामर्श विशेष्यो यो वह्निस्तेन सह सन्निकर्षाभावात् इति न वक्तव्यम् / उत्तरयति - इष्टापत्तिरिति मूलम् / अस्माकं मते परामर्शेऽचाक्षुषत्वमेव / असन्निकृष्टेति मूलम् / यथा तव मते असन्निकृष्टधूमे मानसः परामर्शो भवति तथा मम मते सर्वत्र मानसः परामर्शः / ननु तर्हि मानसत्वे परामर्शस्य चक्षुरन्वयव्यतिरेकानुविधानं कथमित्यत आह - चक्षुरिति मूलम् / पक्षवृत्तीति मूलम् / पक्षवृत्तियों धूमस्तस्योपनयज्ञाने, अन्यथा चक्षुरित्यर्थः /